वायुपुराणम्/पूर्वार्धम्/अध्यायः ५४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५३ वायुपुराणम्
अध्यायः ५४
वेदव्यासः
अध्यायः ५५ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।।ऋषय ऊचुः।।
कस्मिन् देशे महापुण्यमेतदाख्यानमुत्तमम्।
वृत्तं ब्रह्मपुरोगाणां कस्मिन् काले महाद्युते।
एतदाख्याहि नः सम्यग् यथा वृत्तं तपोधन ।। ५४.१ ।।

।।सूत उवाच।।
यथा श्रुतं मया पूर्वं वायुना जगदायुना।
कथ्यमानं द्विजश्रेष्ठाः सत्रे वर्षसहस्रके ।। ५४.२ ।।

नीलता येन कण्ठस्य देवदेवस्य शूलिनः।
तदहं कीर्त्तयिष्यामि श्रृणुध्वं शंसितव्रताः ।। ५४.३ ।।

उत्तरे शैलराजस्य सरांसि सरितो ह्रदाः।
पुण्योद्यानेषु तीर्थेषु देवतायतनेषु च।
गिरिश्रृङ्गेषु तुङ्गेषु गह्वरोपवनेषु च ।। ५४.४ ।।

देवभक्ता महात्मानो मुनयः शंसितव्रताः।
स्तुवन्ति च महादेवं यत्र यथाविधि ।। ५४.५ ।।

ऋग्यजुःसामवेदैश्च नृत्यगीतार्च्चनादिभिः।
ओङ्कारेण नमस्कारैरर्च्चयन्ति सदा शिवम् ।। ५४.६ ।।

प्रवृत्ते ज्योतिषां चक्रे मध्यव्याप्ते दिवाकरे।
देवता नियतात्मानः सर्वे तिष्ठन्ति तां कथाम् ।
अथ नियमप्रवृत्ताश्च प्राणशेषव्यवस्थिताः ।। ५४.७ ।।

नमस्ते नीलकण्ठाय इत्युवाच सदागतिः।
तच्छुत्वा भावितात्मानो मुनयः शंशितव्रताः।
वालखिल्येति विख्याताः पतङ्गसहचारिणः ।। ५४.८ ।।

अष्टाशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम्।
तस्मात् पृच्छन्ति वै वायुं वायुपर्णाम्बुभोजनाः ।। ५४.९ ।।

।।ऋषय ऊचुः।।
नीलकण्ठेति यत् प्रोक्तं त्वया पवनसत्तम।
एतद्दुह्यं पवित्राणां पुण्यं पुण्यकृतां वराः ।। ५४.१० ।।

तद्वयं श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभञ्जन।
नीलता येन कण्ठस्य कारणेनाम्बिकापतेः ।। ५४.११ ।।

श्रोतुमिच्छा महे सम्यक् तव वक्राद्विशेषतः।
यावद्वाचः प्रवर्त्तन्ते सार्थास्ताश्च त्वयेरिताः ।। ५४.१२ ।।

वर्णस्थानगते वायौ वाग्विधिः संप्रवर्तते।
ज्ञानं पूर्वमथोत्साह स्त्वत्तो वायो प्रवर्तते ।। ५४.१३ .
त्वयि निष्पन्दमाने तु शेषा वर्णप्रवृत्तयः।
यत्र वाचो निवर्तन्ते देहबन्धाश्च दुर्लभाः ।। ५४.१४ ।।

तत्रापि तेऽस्ति सद्भावः सर्वगस्त्वं सदानिल।
नान्यः सर्वगतो देवस्त्वदृतेश़स्ति समीरण ।। ५४.१५ ।।

एष वै जीवलोकस्ते प्रत्यक्षः सर्वतोऽनिल।
वेत्थ वाचस्पतिं देवं मनोनायकमीस्वरम् ।। ५४.१६ ।।

ब्रूहि तत्कण्ठदेशस्य किं कृता रूपविक्रिया।
श्रुत्वा वाक्यन्ततस्तेषामृषीणां भावितात्मानाम्।
प्रत्युवाच महातेजा वायुर्लोक नमस्कृतः ।। ५४.१७ ।।

।।वायुरुवाच।।
पुरा कृतयुगे विप्रो वेदनिर्णयतत्परः।
वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतेः ।। ५४.१८ ।।

प्रपच्छ कार्तिकेयं वै मयूरवरवाहनम्।
महिषासुरनारीणां नयनाञ्जनतस्करम् ।। ५४.१९ ।।

महासेनं महात्मानं मेघस्तनितनिःस्वनम्।
उमामनःप्रहर्षेण बालकं छझरूपिणम् ।। ५४.२० ।।

क्रौञ्चजीवितहर्त्तारं पार्वतीहृदि नन्दनम्।
वसिष्ठः पृच्छते भक्त्या कार्तिकेयं महाबलम् ।। ५४.२१ ।।

।।वसिष्ठ उवाच।।
नमस्ते हरनन्दाय उमागर्भ नमो ऽस्तु ते।
नमस्ते अग्निगर्भाय गङ्गागर्भ नमोऽस्तु ते ।। ५४.२२ ।।

नमस्ते शरगर्भाय नमस्ते कृत्तिकासुत।
नमो द्वादशनेत्राय षण्मुखाय नमोऽस्तु ते ।। ५४.२३ ।।

नमस्ते शक्तिहस्ताय दिव्यघण्टापताकिने।
एवं स्तुत्वा महासेनं पप्रच्छ शिखिवाहनम् ।। ५४.२४ ।।

यदेतद्दृश्यते वर्णं शुभं शुभ्राञ्जनप्रभम्।
तत्किमर्थं समुत्पन्नं कण्ठे कुन्देन्दुसंप्रभे ।। ५४.२५ ।।

एतदाप्ताय भक्ताय दान्ताय ब्रूहि पृच्छते।
कथां मङ्गलसंयुक्तां पवित्रां पापनाशिनीम् ।
मत्प्रियार्थं महाभाग वक्तुमर्हस्यशेषतः ।। ५४.२६ ।।

श्रुत्वा वाक्यं ततस्तस्य वसिष्ठस्य महात्मनः।
प्रत्युवाच महातेजाः सुरारिबलसूदनः ।। ५४.२७ ।।

श्रृणुष्व वदतां श्रेष्ठ कथ्यमानं वचो मम।
उमोत्सङ्गनिविष्टेन मया पूर्वं यथाश्रुतम् ।। ५४.२८ ।।

पार्वत्या सह संवादः शर्वस्य च महात्मनः।
तदहङ्कीर्त्तयिष्यामि त्वत्प्रियार्थं महामुने ।। ५४.२९ ।।

कैलासशिखरे रम्ये नानाधातुविचित्रिते।
नानाद्रुमलताकीर्णे चक्रवाकोपशोभिते ।। ५४.३० ।।

षट्‌पदोद्गीतबहुले धारासम्पातनादिते।
मत्तक्रौञ्चमयूराणां नादैरुद्घुष्टकन्दरे ।। ५४.३१ ।।

अप्सरोगणसङ्कीर्णे किन्नरैश्चोपशोभिते ।
जीवञ्जीवकजातीनां वीरुद्भिरुपशोभिते ।। ५४.३२ ।।

कोकिलारावमधुरे सिद्ध चारणसेविते।
सौरभैयीनिनादाढ्ये अधस्तनितनिःस्वने ।। ५४.३३ ।।

विनायकभयोद्विग्ने कुञ्जरैर्युक्तकन्दरे।
वीणावादित्रनिर्घोषैः श्रोत्रेन्द्रियमनोरमैः ।। ५४.३४ ।।

दोलालम्बितसम्पाते वनितासङ्घसेविते।
ध्वजैर्लम्बितदोलानां घण्ठानां निनदाकुले ।। ५४.३५ ।।

मुखमर्दलवादित्रैर्बलिनां स्फोटितैस्तथा।
क्रीडारवविचाराणां निर्घोषैः पूर्णमन्दिरे ।। ५४.३६ ।।

हासैः सन्त्रासजननैर्विकरालमुखैस्तथा।
देहगन्धैर्विचित्रैश्च प्रक्रीडितगणेश्चरैः ।। ५४.३७ ।।

वज्रस्फटिकसोपान चित्रपट्टिशिलातलैः।
व्याध्रसिंहमुखैशचवान्यैर्गजवाजिमुखैस्तथा ।। ५४.३८ ।।

बिडालवदनैश्चोग्रैः क्रोष्टुकाकारमूर्तिभिः ।
ह्रस्वैर्दीर्घैः कृशैः स्थूलैर्लम्बोदर महोदरैः ।। ५४.३९ ।।

ह्रस्वजङ्घैश्च लम्बोष्ठैस्तालजङ्घैस्तथापरैः।
गौकर्णैरेककर्णैश्च महाकर्णैरकर्णकैः ।। ५४.४० ।।

बहुपादैर्महापादैरेकपादैरपादकैः।
बहुशीर्षैर्महाशीर्षैरेकशीर्षैरशीर्षकैः ।। ५४.४१ ।।

बहुनेत्रैर्महानेत्रैरेकनैत्रैरनैत्रकैः ।
एवंविधैर्महायोगिभूतैर्भूतपतिर्वृतः ।। ५४.४२ ।।

विशुद्धमुक्तामणिरत्नभूषिते शिलातले हेममये मनोरमे।
सुखोपविष्टं मदनाङ्गनाशनं प्रोवाच वाक्यं गिरिराजपुत्री ।। ५४.४३ ।।

।।देव्युवाच।।
भगवन् भूतभव्येश गोवृषाङ्कितशासन।
तव कण्ठे महादेव भ्राजतेऽम्बुदशन्निभम् ।। ५४.४४ ।।

नात्युल्बणं नातिशुब्रं नीलाञ्जनचयोपमम्।
किमिदं दीप्यते देव कण्ठे कामाङ्ग नाशन ।। ५४.४५ ।।

को हेतुः कारणं किञ्च कण्ठे नीलत्वमीश्वरः ।
एतत्सर्वं यथान्यायं ब्रूहि कौतूहलं हिमे ।। ५४.४६ ।।

श्रुत्वा वाक्यं ततस्तस्याः पार्वत्याः पार्वतीप्रियः ।
कथां मङ्गलसंयुक्तां कथयामास शङ्करः ।। ५४.४७ ।।

मथ्यमानेऽमृते पूर्वं क्षीरोदे सुरदानवैः।
अग्रे समुत्थितं तस्मिन् विषं कालानलप्रभम् ।। ५४.४८ ।।

तं दृष्ट्वा सुरसङ्घाश्च दैत्याश्चैव वरानने।
विषण्णवदनाः सर्वे गतास्ते ब्रह्मणोऽन्तिकम् ।। ५४.४९ ।।

दृष्ट्वा सुरगणान् भीतान् ब्रह्मो वाच महाद्युतिः।
किमर्थं भो महाभागा भीता उद्विग्नचेतसः ।। ५४.५० ।।

मयाष्टगुणमैश्वर्यं भवतां सम्प्रकल्पितम्।
केन व्यावर्त्तितैश्वर्या यूयं वै सुरसत्तमाः ।। ५४.५१ ।।

त्रैलोक्यस्येश्वरा यूयं सर्वे वै विगतज्वराः।
प्रजासर्गे न सोऽस्तीह आज्ञां यो मे निवर्त्तयेत् ।। ५४.५२ ।।

विमानगामिनः सर्वे सर्वे स्वच्छन्दगामिनः।
अध्यात्मे चाधिभूते च अधिदैवे च नित्यशः।
प्रजाः कर्मविपाकेन शक्ता यूयं प्रवर्त्तितुम् ।। ५४.५३ ।।

तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव।
किं दुःखं केन सन्तापः कुलो वा भयमागतम्।
एतत्सर्वं यथान्यायं शीग्रमाख्यातुमर्हथ ।। ५४.५४ ।।

श्रुत्वा वाक्यं ततस्तस्य ब्रह्मणो वै महात्मनः।
ऊचुस्ते ऋषिभिः सार्ध्धं सुरदैत्येन्द्रदानवाः ।। ५४.५५ ।।

सुरासुरैर्मथ्यमाने पाथोधौ च महात्मभिः।
भुजङ्गभृङ्गसङ्काशं नीलजीमूतसन्निभम्।
प्रादुर्भूतं विषं घोरं संवर्ताग्निसमप्रभम् ।। ५४.५६ ।।

कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम्।
त्रैलोक्योत्सादि सूर्याभं प्रस्फुरन्तं समन्ततः ।। ५४.५७ ।।

विषेणोत्तिष्ठमानेन कालानलसमत्विषा।
निर्दग्धो रक्तगौराङ्गः कृतकृष्णो जनार्दनः ।। ५४.५८ ।।

दृष्ट्वा तं रक्तगौराङ्गं कृतकृष्णं जनार्दनम्।
भीताः सर्वे वयं देवास्त्वामेव शरणं गताः ।। ५४.५९ ।।

सुराणामसुराणाञ्च श्रुत्वा वाक्यं पितामहः।
प्रत्युवाच महातेजा लोकानां हितकाम्यया ।। ५४.६० ।।

श्रृणुध्वं देवताः सर्वे ऋषयश्च तपोधनाः।
यत्तदग्रे समुत्पन्नं मथ्यमाने महोदधौ ।। ५४.६१ ।।

विषं कालानलप्रख्यं कालकूटेति विश्रुतम्।
येन प्रोद्भूतमात्रेण कृतकृष्णो जनार्दनः ।। ५४.६२ ।।

तस्य विष्णुरहञ्चापि सर्वे ते सुरपुङ्गवाः।
न शक्नुवन्ति वै सोढुं वेगमन्ये तु शङ्करात् ।। ५४.६३ ।।

इत्युक्त्वा पझगर्भाभः पझयोनिरयोनिजः ।
ततः स्तोतुं समारब्धो ब्रह्मा लोकपितामहः ।। ५४.६४ ।।

नमस्तुभ्यं विरूपाक्ष नमस्तेऽनेकचक्षुषे।
नमः पिनाकहस्ताय वज्रहस्ताय वै नमः ।। ५४.६५ ।।

नमस्त्रैलोक्यनाथाय भूतानाम्पतये नमः।
नमः सुरारिसंहर्त्रे तापसाय त्रिचक्षुषे ।। ५४.६६ ।।

ब्रहमणे चैव रुद्राय विष्णवे चैव ते नमः।
साङ्ख्याय चैव योगाय भूतग्रामाय वै नमः ।। ५४.६७ ।।

मन्मताङ्गविनाशाय कालकालाय वै नमः।
रुद्राय च सुरेशाय देवदेवाय ते नमः। ५४.६८।
कपर्दिने करालाय शङ्कराय कपालिने।
विरूपायैकरूपाय शिवाय वरदाय च ।। ५४.६९ ।।

त्रिपुरघ्नाय वन्द्याय मातॄणाम्पतये नमः।
बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च ।। ५४.७० ।।

नमः कमलहस्ताय दिग्वासाय शिखण्डिने ।
लोक त्रयवलिधात्रे च चन्द्राय वरुणाय च ।। ५४.७१ ।।

अग्राय चैव चोग्राय विप्रायानेकचक्षुषे।
रजसे चैव सत्त्वाय तमसेऽव्यक्तयोनये ।। ५४.७२ ।।

नित्यायानित्यरूपाय नित्यानित्याय वै नमः।
व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः ।। ५४.७३ ।।

चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः।
भक्तानामार्तिनाशाय नरनारायणाय च ।। ५४.७४ ।।

उमाप्रियाय शर्वाय नन्दिचक्राङ्किताय च।
पक्षमासार्द्धमासाय नमः संवत्सराय च ।। ५४.७५ ।।

बहुरूपाय मुण्डाय दण्डिनेऽथ वरूथिने।
नमः कपालहस्ताय दिग्वासाय शिखणिडने ।। ५४.७६ ।।

ध्वजिने रथिने चैव यमिने ब्रह्मचारिणे।
ऋग्यजुः सामवेदाय पुरुषायेश्वराय च।
इत्येवमादिचरितैस्तुभ्यं देव नमोऽस्तु ते ।। ५४.७७ ।।

।।श्रीमहादेव उवाच।।
एवं स्तुतस्ततो देवैः प्रणिपत्य वरानने ।। ५४.७८ ।।

ज्ञात्वा तु भक्तिं मम देवदेवो गङ्गाजलाप्लावितकेशदेशः।
सूक्ष्मोऽतियोगातिशयादचिन्त्यो न हि प्लुतो व्यक्तमुपैति चन्द्रः ।। ५४.७९ ।।

एवं भगवता पूर्वं ब्रह्मणा लोककर्तृणा।
स्तुतोऽहं विविधैः स्तोत्रै र्वेदवेदाङ्गसम्भवैः ।। ५४.८० ।।

ततः प्रीतो ह्यहं तस्मै ब्रह्मणे सुमहात्मने।
ततोऽहं सूक्ष्मया वाचा पितामहमथाब्रुवम् ।। ५४.८१ ।।

भगवन् भूतभव्येश लोकनाथ जगत्पते।
किं कार्ये ते मया ब्रह्मन् कर्त्तव्यं वद सुव्रत ।। ५४.८२ ।।

श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचाम्बुजेक्षणः ।
भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर ।। ५४.८३ ।।

सुरासुरैर्मथ्यमाने पयोधावम्बुजेक्षण।
भगवन्मेघ सङ्काशं नीलजीमूतसन्निभम् ।। ५४.८४ ।।

प्रादुर्भूतं विषङ्घोरं संवर्त्ताग्निसमप्रभम्।
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्च्चसम् ।। ५४.८५ ।।

त्रैलोक्योत्सादि सूर्याभं विस्फुरन्तं समन्ततः।
अग्रे समुत्थितं तस्मिन् विषङ्कालानलप्रभम् ।। ५४.८६ ।।

तं दृष्ट्वा तुं वयं सर्वे भीताः सम्भ्रान्तचेतसः।
तत् पिबस्व महादेव लोकानां हितकाम्यया ।
भवानग्र्यस्य भोक्ता वै भवांश्वैव वरः प्रभुः ।। ५४.८७ ।।

त्वामृतेऽन्यो महादेव विषं सोढुं न विद्यते ।
नास्ति कश्चित् पुमान् शक्तस्त्रैलोक्येषु च गीयते ।। ५४.८८ ।।

एवं तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः।
बाढमित्येव तद्वाक्यं प्रतिगृह्य वरानने ।। ५४.८९ ।।

ततोऽहं पातुमारब्धो विषमन्तकसन्निभम्।
पिबतो मे महाघोरं विषं सुरभयङ्करम्।
कण्ठः समभवत्तूर्णं कृष्णो मे वरवर्णिनि ।। ५४.९० ।।

तंदृष्ट्वो त्पलपत्राभं कण्ठे सक्तमिवोरगम् ।
तक्षकं नागराजानं लेलिहानमिव स्थितम् ।। ५४.९१ ।।

अथोवाच महातेजा ब्रह्मा लोकपितामहः।
शोभसे त्वं महादेव कण्ठेनानेन सुव्रत ।। ५४.९२ ।।

ततस्तस्य वचः श्रुत्वा मया गिरिवरात्मजे।
पश्यतां देवसङ्गानां दैत्यानाञ्च वरानने ।। ५४.९३ ।।

यक्षगन्धर्वभूतानां पिशाचोरगरक्षसाम्।
धृतं कण्ठे विषं घोरं नीलकण्टस्ततो ह्यहम् ।। ५४.९४ ।।

तत् कालकूटं विषमुग्रतेजः कण्ठे मया पर्वतराजपुत्रि।
निवेश्यमानं सुरदैत्यसङ्घो दृष्ट्वा परं विस्मयमाजगाम ।। ५४.९५ ।।

ततः सुरगणाः सर्वे सदैत्योरगराक्षसाः।
ऊचुः प्राञ्चलयो भूत्वा मत्तमातङ्गगामिनि ।। ५४.९६ ।।

अहो बलं वीर्यपराक्रमस्ते अहो पुनर्योगबलं तवैव।
अहो प्रभुत्वं तव देवदेव गङ्गाजलास्फालितमुक्तकेश ।। ५४.९७ ।।

त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्यु र्वरदस्त्वमेव।
त्वमेव सूर्यो रजनीकरश्च त्वमेव भूमिः सलिलं त्वमेव ।। ५४.९८ ।।

त्वमेव यज्ञो नियमस्त्वमेव त्वमेव भूतं भविता त्वमेव।
त्वमेव चादि र्निधनं त्वमेव स्थूलश्च सूक्ष्मः पुरुषस्त्वमेव ।। ५४.९९ ।।

त्वमेव सूक्ष्मस्य परस्य सूक्ष्मस्त्वमेव वह्निः पवनस्त्वमेव।
त्वमेव सर्वस्य चराचरस्य लोकस्य कर्त्ता प्रलये च गोप्ता ।। ५४.१०० ।।

इतीदमुक्त्वा वचनं सुरेन्द्राः प्रगृह्य सोमं प्रणिपत्य मूर्द्ना।
गता विमानैरनिगृह्य वेगैर्महात्मनो मेरुमुपेत्य सर्वे ।। ५४.१०१ ।।

इत्येतत्परमं गुह्यं पुण्यात्पुण्यमहत्तरम्।
नीलकण्ठेति यत् प्रोक्तं विख्यातं लोकविश्रुतम् ।। ५४.१०२ ।।

स्वयं स्वयम्भुवा प्रोक्तां पुण्यां पापप्रणाशनीम्।
यस्तु धारयते नित्यमेनां ब्रह्मोद्भवां कथाम्।
तस्याहं संप्रवक्ष्यामि फलं वै विपुलं महत् ।। ५४.१०३ ।।

विषं तस्य वरारोहे स्थावरं जङ्गमन्तथा।
गात्रं प्राप्य च सुश्रोणि क्षिप्रं तत् प्रतिहन्यते ।। ५४.१०४ ।।

शमयत्यशुभं घोरं दुःस्वप्नञ्चापकर्षति।
स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ।। ५४.१०५ ।।

विवादे जयमाप्नोति युद्धे शूरत्वमेव च।
गच्छतः क्षेममध्वानं गृहे च नित्यसम्पदः ।। ५४.१०६ ।।

शरीरभेदे वक्ष्यामि गतिं तस्य वरानने।
नीलकण्ठो हरिच्छमश्रुः शशाङ्काङ्कितमूर्द्धजः ।। ५४.१०७ ।।

त्र्यक्षस्त्रिशूलपाणिश्च वृषयानः पिनाकधृक्।
नन्धितुल्यबलः श्रीमान् नन्दितुल्यपराक्रमः ।। ५४.१०८ ।।

विचरत्यचिरात् सर्वान् सर्वलोकान्ममाज्ञया ।
न हन्यते गतिस्तस्य अनिलस्य यथाम्बरे।
मम तुल्यबलो भूत्वा तिष्ठत्याभूतसम्प्लवम् ।। ५४.१०९ ।।

मम भक्ता वरारोहे ये च श्रृण्वन्ति मानवाः।
तेषां गतिं प्रवक्ष्यामि इह लोके परत्र च ।। ५४.११० ।।

ब्राह्मणो वेदमाप्नोति क्षत्रियो जयते महीम्।
वैश्यस्तु लभते लाभं शूद्रः सुखमवाप्नुयात् ।। ५४.१११ ।।

व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्।
गुर्विणी लभते पुत्रं कन्या विन्दति सत्पतिम्।
नष्टञ्च लभते सर्वमिहलोके परत्र च ।। ५४.११२ ।।

गवां शतसहस्रस्य सम्यग्दत्तस्य यत् फलम्।
तत् फलं भवति श्रुत्वा विभोर्दिव्यामिमां कथाम् ।। ५४.११३ ।।

पादं वा यदि वाप्यर्द्धं श्लोकं श्लोकार्द्धमेव वा।
यस्तु धारयते नित्यं रुद्रलोकं स गच्छति ।। ५४.११४ ।।

कथामिमां पुण्यफलादियुक्तां निवेद्य देव्याः शशिबद्ध मूर्द्धजः।
वृषस्य पृष्ठेन सहोमया प्रभुर्जगाम किष्किन्धगुहां गुहप्रियः ।। ५४.११५ ।।

क्रान्तं मया पापहरं महापदं निवेद्य तेभ्यः प्रददौ प्रभञ्जनः।
अधीत्य सर्वं त्वखिलं सुलक्षणं जगाम आदित्यपथं द्विजोत्तमः ।। ५४.११६ ।।

इति श्रीमहापुराणे वायु प्रोक्ते नीलकण्ठस्तवो नाम चतुः पञ्चाशोऽध्यायः ।। ५४ ।।