वायुपुराणम्/पूर्वार्धम्/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० वायुपुराणम्
अध्यायः ११
वेदव्यासः
अध्यायः १२ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।। वायुरुवाच ।।
एकं महान्तं दिवसमहोरात्रमथापि वा।
अर्द्धमासं तथा मासमयनाब्दयुगानि च ।। ११.१ ।।
महायुगसहस्राणि ऋषयस्तपसि स्थिताः।
उपासते महात्मानः प्राणं दिव्येन चक्षुषा ।। ११.२ ।।
अतऊर्द्ध्वं प्रवक्ष्यामि प्राणायामप्रयोजनम्।
फलञ्चैव विशेषेण यथाह भगवान् प्रभुः ।। ११.३ ।।
प्रयोजनानि चत्वारि प्राणायामस्य विद्धिवै।
शान्तिः प्रशान्तिर्दीप्तिश्च प्रसादश्च चतुष्टयम् ।। ११.४ ।।
घोराकारशिवानान्तु कर्मणां फलसम्भवम्।
स्वयंकृतानि कालेन इहामुत्र च देहिनाम् ।। ११.५ ।।
पितृमातृ प्रदुष्टानां ज्ञातिसम्बन्धिसङ्करैः।
क्षपणं हि कषायाणां पापानां शान्तिरुच्यते ।। ११.६ ।।
लोभमानात्मकानां हि पापानामपि संयमः ।
इहामुत्र हितार्थाय प्रशान्तिस्तप उच्यते ।। ११.७ ।।
सूर्येन्दुग्रहताराणां तुल्यस्तु विषयो भवेत्।
ऋषीणाञ्च प्रसिद्धानां ज्ञानविज्ञानसम्पदाम् ।। ११.८ ।।
अतीतानागतानाञ्च दर्शनं साम्प्रतस्य च ।
बुद्धस्य समतां यान्ति दीप्तिः स्यात्तप उच्यते ।। ११.९ ।।
इन्द्रियाणीन्द्रियार्थांश्च मनः पञ्च च मारुतान् ।
प्रसादयति येनासौ प्रसाद इति संज्ञितः ।। ११.१० ।।
इत्येष धर्मः प्रथमः प्राणायामश्चतुर्विधः।
सन्निकृष्टफलो ज्ञेयः सद्यःकालप्रसादजः ।। ११.११ ।।
अत ऊर्द्ध्वं प्रवक्ष्यामि प्राणायामस्य लक्षणम्।
आसनं च यथातत्त्वं युञ्जतो योगमेव च ।। ११.१२ ।।
ओङ्कारं प्रथमं कृत्वा चन्द्रसूयौं प्रणम्य च।
आसनं स्वस्तिकं कृत्वा पझमर्द्धासनन्तथा ।। ११.१३ ।।
समजानुरेकजानुरुत्तानः सुस्थितोऽपि च।
समो दृढासनो भूत्वा संहृत्य चरणावुभौ ।। ११.१४ ।।
संवृतास्योऽवबद्धाक्ष उरो विष्टभ्य चाग्रतः।
पार्ष्णिभ्यां वृषणे छाद्य तथा प्रजननं ततः ।। ११.१५ ।।
किञ्चिदुन्नामितशिराः शिरो ग्रीवां तथैव च।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ।। ११.१६ ।।
तमः प्रच्छाद्य रजसा रजः सत्त्वेन च्छादयेत् ।
ततः सत्त्वस्थितो भूत्वा योगं युञ्जन् समाहितः ।। ११.१७ ।।
इन्द्रियाणीन्द्रियार्थांश्च मनः पञ्च स मारुतान्।
विगृह्य समवायेव प्रत्याहारमुपक्रमेत् ।। ११.१८ ।।
यस्तु प्रत्याहरेत् कामान् कूर्मोऽङ्गानीव सर्वतः।
तथात्मरतिरेकस्थः पश्यत्यात्मानमात्मनि ।। ११.१९ ।।
पूरयित्वा शरीरन्तु स बाह्याभ्यन्तरं शुचिः।
आकण्ठनाभियोगेन प्रत्याहारमुपक्रमेत् ।। ११.२० ।।
कलामात्रस्तु विज्ञेयो निमेषोन्मेष एव च।
तथा द्वादशमात्रस्तु प्राणायामो विधीयते ।। ११.२१ ।।
धारणा द्वादशायामो योगो वै धारणाद्वयम्।
तथा वै योगयुक्तश्च ऐश्वर्यं प्रतिपद्यते ।
वीक्षते परमात्मानं दीप्यमानं स्वतेजसा ।। ११.२२ ।।
प्राणायामेन युक्तस्य विप्रस्य नियतात्मनः।
सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश्चैव जायते ।। ११.२३ ।।
एवं वै नियताहारः प्राणायामपरायणः।
जित्वा जित्वा सदा भूमिमारोहेत्तु सदा मुनिः ।। ११.२४ ।।
अजिता हि महाभूमिर्दोषानुत्पादयेद्बहून् ।
विवर्द्धयति सम्मोहं न रोहेदजितां ततः ।। ११.२५ ।।
नालेन तु यथा तोयं यन्त्रेणैव बलान्वितः।
आपिबेत प्रयत्नेन तथा वायुञ्जितश्रमः ।। ११.२६ ।।
नाभ्यां च हृदये चैव कण्ठे उरसि चानने।
नासाग्रे तु तथा नेत्रे भ्रुवोर्मध्येऽथ मूर्द्धनि ।। ११.२७ ।।
किञ्चिदूर्द्ध्वं परस्मिंश्च धारणा परमा स्मृता।
प्राणापानसमारोधात् प्राणायामः स कथ्यते ।। ११.२८ ।।
मनसो धारणा चैव धारणेति प्रकीर्तिता।
निवृत्ति र्विषयाणान्तु प्रत्याहारस्तु संज्ञितः ।। ११.२९ ।।
सर्वेषां समवाये तु सिद्धिः स्याद्योगलक्षणा।
तयोत्पन्नस्य योगस्य ध्यानं वै सिद्धिलक्षणम्।
ध्यानयुक्तः सदा पश्येदात्मानं सूर्यचन्द्रवत् ।। ११.३० ।।
सत्त्वस्यानुपपत्तौ तु दर्शनन्तु नव विद्यते।
अदेशकालयोगस्य दर्शनन्तु न विद्यते ।। ११.३१ ।।
अग्न्यभ्याशे वने वापि शुष्कपर्णचये तथा।
जन्तुव्याप्ते श्मशाने वा जीर्णगोष्ठे चतुष्पथे ।। ११.३२ ।।
सशब्दे सभये वापि चैत्यवल्मीकसंचये।
उदपाने तथा नद्यान्न बाधातः कदाचन ।। ११.३३ ।।
क्षुधाविष्स्तथाऽप्रितो न च व्याकुलचेतनः।
युञ्जीत परमं ध्यानं योगी ध्यानपरः सदा ।। ११.३४ ।।
एतान् दोषान् विनिश्चित्य प्रमादाद्यो युनक्ति वै।
तस्य दोषाः प्रकुप्यन्ति शरीरे विघ्नकारकाः ।। ११.३५ ।।
जडत्वं बधिरत्वं च मूकत्वं चाधिगच्छति।
अन्धत्वं स्मृतिलोपश्च जरा रोगस्तथैव च ।। ११.३६ ।।
तस्य दोषाः प्रकुप्यन्ति अज्ञानाद्यो युनक्ति वै।
तस्माज्ज्ञानेन शुद्धेन योगी युञ्जेत्समाहितः ।। ११.३७ ।।
अप्रमत्तः सदा चैव न दोषान् प्राप्रुयात् व्कचित् ।
तेषां चिकित्सां वक्ष्यामि दोषाणां च यथाक्रमम्।
यथा गच्छन्ति ते दोषाः प्राणायामसमुत्थिताः ।। ११.३८ ।।
स्निग्धां यवागूमत्युष्णां भुक्त्वां तत्रावधारयेत् ।
एतेन क्रमयोगेन वातगुल्मं प्रशाम्यति ।। ११.३९ ।।
गुदावर्त्तप्रतीकारमिदं कुर्य्याच्चिकित्सितम्।
भुक्त्वा दधि यवागूर्वा वायुरूर्द्ध्वं ततो व्रजेत ।। ११.४० ।।
वायुग्रंथिं ततो भित्त्वा वायुदेशे प्रयोजयेत् ।
तथापि न विशेषः स्याद्धारणां मूर्ध्नि धारयेत् ।। ११.४१ ।।
युञ्जानस्य तनुं तस्य सत्तवस्थस्यैव देहिनः।
गुदावर्त्तप्रतीघाते एतत् कुर्य्याच्चिकित्सितम् ।। ११.४२ ।।
सर्वगात्रप्रकम्पेन समारब्धस्य योगिनः ।
इमां चिकित्सां कुर्व्वीत तया संपद्यते सुखी ।। ११.४३ ।।
मनसा यद्व्रतं किञ्चिद्विष्टम्भीकृत्य धारयेत्।
उरोद्धाते उरःस्थानं कण्ठदेशे च धारयेत् ।। ११.४४ ।।
त्वचोऽवधाते तां वाचि बाधिर्ये श्रोत्रयोस्तथा।
जिह्वास्थाने तृषार्त्तस्तु अग्रे स्नेहांश्च तन्तुभिः।
फलं वै चिन्तयेद्योगी ततः संपद्यते सुखी ।। ११.४५ ।।
क्षये कुष्ठे सकीलासे धारयेत्सर्वसात्विकीम्।
यस्मिन् यस्मिन् रजोदेशे तस्मिन् युक्तो विनिर्द्दिशेत् ।। ११.४६ ।।
योगोत्पन्नस्य विप्रस्य इदं कुर्याच्चिकित्सितम्।
वंशकीलेन मूर्द्धानं धारयाणस्य ताडयेत्।
मूर्ध्नि कीलं प्रतिष्ठाप्य काष्ठं काष्ठेन ताडयेत् ।। ११.४७ ।।
भयभीतस्य सा संज्ञा ततः प्रत्यागमिष्यति।
अथ वा लुप्तसंज्ञस्य हस्ताभ्यां तत्र धारयेत् ।। ११.४८ ।।
प्रतिलभ्य ततः संज्ञां धारणां मूर्ध्नि धारयेत्।
स्रिग्धमल्पं च भुञ्जीत ततः संपद्यते सुखी ।। ११.४९ ।।
अमानुषेण सत्त्वेन यदा बुध्यति योगवित् ।
दिवं च पृथिवीञ्चैव वायुमग्निं च धारयेत् ।। ११.५० ।।
प्राणायामेन तत्सर्वं दह्यमानं वशीभवेत्।
अथापि प्रविशेद्देहं ततस्तं प्रतिषेधयेत् ।। ११.५१ ।।
ततः संस्तभ्य योगेन धारयानस्य मूर्द्धानि।
प्राणायामाग्निना दग्धं तत्सर्वं विलयं व्रजेत् ।। ११.५२ ।।
कृष्णसर्पापराधं तु धारयेद्धृदयोदरे ।
महर्जनस्तपः सत्यं हृदि कृत्वा तु धारयेत् ।। ११.५३ ।।
विषस्य तु फलं पीत्वा विशल्यां धारयेत्ततः ।
सर्वतः सनगां पृथ्वीं कृत्वा मनसि धारयेत् ।। ११.५४ ।।
हृदि कृत्वा समुद्रांश्च तथा सर्वाश्च देवताः ।
सहस्रेण घटानाञ्च युक्तः स्नायीत योगवित् ।। ११.५५ ।।
उदके कण्ठमात्रे तु धारणां मूध्नि धारयेत्।
प्रतिस्रोतोविषाविष्टो धारयेत् सर्वगात्रिकीम् ।। ११.५६ ।।
शीर्णोऽर्कपत्रपुटकैः पिबेद्वल्मीकमृत्तिकाम् ।
चिकित्सितविधिर्ह्येष विश्रुतो योगनिर्मितः ।। ११.५७ ।।
व्याख्यातस्तु समासेन योगदृष्टेन हेतुना।
ब्रुवतो लक्षणं विद्धि विप्रस्य कथयेत् व्कचित् ।। ११.५८ ।।
अथापि कथयेन्मोहात्तद्विज्ञानं प्रलीयते।
तस्मात् प्रवृत्तिर्य्योगस्य न वक्तव्या कथञ्चन ।। ११.५९ ।।
सत्त्वं तथारोग्यमलोलुपत्वं वर्णप्रभा सुस्वरसौम्यता च।
गन्धः शुभो मूत्रपुरीष मल्पं योगप्रवृत्तिः प्रथमा शरीरे ।। ११.६० ।।
आत्मानं पृथिवीञ्चैव ज्वलन्तीं यदि पश्यति।
कृत्वान्यं विशते चैव विद्यात् सिद्धिमुपस्थिताम् । ११.६१ ।।
इति श्रीमहापुराणे वायुप्रोक्ते पाशुपतयोगो नामैकादशोऽध्यायः ।। ११ ।।