वायुपुराणम्/पूर्वार्धम्/अध्यायः ८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ७ वायुपुराणम्
अध्यायः ८
वेदव्यासः
अध्यायः ९ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१


।।सूत उवाच।।
तुल्यं युगसहस्रस्य नैशं कालमुपास्य सः।
शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ।।१।।

ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा तदाचरत्।
अन्धकारे तदा तस्मिन् नष्टे स्थावरजङ्गमे ।।२।।

जलेन समनुव्याप्ते सर्वतः पृथिवीतले।
अविभागेन भूतेषु समन्तात्सुस्थितेषु च ।।३।।

निशायामिव खद्योतः प्रावृट्‌काले ततस्ततः।
तदाकाशे चरन् सोऽथ वीक्ष्यमाणः स्वयम्भुवः ।।४।।

प्रतिष्ठाया ह्यपायन्तु मार्गमाणस्तदा प्रभुः।
ततस्तु सलिले तस्मिन् ज्ञात्वा ह्यन्तर्गतां महीम् ।।५।।

अनुमानात्तु सम्बुद्धो भूमेरुद्धरणं प्रति।
चकारान्यां तनुञ्चैव पूर्वकल्पादिषु स्मृताम् ।।६।।

स तु रूपं वराहस्य कृत्वाऽपः प्राविशत् प्रभुः।
अद्भिः सञ्छादितामुर्वीं समीक्ष्याथ प्रजापतिः ।।७।।

उद्धृत्योर्वीमथाद्भ्यस्तु अपस्तास्तु स विन्यसत्।
सामुद्रीस्तु समुद्रेषु नादेयीर्निम्नगास्वपि।
पार्थिवीस्तु स विन्यस्य पृथिव्यां सोऽचिनोद्गिरीन् ।।८।।

प्राक्सर्गे दह्यमाने तु तदा संवर्त्तकाग्निना।
तेनाग्निना प्रलीनास्ते पर्वता भुवि सर्वशः ।।९।।

शैत्यादेकार्णवे तस्मिन् वायुनापस्तु संहृताः।
निषक्ता यत्र यत्रासंस्तत्रतत्राऽचलोऽभवत् ।।१०।।

स्कन्नाचलत्वादचलाः पर्वभिः पर्वताः स्मृताः।
गिरयोऽद्भिर्निगीर्णत्वाच्चयनाच्च शिलोच्चयाः ।।११।।

ततस्तु तां समुद्धृत्य क्षितिमन्तर्ज्जलात् प्रभुः।
स्वस्थाने स्थापयित्वा च विभागमकरोत् पुनः ।।१२।।

सप्त सप्त तु वर्षाणि तस्या द्वीपेषु सप्तसु।
विषमाणि समीकृत्य शिलाभिरचिनोद्गिरीन् ।।१३।।

द्वीपेषु तेषु वर्षाणि चत्वारिंशत्तथैव च।
तावन्तः पर्वताश्चैव वर्षान्ते समवस्थिताः।
सर्गादौ सन्निविष्टास्ते स्वभावेनैव नान्यथा ।।१४।।

सप्त द्वीपाः समुद्राश्च अन्योन्यस्य तु मण्डलम्।
सन्निकृष्टाः स्वभावेन समावृत्य परस्परम् ।।१५।।

भूराख्यांश्चतुरो लोकांश्चन्द्रादित्यौ ग्रहैः सह।
पूर्वं तु निर्म्ममे ब्रह्मा स्थानानीमानि सर्वशः ।।१६।।

कल्पस्य चास्य ब्रह्मा वै ह्यसृजत् स्थानिनः पुरा।
आपोऽग्रिः पृथिवी वायुरन्तरिक्षं दिवं तथा ।।१७।।

स्वर्गं दिशः समुद्रांश्च नदीः सर्वांश्च पर्वतान्।
ओषधीनां तथात्मानमात्मानं वृक्षवीरुधाम् ।।१८।।

लवाः काष्ठाः कलाश्चैव मुहूर्तं सन्धिरात्र्यहम्।
अर्द्धमासांश्च मासांश्च अयनाब्दयुगानि च ।।१९।।

स्थानाभिमानिनश्चैव स्थानानि च पृथक् पृथक्।
स्थानात्मानः स सृष्ट्वा वै युगावस्थां विनिर्ममे ।।२०।।

कृतं त्रेता द्वापरं च कलिं चैव तथा युगम्।
कल्पस्यादौ कृतयुगे प्रथमे सोऽसृजत् प्रजाः ।।२१।।

प्रागुक्ता या मया तुभ्यं पूर्वकालं प्रजास्तु ताः।
तस्मिन् संवर्त्तमाने तु कल्पे दग्धास्तदाऽग्निना ।।२२।।

अप्राप्ता यास्तपोलोकं जनलोकं समाश्रिताः।
प्रवर्तन्ति पुनः सर्गे बीजार्थं ता भवन्ति हि ।।२३।।

बीजार्थेन स्थितास्तत्र पुनः सर्गस्य कारणात्।
ततस्ताः सृज्यमानास्तु सन्तानार्थं भवन्ति हि ।।२४।।

धर्म्मार्थकाममोक्षाणामिह ताः साधकाः स्मृताः।
देवाश्च पितरश्चैव ऋषयो मनवस्तथा ।।२५।।

ततस्ते तपसा युक्तः स्थानान्यापूरयन्ति हि।
ब्रह्मणो मानसास्ते वै सिद्धात्मानो भवन्ति हि ।।२६।।

ये सर्गा द्वेषयुक्तेन कर्मणा ते दिवं गताः।
आवर्त्तमाना इह ते सम्भवन्ति युगे युगे ।।२७।।

स्वकर्मफलशेषेण ख्याताश्चैव तथात्मिकाः।
संभवन्ति जनाल्लोकात् कर्मसंशयबन्धनात् ।।२८।।

आशयः कारणं तत्र बोद्धव्यं कर्मणां तु सः।
तैः कर्मभिस्तु जायन्ते जनाल्लोकाः शुभाशुभैः ।।२९।।

गृह्णन्ति ते शरीराणि नानारूपाणि योनिषु।
देवाद्यस्थावरान्ते च उत्पद्यन्ते परस्परम् ।।३०।।

तेषां ये यानि कर्माणि प्राक् सृष्टेः प्रतिपेदिरे।
तान्येते प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ।।३१।।

हिस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ।।३२।।

कल्पेष्वासन् व्यतीतेषु रूपनामानि यानि च।
तान्येवानागते काले प्रायशः प्रतिपेदिरे ।।३३।।

तस्मात्तु नामरूपाणि तान्येव प्रतिपेदिरे।
पुनः पुनस्ते कल्पेषु जायन्ते नामरूपतः ।।३४।।

ततः सर्गे ह्यवष्टब्धे सिसृक्षोर्ब्रह्मणस्तु वै।
प्रजास्ता ध्यायतस्तस्य सत्याभिध्यायिनस्तदा ।।३५।।

मिथुनानां सहस्रन्तु सोऽसृजद्वै मुखात्तदा।
जनास्ते ह्युपपद्यन्ते सत्त्वोद्रिक्ताः सुचेतसः ।।३६।।

सहस्रमन्यद्वक्षस्तो मिथुनानां ससर्ज्ज ह।
ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यशुष्मिणः ।।३७।।

सृष्ट्वा सहस्रमन्यत्तु द्वन्द्वानामूरुतः पुनः।
रजस्तमोभ्यामुद्रिक्ता ईहाशीलास्तु ते स्मृताः ।।३८।।

पद्भ्यां सहस्रमन्यत्तु मिथुनानां ससर्ज्ज ह।
उद्रिक्तास्तमसा सर्वे निःश्रीका ह्यल्पतेजसः ।।३९।।

ततो वै हर्षमानास्ते द्वन्द्वोत्पन्नास्तु प्राणिनः।
अन्योन्या हृच्छपाविप्टा मैथुनायोपचक्रमुः ।।४०।।

ततःप्रभृति कल्पेऽस्मिन् मिथुनोत्पत्तिरुच्यते।
मासे मासेर्त्तवं यद्यत्तदाज्ञासिद्धि योषितात् ।।४१।।

तस्मात्तदा न सुषुवुः सेवितैरपि मैथुनैः।
आयुषोऽन्ते प्रसूयन्ते मिथुनान्येव ते सकृत् ।।४२।।

कुटकाः कुविकाश्चैव उत्पद्यन्ते मुमूर्षिताः।
ततःप्रभृति कल्पेऽस्मिन् मिथुनानां हि सम्भवः ।।४३।।

ध्याते तु मनसा तासां प्रजानां जायते सकृत्।
शब्दादि विषयः शुद्धः प्रत्येकं पञ्चलक्षणः ।।४४।।

इत्येवं मनसा पूर्वं प्राक्सृष्टिर्या प्रजापतेः।
तस्यान्ववाये सम्भूता यैरिदं पूरितं जगत् ।।४५।।

सरित्सरः समुद्रांश्च सेवन्ते पर्वतानपि।
तदा नात्यम्बुशीतोष्णा युगे तस्मिन् चरन्ति वै ।।४६।।

पृथ्वीरसोद्भवं नाम आहारं ह्याहरन्ति वै।
ताः प्रजाः कामचारिण्यो मानसीं सिद्धिमास्थिताः ।।४७।।

धर्माधर्मौ न तास्वास्तां निर्विशेषाः प्रजास्तु ताः।
तुल्यमायुः सुखं रूपं तासां तस्मिन् कृते युगे ।।४८।।

धर्माधर्मौ न तास्वास्तां कल्पादौ तु कृते युगे।
स्वेन स्वेनाधिकारेण जज्ञिरे ते कृते युगे ।।४९।।

चत्वारि तु सहस्राणि वर्षाणां दिव्यसंख्यया।
आद्यं कृतयुगं प्राहुः सन्ध्यानान्तु चतुः शतम् ।।५०।।

ततः सहस्रशस्तासु प्रजासु प्रथितास्वपि।
न तासां प्रतिघातोऽस्ति न द्वन्द्वन्नापि च क्रमः ।।५१।।

पर्वतोदधिसेविन्यो ह्यनिकेताश्रयास्तु ताः।
विशोकाः सत्त्वबहुला एकान्तसुखितप्रजाः ।।५२।।

ता वै निकामचारिण्यो नित्यं मुदितमानसाः।
पशवः पक्षिणश्चैव न तदासन् सरीसृपाः ।।५३।।

नोद्भिज्जा नारकाश्चैव ते ह्यधर्मप्रसूतयः।
न मूलफलपुष्पञ्च नार्त्तवं ह्यृतवो न च ।।५४।।

सर्वकामसुखः कालो नात्यर्थं ह्युष्णशीतता।
मनोभिलषिताः कामास्तासां सर्वत्र सर्वदा ।।५५।।

उत्तिष्ठन्ति पृथिव्यां वै ताभिर्ध्याता रसोत्थिताः।
बलवर्णकरी तासां सिद्धिः सा रोगनाशिनी ।।५६।।

असंस्कार्यैः शरीरैश्च प्रजास्ताः स्थिरयौवनाः।
तासां विशुद्धात् सङ्कल्पाज्जायन्ते मिथुनाः प्रजाः ।।५७।।

समं जन्म च रूपञ्च म्रियन्ते चैव ताः समम्।
तदा सत्यमलोभश्च क्षमा तुष्टिः सुखं दमः ।।५८।।

निर्विशेषाः कृताः सर्वा रूपायुःशीलचेष्टितैः।
अबुद्धिपूर्वकं वृत्तं प्रजानां जायते स्वयम् ।।५९।।

अप्रवृत्तिः कृतयुगे कर्मणोः शुभपापयोः।
वर्णाश्रमव्यवस्थाश्च न तदासन्न सङ्करः ।।६०।।

अनिच्छाद्वेषयुक्तास्ते वर्त्तयन्ति परस्परम्।
तुल्यरूपायुषः सर्वा अधमोत्तमवर्ज्जिताः ।।६१।।

सुखप्राया ह्यशोकाश्च उत्पद्यन्ते कृते युगे।
नित्यप्रहृष्टमनसो महासत्त्वा महाबलाः ।।६२।।

लाभालाभौ नास्वास्तां मित्रामित्रे प्रियाप्रिये।
मनसा विषयस्तासान्निरीहाणां प्रवर्त्तते।
न लिप्सन्ति हि ताऽन्योन्यन्नानुगृह्णन्ति चैव हि ।।६३।।

ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते।
प्रवृत्तं द्वापरे यज्ञं दानं कलियुगे वरम् ।।६४।।

सत्त्वं कृतं रजस्त्रेता द्वापरन्तु रजस्तमौ।
कलौ तमस्तु विज्ञेयं युगवृत्तवशेन तु ।।६५।।

कालः कृते युगे त्वेष तस्य संख्यान्निबोधत।
चत्वारि तु सहस्राणि वर्षाणां त्त कृतं युगम् ।।६६।।

सन्ध्यांशौ तस्य दिव्यानि शतान्यष्टौ च संख्यया।
तदा तासां बभूवायुर्न्न च क्लेशविपत्तयः ।।६७।।

ततः कृतयुगे तस्मिन् सन्ध्यांशे हि गते तु वैः।
पादावशिष्टो भवति युगधर्मस्तु सर्वशः ।।६८।।

सन्ध्यायामप्यतीतायामन्तकाले युगस्य तु।
पादतश्वावतिष्ठेत्तु सन्ध्याधर्मो युगस्य तु।
एवं कृते तु निःशेषे सिद्धि स्त्वन्तर्दधे तदा ।।६९।।

तस्याञ्च सिद्धौ भ्रष्टायां मानस्यामभवत्ततः।
सिद्धिरन्या युगे तस्मिस्त्रेतायामन्तरे कृताः ।।७०।।

सर्गादौ या मयाष्टौ तु मानस्यो वै प्रकीर्त्तिताः।
अष्टौ ताः क्रमयोगेन सिद्धयो यान्ति संक्षयम् ।।७१।।

कल्पादौ मानसी ह्येषा सिद्धिर्भवति सा कृते।
मन्वन्तरेषु सर्वेषु चतुर्युगविभागशः।
वर्णाश्रमाचारकृतः कर्मसिद्धोद्भवः स्मृतः ।।७२।।

सन्ध्याकृतस्य पादेन सन्ध्यापादेन चांशतः।
कृतसन्ध्यांशका ह्येते त्रींस्त्रीन् पादान् परस्परान्।
ह्रसन्ति युगधर्मैस्ते तपः श्रुतबलायुषैः ।।७३।।

ततः कृतांशे क्षीणे तु बभूव तदनन्तरम्।
त्रेतायां युगमन्यन्तु कृताशमृषिसत्तमाः ।।७४।।

तस्मिन् क्षीणे कृतांशे तु तच्छिष्टासु प्रजास्विह।
कल्पादौ संप्रवृत्तायास्त्रेतायाः प्रमुखे तदा ।।७५।।

प्रणश्यति तदा सिद्धिः कालयोगेन नान्यथा।
तस्यां सिद्धौ प्रणष्टायामन्या सिद्धिरवर्त्तत ।।७६।।

अपां सौक्ष्म्ये प्रतिगते तदा मेघात्मना तु तौ।
मेघेभ्यस्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्ज्जनम् ।।७७।।

सकृदेव तया वृष्ट्या संयुक्ते पृथिवीतले।
प्रादुरासंस्तदा तासां वृक्षास्तु गृहसंस्थिताः ।।७८।।

सर्वप्रत्युपभोगस्तु तासां तेभ्यः प्रजायते।
वर्त्तयन्ति हि तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ।।७९।।

ततः कालेन महता तासामेव विपर्ययात्।
रागलोभात्मको भावस्तदा ह्याकस्मिकोऽभवत् ।।८०।।

यत्तद्भवति नारीणां जीवितान्ते तदार्त्तवम्।
तदा तद्वै न भवति पुनर्युगबलेन तु ।।८१।।

तासां पुनः प्रवृत्तं तु मासे मासे तदार्त्तवम्।
ततस्तेनैव योगेन वर्त्ततां मिथुने तदा ।।८२।.
तासां तत्कालभावित्वान्मासि मास्युपगच्छताम्।
अकाले ह्यार्त्तवोत्पत्तिर्गर्भोत्पत्तिरजायत ।।८३।।

विपर्ययेण तासां तु तेन कालेन भाविना।
प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंस्थिताः ।।८४।।

ततस्तेषु प्रणष्टेषु विभ्रान्ता व्याकुलेन्द्रियाः।
अभि ध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा ।।८५।।

प्रादुर्बभूवुस्तासां च वृक्षास्ते गृहसंस्थिताः।
वस्त्राणि च प्रसूयन्ते फलान्याभरणानि च ।।८६।।

तेष्वेव जायते तासां गंधवर्णरसान्वितम्।
अमाक्षिकं महावीर्यं पुटके पुटके मधु ।।८७।।

तेन ता वर्तयन्ति स्म मुखे त्रेतायुगस्य च।
हृष्टतुष्टास्तया सिद्ध्या प्रजा वै विगतज्वराः ।।८८।।

पुनः कालांतरेणैव पुनर्ल्लोभावृतास्तु ताः।
वृक्षांस्तान् पर्यगृह्णन्त मधु वा माक्षिकं बलात् ।।८९।।

तासां तेनापचारेण पुनर्ल्लोककृतेन वै।
प्रणष्टा मधुना सार्द्धं कल्पवृक्षाः व्कचित् व्कचित् ।।९०।।

तस्यामेवाल्पशिष्टायां संध्याकालवशात्तदा।
प्रावर्तंत तदा तासां द्वंद्वान्यभ्युत्थितानि तु ।।९१।।

शीतवातातपैस्तीव्रैस्ततस्ता दुःखिता भृशम्।।

द्वंद्वैस्ताः पीड्यमानास्तु चक्रुरावरणानि च ।।९२।।

कृत्वा द्वंद्व प्रतीकारं निकेतानि हि भोजिरे।
पूर्वं निकमिपारास्ते अनिकेताश्रया भृशम् ।।९३।।

यथायोग्यं यथाप्रीति निकेतेष्ववसन् पुनः।
मरुधन्वसु निम्नेषु पर्वतेषु नदीषु च।
संश्रयन्ति च दुर्गाणि धन्वानं शाश्वतोदकम् ।।९४।।

यथायोगं यथाकामं समेषु विषमेषु च।
आरब्धास्ते निकेता वै कर्त्तं शीतोष्ण वारणम् ।।९५।।

ततः संस्थापयामास खेटानि च पुराणि च।
ग्रामांश्चैव यथाभागं तथैवान्तः पुराणि च ।।९६।।

तासामायामविष्कम्भान् संनिवेशान्तराणि च।
चक्रुस्तदा यथाप्रज्ञं प्रदेशः संज्ञितस्तु तैः ।।९७।।

अंगुष्ठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते।
तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया ।।९८।।

कनिष्ठया वितस्तिस्तु द्वादशाङुल उच्यते।
रत्निरङ्गुलपर्व्वाणि संख्यया त्वेकविंशतिः ।।९९।।

चतुर्विंशतिभिश्चैव हस्तः स्यादङ्गुलानि तु।
किष्कुः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदङ्गुलम् ।।१००।।

चतुर्हस्तं धनुर्दण्डो नालिकायुगमेव च।
धनुः सहस्रे द्वे तत्र गव्यूतिस्तैर्विभाव्यते ।।१०१।।

अष्टौ धनुःसहस्राणि योजनं तौर्निरुच्यते।
एतेन योजनेनैव सन्निवेशस्ततः कृतः ।।१०२।।

चतुर्णामेव दुर्गाणां स्वसमुत्थानि त्रीणि तु।
चतुर्थं कृत्रिमं दुर्गं तस्य वक्ष्याम्यहं विधिम् ।।१०३।।

सौधोच्चवप्रप्राकारं सर्वतश्चातकावृतम्।
तदेकं स्वस्तिकद्वारं कुमारीपुरमेव च ।।१०४।।

श्रोतसीसह तद्द्वारं निखातं पुनरेव च।
हस्ताष्टौ च दश श्रेष्ठा नवाष्टौ वाऽपरे मताः ।।१०५।।

खेटानां नगराणाञ्च ग्रामाणाञ्चैव सर्व्वशः।
त्रिविधानाञ्च दुर्गाणां पर्व्व तोदकबन्धनम् ।।१०६।।

त्रिविधानाञ्च दुर्गाणां विष्कम्भायाममेव च।
योजनानाञ्च विष्कम्भमष्टभागार्द्धमायतम् ।।१०७।।

परमार्द्धार्द्धमायामं प्रगुदक्‌प्रवरं पुरम्।
छिन्नकर्णं विकर्णन्तु व्यञ्जनं कृशसंस्थितम् ।।१०८।।

वृत्तं हीनञ्च दीर्घञ्च नगरं न प्रशस्यते।
चतुरस्रार्जवं दिक्स्थं प्रशस्तंवै पुरं परम् ।।१०९।।

चतुर्विंशतिराद्यन्तु हस्तानष्टशतं परम्।
अत्र मध्यं प्रशंसन्ति ह्रस्वोत्कृष्टविवर्ज्जितम् ।।११०।।

अथ किष्कुशतान्यष्टौ प्राहुर्मुख्यनिवेशनम्।
नगरादर्धविष्कम्भं खेटं ग्रामं ततो बहिः ।।१११।।

नगराद्योजनं खेटं शेटाद्ग्रामोऽर्द्धयोजनम्।
द्विक्रोशं परमा सीमा क्षेत्रसीमा चतुर्द्धनुः ।।११२।।

विंशद्धनूंषि विस्तीर्णो दिशां मार्गस्तु तैः कृतः।
विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ।।११३।।

धनूंषि दश विस्तीर्णः श्रीमान् राजपथः स्मृतः।
नृवाजिरथनागानामसम्बाधः सुसञ्चरः ।।११४।।

धनूंषि चैव चत्वारि शाखारथ्यास्तु तैः कृताः।
गृहरथ्योपरथ्याश्च द्विकाश्चाप्युपरथ्यकाः ।।११५।।

घण्टापथश्चतुष्पादस्त्रिपदञ्च गृहान्तरम्।
वृत्तिमार्गास्त्वर्द्धपदं प्राग्वंशः पदिकः स्मृतः ।।११६।।

अवस्करं परीवाहं पदमात्रंसमन्ततः।
कृतेषु तेषु स्थानेषु पुनस्वक्रुर्गृहाणि वै ।।११७।।

यथा ते पूर्वमासन्वै वृक्षास्तु गृहसंस्थिताः।
तथा कर्तुं समारब्धाश्चिन्तयित्वा पुनः पुनः ।।११८।।

वृक्षाश्चैवगताः शाखा न ताश्चैव परागताः।
अत ऊर्द्ध्वंगता श्चान्या एवं तिर्य्यग्गताः पुरा ।।११९।।

बुद्ध्वाऽन्विष्यस्तथा न्यायो वृक्षशाखा यथा गताः।
तथा कृतास्तु तैः शाखास्तस्माच्छालास्तु ताः स्मृताः ।।१२०।।

एवं प्रसिद्धाः शाखाभ्यः शालाश्चैव गृहाणि च।
तस्मात्ता वैस्मृताः शालाः शालात्वं चैव तासु तत् ।।१२१।।

प्रसीदति मनस्तासु मनः प्रसादयन्ति ताः।
तस्माद्गृहाणि शालाश्च प्रासादाश्चैव संज्ञिताः ।।१२२।।

कृत्वा द्वन्द्वोपघातांस्तान् वार्त्तोपायमचिन्तयन्।
नष्टेषु मधुना सार्द्धं कल्पवृक्षेषु वै तदा।
विषादव्याकुलास्तावै प्रजास्तृष्णाक्षुधात्मिकाः ।।१२३।।

ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः।
वार्तार्थसाधिकाप्यन्या वृत्तिस्तासां हि कामतः ।।१२४।।

तासां वृष्ट्युदकानीह यानि निम्नैर्गतानि तु।
वृष्ट्या तदभावत्स्रोतः खातानि निम्नगाः स्मृताः ।।१२५।।

एवं नद्यः प्रवृत्तास्तु द्वितीये वृष्टिसर्ज्जने।
ये परस्तादपां स्तोका आपन्नाः पॄथिवीतले ।।१२६।।

अपाम्भूमेश्च संयोगादोषध्यस्तासु चाभवन्।
पुष्पमूलफलिन्यस्तु ओषध्यस्ताः प्रजज्ञिरे ।।१२७।।

अफालकृष्टाश्चानुप्ता ग्राम्याऽरण्याश्चतुर्दश।
ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे ।।१२८।।

प्रादुर्भावश्च त्रेतायां वार्त्तायामौषधस्य तु।
तैनौषधेन वर्त्तन्ते प्रजास्त्रेतायुगे तदा ।।१२९।।

ततः पुनरभूत्तासां रागो लोभश्च सर्वशः।
अवश्यम्भाविनार्थेन त्रेतायुगवशेन तु ।।१३०।।

ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान्।
वृक्षान् गुलर्मौषधीश्चैव प्रसह्य तु यथाबलम् ।।१३१।।

सिद्धात्मानस्तु ये पूर्वं व्याख्याताः प्राकृते मया।
ब्रह्मणा मानवास्ते वै उत्पन्ना योजनादिह ।।१३२।।

शान्ताश्च सुष्मिणश्चैव कर्मिणो दुःखिनस्तदा।
ततः प्रवर्त्तमानास्ते त्रेतायां जर्ज्ञिरे पुनः ।।१३३।।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा द्रोहिजनास्तथा।
भाविताः पूर्वजातीषु कर्मभिश्च शुभाशुभैः ।।१३४।।

इतस्तेभ्यो बला ये तु सत्यशीला ह्यहिंसकाः।
वीतलोभा जितात्मानो निवसन्ति स्म तेषु वै ।।१३५।।

प्रतिगृह्णन्ति कुर्वन्ति तेभ्यश्चान्येऽल्पतेजसः।
एवं विप्रतिपन्नेषु प्रपन्नेषु परस्परम् ।।१३६।।

तेन दोषेण तेषां ता ओषध्यो मिषतां तदा।
प्रणष्टा ह्रियमाणा वै मुष्टिब्यां सिकता यथा ।।१३७।।

अग्रसद्भूर्युगबलाद्ग्राम्यारण्याश्चतुर्दश।
फलं गृह्णन्ति पुष्पैश्च पुष्वं पत्रैश्च याः पुनः ।।१३८।।

ततस्तासु प्रणष्टासु विभ्रान्तास्ताः प्रजास्तदा।
स्वयम्भुवं प्रभुं जग्मुः क्षुधाविष्टाः प्रजापतिम् ।।१३९।।

वृत्त्यर्थमभि लिप्सन्त आदौ त्रेतायुगस्य तु।
ब्रह्मा स्वयम्भूर्भगवान् ज्ञात्वा तासां मनीषितम् ।।१४०।।

युक्तं प्रत्यक्षदृष्टेन दर्शनेन विचार्य च।
ग्रस्ताः पृथिव्या ओषध्यो ज्ञात्वा प्रत्यदुहत्पुनः ।।१४१।।

कृत्वा वत्सं सुमेरुं तु दुदोह पृथिवीमिमाम्।
दुग्धेयं गौस्तदा तेन बीजानि पृथिवीतले ।।१४२।।

जज्ञिरे तानि बीजानि ग्राम्यारण्यास्तु ताः पुनः।
ओषध्यः फलपाकान्ताः सप्तसप्तदशास्तु ताः ।।१४३।।

व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः।
प्रियङ्गवौ ह्युदाराश्च कारषाश्च सतीनकाः ।।१४४।।

माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः।
आढक्यश्वणकाश्चैव सप्तसप्तदशाः स्मृताः ।।१४५।।

इत्येता ओषधीनां तु ग्राम्याणां जातयः स्मृताः।
ओषध्यो यज्ञियाश्चैव ग्राम्यारण्या श्चतुर्द्दश ।।१४६।।

व्रीहयः सयवा माषा गोधूमा अणवस्तिलाः।
प्रियङुसप्तमा ह्येते अष्टमी तु कुलत्थिका ।।१४७।।

श्यामाका स्त्वथ नीवारा जर्त्तिलाः सगवेधुकाः।
कुरुविन्दा वेणुयवास्तथा मर्कटकाश्च ये ।।१४८।।

ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्द्दश।
उत्पन्नाः प्रथमा ह्येता आदौ त्रेतायुगस्य तु ।।१४९।।

अफालकृष्टा ओषध्यो ग्राम्यारण्यास्तु सर्वशः।
वृक्षा गुल्मलतावल्लीवीरुधस्तृणजातयः ।।१५०।।

मूलैः फलैश्च रोहिण्यो गृह्णन् पुष्पैश्च जायते।
पृथ्वी दुग्धा तु बीजानि यानि पूर्वं स्वयम्भुवा ।।१५१।।

ऋतुपुष्पफलास्ता वै ओषध्यो जज्ञिरे त्विह।
यदा प्रसृष्टा ओषध्यो न प्ररेहन्ति ताः पुनः ।।१५२।।

ततः स तासां वृत्त्यर्थं वार्त्तोपायं चकार ह।
ब्रह्मा स्वयंभूर्भगवान् दृष्ट्वा सिद्धिं तु कर्मजाम् ।।१५३।।

ततः प्रभृत्यथौषध्यः कृष्टपच्यास्तु जज्ञिरे।
संसिद्धायान्तु वार्त्तायान्ततस्तासां स्वयंभुवः।
मर्यादाः स्थापयामास यथारब्धाः परस्परम् ।।१५४।।

ये वै परिगृहीतारस्तासामासन्विधात्मकाः।
इतरेषां कृतत्राणाः स्थापयामास क्षत्रियान् ।।१५५।।

उपतिष्ठन्ति ये तान्वै यावन्तो निर्भयास्तथा।
सत्यं ब्रह्म यथा भूतं यथा भूतं ब्रुवन्तो ब्राह्मणाश्च ते ।।१५६।।

ये चान्येप्यबलास्तेषां वैश्यसंकर्मसंस्थिताः।
कीनाशा नाशयन्ति स्म पृथिव्यां प्रागतन्द्रिताः।
वैश्यानेव तु तानाहुः की नाशान् वृत्तिसाधकान् ।।१५७।।

शोचन्तश्च द्रवन्तश्च परिचर्यासु ये रताः।
निस्तेजसोऽल्पवीर्याश्च शूद्रास्तानब्रवीत्तु सः ।।१५८।।

तेषां कर्माणि धर्माश्च ब्रह्मा तु व्यदधात् प्रभुः।
संस्थितौ प्राकृतायां तु चातुर्वर्णस्य सर्वशः ।।१५९।।

पुनः प्रजास्तु ता मोहात् तान् धर्मांस्तानपालयन्।
वर्ण धर्मैरजीवन्त्यो व्यरुध्यन्त परस्परम् ।।१६०।।

ब्रह्मा तमर्थं बुद्ध्वा तु याथातथ्येन वै प्रभुः।
क्षत्रियाणां बलं दण्डं युद्धमाजीवमादिशत् ।।१६१।।

याजनाध्यापनं चैव तृतीयं च परिग्रहम्।
ब्राह्मणानां विभुस्तेषां कर्माण्येतान्यथादिशत् ।।१६२।।

पाशुपाल्यं च वाणिज्यं कृषिं चैव विशां ददौ।
शिल्पाजीवं भृतिञ्चैव शूद्राणां व्यदधात् प्रभुः ।।१६३।।

सामान्यानि तु कर्माणि ब्रह्मक्षत्रविशां पुनः।
यजनाध्ययनं दानं सामान्यानि तु तेषु च ।।१६४।।

कर्माजीवं ततो दत्त्वा तेभ्यश्चैव परस्परम्।
लोकान्तरेषु स्थानानि तेषां सिद्ध्याऽददत् प्रभुः ।।१६५।।

प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम्।
स्थानमैन्द्रं क्षत्रियाणां संग्रामष्वेपलायिनाम् ।।१६६।।

वैश्यानां मारुतं स्थानं स्वधर्ममुपजीविनाम्।
गान्धर्वं शूद्रजातीनां प्रतिचारेण तिष्ठताम् ।।१६७।।

स्थानान्येतानि वर्णानां व्यत्याचारवतां स्वयम्।
ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् ।।१६८।।

गृहस्थो ब्रह्मचारित्वं वानप्रस्थं सभिक्षुकम्।
आश्रमांश्चतुरो ह्येतान् पूर्वमास्थापयत् प्रभुः ।।१६९।।

वर्णकर्माणि ये केचित्तेषामिह न कुर्वते ।
कुतः कर्मा क्षितिं प्राहुराश्रमस्थानवासिनः ।।१७०।।

ब्रह्मा तान् स्थापयामास आश्रमान्नामनामतः।
निर्द्देशार्थं ततस्तेषां ब्रह्मा धर्मान् प्रभाषत।
प्रस्थानानि च तेषां वै यमांश्च नियमांश्च ह ।।१७१।।

चातुर्वर्णात्मकः पूर्वं गृहस्थश्चाश्रमः स्मृतः।
त्रयाणामाश्रमाणाञ्च प्रतिष्ठायोनिरेव च।
यथाक्रमं प्रवक्ष्यामि यमैश्च नियमैश्च ते ।।१७२।।

दाराऽग्नयोऽथातिथेय इज्याश्राद्धक्रियाः प्रजाः।
इत्येष वै गृहस्थस्य समासाद्धर्मसंग्रहः ।।१७३।।

दण्डी च मेखली चैव ह्यधः शायी तथा जटी।
गुरुशुश्रूषणं भैक्षं विद्याद्वै ब्रह्मचारिणः ।।१७४।।

चीरपत्राजिनानि स्युर्द्धान्यमूलफलौषधम्।
उभे सन्ध्येऽवगाहश्च होमश्वारण्य वासिनाम् ।।१७५।।

आसन्नमुसले भैक्षमस्तेयं शौचमेव च।
अप्रमादोऽव्यवायश्च दया भूतेषु च क्षमा ।।१७६।।

अक्रोधो गुरुशुश्रूषा सत्यञ्च दशमं स्मृतम्।
दशलक्षणिको ह्येष धर्मः प्रोक्तः स्वयम्भुवा ।।१७७।।

भिक्षोर्व्रतानि पञ्चात्र पञ्चैवोपव्रतानि च।
आचारशुद्धिर्नियमः शौचञ्च प्रतिकर्म च।
सम्यग्दर्शनमित्येवं पञ्चैवोपव्रतान्यपि ।।१७८।।

ध्यानं समाधिर्मनसेन्द्रियाणां ससागरैर्भैक्षमथोपगम्य।
मौनं पवित्रोपचितैर्विमुक्तिः परिव्रजो धर्ममिमं वदन्ति ।।१७९।।

सर्वे ते श्रेयसे प्रोक्तो आश्रमा ब्रहमणा स्वयम्।
सत्यार्ज्जवन्तपः क्षान्तिर्योगेज्या दमपूर्विका ।।१८०।।

वेदाः साङ्गाश्च यज्ञाश्च व्रतानि नियमाश्च ये।
न सिद्ध्यन्ति प्रदुष्टस्य भावदोष उपागते ।।१८१।।

बहिः कर्माणि सर्वाणि प्रसिद्धयन्ति कदाचन।
अन्तर्भावप्रदुष्टस्य कुर्वतोऽपि पराक्रमान् ।।१८२।।

सर्वस्वमपि योदद्यात् कलुषेणान्तरात्मना।
न तेन धर्मभाक् स स्याद्भाव एवात्र कारणम् ।।१८३।।

एवं देवाः सपितर ऋषयो मनवस्तथा।
तेषां स्थानममुष्मिस्तु संस्थितानां प्रचक्षते ।।१८४।।

अष्टाशीतिसहस्राणि ऋषीणामूर्द्ध्वरेतसाम्।
स्मृतं तु तेषां तत्स्थानं तदेव गुरुवासिनाम् ।।१८५।।

सप्तर्षीणान्तु यत्श्थानं स्मृतन्तद्वै दिवौकसाम्।
प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणः क्षयः।
योगिनाममृतं स्थानं नानाधीनां न विद्यते ।।१८६।।

स्थानान्याश्रमिणां तानि ये स्वधर्मे व्यवस्थिताः।
चत्वार एते पन्थानो देवयाना विनिर्मिताः ।।१८७।।

ब्रह्मणा लोकतन्त्रेण आद्ये मन्वन्तरे भुवि।
पन्थानो देवयानाय तेषां द्वारं रविः स्मृतः ।।१८८।।

तथैव पितृयाणानां चन्द्रमाद्वारमुच्यते।
एवं वर्णाश्रमाणां वै प्रविभागे कृते तदा।
यदास्य न व्यवर्त्तन्त प्रजा वर्णाश्रमात्मिकाः ।।१८९।।

ततोऽन्या मानसीः सोऽथ त्रेतामगध्येऽसृजत् प्रजाः।
आत्मनः स्वशरीराच्च तुल्याश्वैवात्मना तु वै ।।१९०।।

तस्मिस्त्रेतायुगे त्वाद्ये मध्यं प्राप्ते क्रमेण तु।
ततोऽन्या मानसीस्तत्र प्रजाः स्रष्टुं प्रचक्रमे ।।१९१।।

ततः सत्त्वरजोद्रिक्ताः प्रजाः सोऽथासृजत् प्रभुः।
धर्मार्थकाममोक्षाणां वार्त्तायाश्चैव साधिकाः ।।१९२।।

देवाश्च पितरश्चैव ऋषयो मनवस्तथा।
युगानुरूपा धर्मेण यैरिमा विचिताः प्रजाः ।।१९३।।

उपस्थिते तदा तस्मिन् प्रजाधर्मे स्वयम्मुवः।
अभिदध्यौ प्रजाः सर्वा नानारूपास्तु मानसीः ।।१९४।।

पूर्वोक्ता या मया तुभ्यञ्जनलोकं समाश्रिताः।
कल्पेऽतीते तु ते ह्यासन् देवाद्यास्तु प्रजा इह ।।१९५।।

ध्यायतस्तस्य ताः सर्वाः सम्भूत्यर्थमुपस्थिताः।
मन्वन्तरक्रमेणेह कनिष्ठे प्रथमे मताः ।।१९६।।

ख्यात्यानुबन्धैस्तैस्तैस्तु सर्वार्थैरिह भाविताः।
कुशलाकुशलप्रायैः कर्मभिस्तैः सदा प्रजाः।
तत्कर्मफलशेषेण उपष्टब्धाः प्रजज्ञिरे ।।१९७।।

देवासुरपितृत्वैश्च पशुपक्षिसरीसृपैः।
वृक्षनारकिकीटत्वै स्तैस्तैर्भावैरुपस्थिताः।
आधीनांर्थ प्रजानाञ्च आत्मनो वै विनिर्ममे ।।१९८।।

इति श्रीमहापुराणे वायुप्रोक्ते चतुराश्रमविभागो नामाष्टमोऽध्यायः ।। ८ ।।