वायुपुराणम्/पूर्वार्धम्/अध्यायः ६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५ वायुपुराणम्
अध्यायः ६
वेदव्यासः
अध्यायः ७ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।।सूत उवाच।।
आपो ह्यग्नेः समभवन्नष्टेऽग्नौ पृथिवीतले।
सान्तरालैकलीनेऽस्मान्नष्टे स्थावरजङ्गमे ।।१।।

एकार्णवे तदा तस्मिन् न प्राज्ञायत किञ्चन।
तदा स भगवान् ब्रह्मा सहस्राक्षः सहस्रपात् ।।२।।

सहस्रशीर्षा पुरुषो रुक्मवर्णोऽह्यतीन्द्रियः।
ब्रह्मा नारायणाख्यः स सुष्वाप सलिले तदा ।।३।।

सत्त्वोद्रेकात् प्रबुद्धस्तु शून्यं लोकमुदीक्ष्य सः।
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।।४।।

आपो नारा वै तनव इत्यपां नाम शुश्रुमः।
अप्सु शेते च यत्तस्मात्तेन नारायणः स्मृतः ।।५।।

तुल्यं युगसहस्रस्य नैशं कालमुपास्य सः।
शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ।।६।।

ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा तदाचरत्।
निशायामिव खद्योतः प्रावृट्‌काले ततस्ततः ।।७।।

ततस्तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम्।
अनुमानादसंमूढो भूमेरुद्धरणं प्रति ।।८।।

अकरोत् स तनुं त्वन्यां कल्पादिषु यथा पुरा।
ततो महात्मा मनसा दिव्यं रूपमचिन्तयत् ।।९।।

सलिलेनाप्लुतां भूमिं दृष्ट्वा स तु समन्ततः।
किन्नु रूपं महत् कृत्वा उद्धरेयमहं महीम् ।।१०।।

जलक्रीडासु रुचिरं वाराहं रूपमस्मरत्।
अधृष्यं सर्व्वभूतानां वाङ्मयं धर्मसंज्ञितम् ।।११।।

दशयोजनविस्तींर्ण शतयोजनमुच्छ्रितम्।
नीलमेघप्रतीकाशं मेघस्तनितनिःस्वनम् ।।१२।।

महापर्व्वतवर्ष्माणं श्वेतं तीक्ष्णोग्रदंष्ट्रिणम्।
विद्युदग्निप्रकाशाक्षमादित्यसमतेजसम् ।।१३।।

पीनवृत्तायतस्कन्धं सिंहविक्रान्तगामिनम्।
पीनोन्नतकटीदेशं सुश्लक्ष्णं शुभलक्षणम् ।।१४।।

रूपमास्थाय विपुलं वाराहममितं हरिः।
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ।।१५।।

स वेदवाद्युपद्रष्टा क्रतुवक्षाश्चितीमुखः।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ।।१६।।**

अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः।
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ।।१७।।

सत्यधर्ममयः श्रीमान् धर्म्मविक्रमसंस्थितः।
प्रायश्चित्तरतो घोरः पशुजानुर्महाकृति ।।१८।।

ऊर्द्ध्वगात्रो होमलिङ्गः स्थानबीजो महौषधिः।
वेद्यान्तरात्मा मन्त्रस्फिगाज्यस्पृक् सोमशोणितः ।।१९।।

वेदस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान्।
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः ।।२०।।

दक्षिणाहृदयो योगी महासत्रमयो विभुः।
उपाकर्मेष्टिरुचिरः प्रवर्ग्यवित्तभूषणः ।।२१।।

नानाच्छन्दोगतिपथो गुह्योपनिषदासनः।
छायापत्नीसहायो वै मणिश्रृङ्ग इवोच्छ्रितः।
भूत्वा यज्ञवराहो वै अपः स प्राविशत् प्रभुः ।।२२।।

अद्भिः संछादितामुर्वीं स तामश्नन् प्रजापतिः।
उपगम्योज्जहाराशु अपस्ताश्च स विन्यसत् ।।२३।।

सामुद्रीर्वै समुद्रेषु नादेयीश्च नदीष्वथ।
रसातलतले मग्नां रसातलतले गताम्।
प्रभुर्ल्लोकहितार्थाय दंष्ट्रयाभ्युज्जहार गाम् ।।२४।।

ततः स्वस्थानमानीय पृथिवीं पृथिवीकरः।
मुमोच पूर्वं मनसा धारयित्वा धराधरः ।।२५।।

तस्योपरि जलौघस्य महती नौरिव स्थितः।
चरितत्वाच्च देवस्य न मही याति विप्लवम् ।।२६।।

ततोद्धृत्य क्षितिं देवो जगतः स्थापनेच्छया।
पृथिव्याः प्रविभागाय मनश्चक्रेऽम्बुजेक्षणः।
पृथिवीं तु समीकृत्य पृथिव्यां सोऽचिनोद् गिरीन् ।।२७।।

प्राक् सर्वे दह्यमानास्तु तदा संवर्त्तकाग्निना।
तेनाग्निना विशीर्णास्ते पर्वता भुवि सर्वशः ।।२८।।

शैत्यादेकार्णवे तस्मिन्वायुनापस्तु संहृताः।
निषिक्ता यत्र यत्रासंस्तत्रतत्राचलोऽभवत् ।।२९।।

स्कन्नाचलत्वादचलाः पर्व्वभिः पर्व्वताः स्मृताः।
गिरयोऽन्तर्निगीर्णत्वाच्चयनाच्च शिलोच्चयाः ।।३०।।

ततस्तेषु विशीर्णेषु लोकोदधिगिरिष्वथ।
विश्वकर्म्मा विभजते कल्पादिषु पुनः पुनः ।।३१।।

ससमुद्रामिमां पृथ्वीं सप्तद्वीपां सपर्व्वताम्।
भूराद्यां श्चतुरो लोकान् पुनः सोऽथ प्रकल्पयत्।
लोकान् प्रकल्पयित्वा च प्रजासर्गं ससर्ज्ज ह ।।३२।।

ब्रह्मा स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः।
ससर्ज्ज सृष्टिन्तद्रूपां कल्पादिषु यथा पुरा ।।३३।।

तस्याभिध्यायतः सर्गं तदा वै बुद्धिपूर्वकम्।
प्रधानसमकालं वै प्रादुर्भूतस्तमोमयः ।।३४।।

तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः।
अविद्या पञ्चपर्व्वैषा प्रादुर्भूता महात्मनः ।।३५।।

प़ञ्चधा चाश्रितः सर्गो ध्यायतः सोऽभिमानिनः।
सर्व्वतस्तमसा चैव दीपः कुम्भवदावृतः।
बहिरन्तः प्रकाशश्च शुद्धो निःसंज्ञ एव च ।।३६।।

यस्मात्तैः संवृता बुद्धिर्मुख्यानि करणानि च।
तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ।।३७।।

मुख्यसर्गे तथाभूतं ब्रह्मा दृष्ट्वा ह्यसाधकम्।
अप्रसन्नमनाः सोऽथ ततो न्यासोऽभ्यमन्यत ।।३८।।

तस्याभिध्यायतस्तत्र तिर्य्यक् स्रोतोऽभ्यवर्त्तत।
यस्मात्तिर्यग् व्यवर्त्तेत तिर्य्यक्स्रोतस्ततः स्मृतम् ।।३९।।

तमोबहुत्वात्ते सर्व्वे ह्यज्ञानबहुलाः स्मृताः।
उत्पथग्राहिणश्चापि ते ध्यानाद्ध्यानमानिनः ।।४०।।

तिर्य्यक्स्रोतस्तु दृष्ट्वा वै द्वितीयं विश्वमीश्वरः।
अहंकृता अहंमना अष्टाविंशद्विधात्मकाः ।।४१।।

एकादशेन्द्रियविधा नवधा चोदयस्तथा।
अष्टौ च तारकाद्याश्च तेषां शक्तिविधाः स्मृताः ।।४२।।

अतः प्रकाशास्ते सर्व्वे आवृताश्च बहिः पुनः।
यस्मात्तिर्यक् प्रवर्त्तेत तिर्य्यक्स्रोताः स उच्यते ।।४३।।

तिर्यक्स्रोताश्च दृष्ट्वा वै द्वितीयं विश्वमीश्वरः।
अभिप्रायमथोद्धूतं दृष्ट्वा सर्व्वन्तथाभिधम्।
तस्याभिध्यायतो नित्यं सात्त्विकः समवर्त्तत ।।४४।।

ऊर्द्ध्वस्रोतास्तृतीयस्तु स चैवोर्द्ध्वव्यवस्थितः।
यस्माद्व्यवर्त्ततोह्द्ध्वन्तु ऊर्द्ध्वस्रोतास्ततः स्मृतः ।।४५।।

ते सुखप्रीतिबहुला बहिरन्तश्च संवृता।
प्रकाशा बहिरन्तश्च ऊर्द्ध्वस्रोतोद्भवाः स्मृताः ।।४६।।

तेन वा तादयो ज्ञेयाः सृष्टात्मानो व्यवस्थिताः।
ऊर्द्ध्वस्रोतास्तृतीयो वै तेन सर्गस्तु स स्मृतः ।।४७।।

ऊर्द्ध्वस्रोतःसु सृष्टेषु देवेषु स तदा प्रभुः।
प्रीतिमानभवद्ब्रह्मा ततोऽन्यं सोऽभ्यमन्यत।
ससर्ज्ज सर्गमन्यं स साधकं प्रभुरीश्वरः ।।४८।।

अथाभिध्यायतस्तस्य सत्याभिध्यायिनस्तदा।
प्रादुर्ब्बभूव चाव्यक्तादर्व्वाक्‌स्रोतः सुसाधकम्।
यस्मादर्वाक्व्यवर्त्तेत ततोऽर्व्वाक्स्रोत उच्यते ।।४९।।

ते च प्रकाशबहुलास्तमः सत्त्वरजोधिकाः।
तस्मात्ते दुःखबहुला भूयो भूयश्च कारिणः ।।५०।।

प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते।
लक्षणैस्तारकाद्यैस्ते अष्टधा च व्यवस्थिताः ।।५१।।

सिद्धात्मानो मनुष्यास्ते गन्धर्वसहधर्म्मिणः।
इत्येष तेजसः सर्गो ह्यर्व्वाक्स्रोताः प्रकीर्त्तितः ।।५२।।

पञ्चमोऽनुग्रहः सर्गश्चतुर्द्धा स व्यवस्थितः।
विपर्य्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च।
विवृत्तं वर्त्तमानञ्च तेऽर्थं जानन्ति तत्त्वतः ।।५३।।

भूतादिकानां सत्त्वानां षष्ठः सर्गः स उच्यते।
विपर्य्ययेण भूतादिरशक्त्या च व्यवस्थितः ।।५४।।

प्रथमो महतः सर्गो विज्ञेयो महतस्तु सः।
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ।।५५।।

वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रिय कः स्मृतः।
इत्येष प्राकृतः सर्गः सम्भूतो भुद्धिपूर्वकः ।।५६।।

मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः।
तिर्य्यक्सोताश्च यः सर्गस्तिर्य्यग्योनिः स पञ्चमः ।।५७।।

तथोर्द्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः।
तथार्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ।।५८।।

अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसस्तु सः।
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ।।५९।।

प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः।
प्राकृतास्तु त्रयः सर्गाः कृतास्ते बुद्धिपूर्व्वकाः ।।६०।।

बुद्धिपूर्व्वं प्रवर्त्तन्ते षट्सर्गा ब्रह्मणस्तु ते।
विस्तरानुग्रहं सर्गं कीर्त्त्यमानं निबोधत ।।६१।।

चतुर्द्धावास्थितः सोऽथ सर्वभूतेषु कृत्स्नशः।
विपर्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च ।।६२।।

स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तिता।
सिद्धात्मानो मनुष्यास्तु तुष्टिर्द्देवेषु कृत्स्नशः ।।६३।।

इत्येते प्राकृताश्चैव वैकृताश्च नव स्मृताः।
सर्गाः परस्परस्याथ प्रकारा बहवः स्मृताः ।।६४।।

अग्रे ससर्ज्ज वै ब्रह्मा मानसानात्मनः समान्।
सनन्दनञ्च सनकं विद्वांसं च सनातनम् ।।६५।।

विज्ञानेन निवृत्तास्ते वैवर्तेन महौजसः।
संबुद्धाश्चैव नानात्वादपविद्धास्त्रयोऽपिते।
असृष्ट्वैव प्रजासर्गं प्रतिसर्गं गताः पुनः ।।६६।।

तदा तेषु व्यतीतेषु तदान्यान् साधकांश्च तान्।
मानसानसृजद्ब्रह्मा पुनः स्थानाभिमानिनः।
आभूतसंप्लवावस्थान्नामतस्तान्निबोधत ।।६७।।

आपोऽग्निः पृथिवी वायुरन्तरिक्षं दिशस्तथा।
स्वर्गं दिवः समुद्रांश्च नदान् शैलान् वनस्पतीन् ।।६८।।

ओषधीनां तथात्मानो ह्यात्मानो वृक्षवीरुधाम्।
लवाः काष्ठाः कलाश्चैव मुहूर्त्ताः सन्धिरात्र्यहाः ।।६९।।

अर्द्धमासाश्च मासाश्च अयनाब्दयुगानि च।
स्थानाभिमानिनः सर्वे स्थानाख्याश्चैव ते स्मृताः ।।७०।।

वक्राद्यस्य ब्राह्मणाः संप्रसूतास्तद्वक्षस्तः क्षत्रियाः पूर्वभागैः।
वैश्याश्चोर्वोर्यस्य पद्भ्याञ्च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः ।।७१।।

नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम्।
अण्डाज्जज्ञे पुनर्ब्रह्मा लोकास्तेन कृताः स्वयम् ।।७२।।

एष वः कथितः पादः समासान्न तु विस्तरात्।
अनेनाद्येन पादेन पुराणं संप्रकीर्तितम् ।।७३।।

इति श्रीमहापुराणे वायुप्रोक्ते सृष्टिप्रकरणं नाम षष्ठोऽध्यायः ।। ६ ।।

समाप्तः प्रक्रियापादः ।।*।।*।।

    • पाठान्तरः

वेदपाद्यूपदंष्ट्रः क्रतुवक्षाश्चितीमुखः।

अग्निजिह्वी दर्भरोमा ब्रह्मशीर्षो महातपाः।।१६।।