वायुपुराणम्/पूर्वार्धम्/अध्यायः ५८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५७ वायुपुराणम्
अध्यायः ५८
वेदव्यासः
अध्यायः ५९ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।।सूत उवाच ।।
अत ऊर्द्ध्वं प्रवक्ष्यामि द्वापरस्य विधिं पुनः।
तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ।। ५८.१ ।।

द्वापरादौ प्रजानान्तु सिद्धिस्त्रतायुगे तु या।
परिवृत्ते युगे तस्मिंस्ततः सा संप्रणश्यति ।। ५८.२ ।।

ततः प्रवर्त्तते तासां प्रजानां द्वापरे पुनः।
लोभोऽधृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः ।। ५८.३ ।।

तम्भेदश्चैव वर्णानां कार्याणाञ्चा विनिर्णयः।
यज्ञौषधेः पशोर्दण्डो मदो दम्भोऽक्षमा बलम्।
एषां रजस्तमोयुक्ता प्रवृत्तिर्द्वापरे स्मृता ।। ५८.४ ।।

आद्ये कृते च धर्मोऽस्ति त्रेतायां सम्प्रपद्यते।
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ।। ५८.५ ।।

वर्णानां विपरिध्वंसः संकीर्त्त्यते तथाश्रमः।
द्वैधमुत्पद्यते चैव युगे तस्मिन् श्रुतौ स्मृतौ ।। ५८.६ ।।

द्वैधात् श्रुतेः स्मृतेश्चैव निश्चयो नाधिगम्यते।
अनिश्चयादिगमनाद्धर्मतत्त्वं निगद्यते।
धर्मतत्त्वे तु भिन्नानां मतिभेदो भवेन्नृणाम् ।। ५८.७ ।।

परस्परविभिन्नैस्तैर्दृष्टीनां विभ्रमेण च।
अयं धर्मो ह्ययं नेति निश्चयो नाभिगम्यते ।। ५८.८ ।।

कारणानाञ्च वकैल्यात् कारणस्याप्यनिश्चयात्।
मतिभेदे च तेषां वै दृष्टीनां विभ्रमो भवेत् ।। ५८.९ ।।

ततो दृष्टिविभिन्नैस्तैः कृतं शास्त्रकुलन्त्विदम्।
एको वेदश्वतुष्पादस्त्रेतास्विह विधीयते ।। ५८.१० ।।

संरोधादायुषश्चैव दृश्यते द्वापरेषु च ।
वेदव्यासैश्चतुर्धा तु व्यस्यते द्वापरादिषु ।। ५८.११ ।।

ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः।
मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः ।। ५८.१२ ।।

संहिता ऋग्यजुःसाम्नां संहन्यन्ते श्रुतर्षिभिः।
सामान्याद्वैकृताच्चैव दृष्टिभिन्नैः व्कचित्व्कचित् ।। ५८.१३ ।।

ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च।
अन्ये तु प्रहितास्तीर्थैः केचित्तान् प्रत्यवस्थिताः ।। ५८.१४ ।।

द्वापरेषु प्रवर्त्तन्ते भिन्नवृत्ताश्रमा द्विजाः।
एकमाध्वर्यवं पूर्वमासीद्द्वैधं पुनस्ततः ।। ५८.१५ ।।

सामान्यविपरीतार्थैः कृतं शास्त्रकुलन्त्विदम्।
आध्वर्यवस्य प्रस्तावैर्बहुधा व्याकुलं कृतम् ।। ५८.१६ ।।

तथैवाथर्वऋक्साम्नां विकल्पैश्चाप्यसंक्षयैः।
व्याकुलं द्वापरे भिन्ने क्रियते भिन्नदर्शनैः ।। ५८.१७ ।।

तैषां भेदाः प्रभेदाश्च विकल्पैश्चाप्यसंक्षयाः ।
द्वापरे सम्प्रवर्तन्ते विनश्यन्ति पुनः कलौ ।। ५८.१८ ।।

तेषां विपर्ययाश्चैव भवन्ति द्वापरे पुनः।
अवृष्टिर्मरणञ्चैव तथैव व्याध्युपद्ववाः ।। ५८.१९ ।।

वाङ्मनःकर्मजैर्दुःखैर्निर्वेदो जायते पुनः ।
निर्वेदाज्जायते तेषां दुःखमोक्ष विचारणा ।। ५८.२० ।।

विचाराणाच्च वैराग्यं वैराग्याद्दोपदर्शनम्।
दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसम्भवः ।। ५८.२१ ।।

तेषाञ्च मानिनां पूर्वमाद्ये स्वायम्भुवेऽन्तरे।
उत्पद्यन्ते हि शास्त्राणां द्वापरे परिपन्थिनः ।। ५८.२२ ।।

आयुर्वेदविकल्पाश्च अङ्गानां ज्यौतिषस्य च।
अर्थशास्त्रविकल्पश्च हेतुशास्त्रविकल्पनम् ।। ५८.२३ ।।

स्मृतिशास्त्रप्रभेदाश्च प्रस्थानानि पृथक् पृथक्।
द्वापरेष्वभिवर्त्तन्ते मतिभेदास्तथा नृणाम् ।। ५८.२४ ।।

मनसा कर्मणा वाचा कृच्छ्रा द्वार्त्ता प्रसिद्ध्यति।
द्वापरे सर्वभूतानां कायक्लेशपुरस्कृता ।। ५८.२५ ।।

लोभेऽधृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः।
वेदशास्त्रप्रणयनं धर्माणां सङ्करस्तथा ।। ५८.२६ ।।

द्वापरेषु प्रवर्त्तन्ते रोगो लोभो वधस्तथा।
वर्णाश्रमपरिध्वंसाः कामद्वेषौ तथैव च ।। ५८.२७ ।।

पूर्णे वर्षसहस्रे द्वे परमायुस्तुथा नृणाम्।
निःशेपे द्वापरे तस्मिन् तस्य सन्ध्या तु पादतः ।। ५८.२८ ।।

प्रतिष्ठते गुणैर्हीनो धर्मोऽसौ द्वापरस्य तु ।
तथैव सन्ध्यापादेन अंशस्तस्यावतिष्ठते ।। ५८.२९ ।।

द्वापरस्य च वर्षे या तिष्यस्य तु निबोधत।
द्वापरस्यांशशेषे तु प्रतिपत्तिः कलेरतः ।। ५८.३० ।।

हिंसासूयानृतं माया वधश्चैव तपस्विनाम्।
एते स्वभावास्तिष्यस्य साधयन्ति च वै प्रजाः ।। ५८.३१ ।।

एष धर्मः कृतः कृत्स्नो धर्मश्च परिहीयते।
मनसा कर्मणा स्तुत्या वार्त्ता सिद्ध्यति वा न वा ।। ५८.३२ ।।

कलौ प्रमारको रोगः सततं क्षुद्भयानि वै।
अनावृष्टिभयं घोरं दर्शनञ्च विपर्ययम् ।। ५८.३३ ।।

न प्रमाणं स्मृतेरस्ति तिष्ये लोके युगे युगे।
गर्भस्थो म्रियते कश्चिद्यौवनस्थस्तथापरः ।
स्थाविरे मध्यकौमारे म्रियन्ते वै कलौ प्रजाः ।। ५८.३४ ।।

अधार्मिकास्त्वनाचारास्तीक्ष्ण कोपाल्पतेजसः।
अनृतब्रुवश्च सततं तिष्ये जायन्ति वै प्रजाः ।। ५८.३५ ।।

दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः।
विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम् ।। ५८.३६ ।।

हिंसा माया तथेर्ष्या च क्रोधोऽसूयाक्षमानृतम्।
तिष्ये भवन्ति जन्तूनां रागो लोभश्च सर्वशः ।। ५८.३७ ।।

संक्षोभो जायतेऽत्यर्थं कलिमासाद्य वै युगम्।
नाधीयन्ते तदा वेदा न यजन्ते द्विजातयः।
उत्सीदन्ति नराश्चैव क्षत्रियाः सविशः क्रमात् ।। ५८.३८ ।।

क्षुद्राणामन्त्ययोनेस्तु सम्बन्धा ब्राह्मणैः सह।
भवन्तीह कलौ तस्मिन् शयनासनभोजनैः ।। ५८.३९ ।।

राजानः शूद्रभूयिष्ठा पाषण्डानां प्रवर्तकाः।
भ्रूणहत्याः प्रजास्तत्र प्रजा एवं प्रवर्त्तते ।। ५८.४० ।।

आयुर्मेधा बलं रूपं कुलञ्चैव प्रहीयते।
शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः ।। ५८.४१ ।।

राजवृत्ते स्थिताश्चौराश्चौरवृत्ताश्च पार्थिवाः।
भृत्याश्च नष्टसुहृदो युगान्ते पर्युपस्थिते ।। ५८.४२ ।।

अशीलिन्योऽव्रताश्चापि स्त्रियो मद्यामिषप्रियाः।
मायामात्रा भविष्यन्ति युगान्ते प्रत्युपस्थिते ।। ५८.४३ ।।

श्वापदप्रबलत्वञ्च गवाञ्चैवाप्युपक्षयः।
साधूनां विनिवृत्तिश्च विद्यात्तस्मिन् कलौ युगे ।। ५८.४४ ।।

तदा सूक्ष्मे महोदर्को दुर्लभो भोगिनां तथा।
चतुराश्रमशैथिल्याद्धर्मः प्रविचलिष्यति ।। ५८.४५ ।।

तदा ह्यल्पफला देवी भवेद्भूमिर्महीयसी।
शूद्रास्तपश्चरिष्यन्ति युगान्ते प्रत्युपश्थिते ।। ५८.४६ ।।

तदा ह्यैकाहिको धर्मो द्वापरे यश्च मासिकः।
त्रेतायां वत्सरस्थश्च एकाहादतिरिच्यते ।। ५८.४७ ।।

अरक्षितारो हर्त्तारो बलिभागस्य पार्थिवाः।
युगान्तेषु भविष्यन्ति स्वरक्षणपरायणाः ।। ५८.४८ ।।

अक्षत्रियाश्च राजानो विशः शूद्रोपजीविनः।
शूद्राभिवादिनः सर्वे युगान्ते द्विजसत्तमाः ।। ५८.४९ ।।

पतयश्च भविष्यन्ति बहवोऽस्मिन् कलौ युगे।
चित्रवर्षी तदा देवो यदा स्यात्तु युगक्षयः ।। ५८.५० ।।

सर्वे वाणिजकाश्चापि भविष्यन्त्यधमे युगे।
भूयिष्ठं कूटमानैश्च पण्यविक्रीततेजनैः ।। ५८.५१ ।।

कुशीलचर्या पाषण्डैर्वृथारूपैः समावृतम्।
पुरुषाल्पं बहुस्त्रीकं युगान्ते पर्युपस्थिते ।। ५८.५२ ।।

बहुयाचनको लोको भविष्यति परस्परम्।
क्रव्यादनः क्रूरवाक्यो नार्जवो नानसूयकः ।। ५८.५३ ।।

न कृते प्रतिकर्ता च क्षीणो लोको भविष्यति।
अशङ्का चैव पतिते तद्युगान्तस्य लक्षणम् ।। ५८.५४ ।।

नरशून्या वसुमती शून्या चैव भविष्यति।
मण्डलानि भवन्त्यत्र देशेषु नगरेषु च ।। ५८.५५ ।।

अल्पोदका चाल्पफला भविष्यति वसुन्धरा।
गोप्तारश्चाप्यगोप्तारः प्रभविष्यन्त्यशासनाः ।। ५८.५६ ।।

हर्त्तारः पररत्नानां परदारप्रधर्षकाः।
कामात्मानो दुरात्मानो ह्यधर्मात् साहसप्रियाः ।। ५८.५७ ।।

अनष्टचेतनाः पुंसो मुक्तकेशास्तु चूलिकाः।
ऊनषोडशवर्षाश्च प्रजायन्ते युगक्षये ।। ५८.५८ ।।

शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः।
शूद्रा धर्मञ्चरिष्यन्ति युगान्ते पर्युपस्थिते ।। ५८.५९ ।।

सस्यचौरा भविष्यंति तथा चैलाभिमर्शनाः।
चौराश्चौरस्य हर्त्तारो हन्तुर्हर्त्तार एव व ।। ५८.६० ।।

ज्ञानकर्मण्युपरते लोके निष्क्रियताङ्गते ।
कीटमूषिकसर्पाश्च धर्षयिष्यन्ति मानवान् ।। ५८.६१ ।।

सुभिक्षं क्षेममारोग्यं सामर्थ्यं दुर्लभं भवेत्।
कौशिकाः प्रतिवत्स्यन्ति देशान् क्षुद्भयपीडितान् ।। ५८.६२ ।।

दुःखेनाभिप्लुतानाञ्च परमायुः शतं भवेत्।
दृश्यन्ते न च दृश्यन्ते वेदाः कलियुगेऽखिलाः ।। ५८.६३ ।।

उत्सीदन्ति तथा यज्ञाः केवला धर्मपीडिताः।
कषायिणश्च निर्ग्रन्थास्तथा कापालिनश्च ह ।। ५८.६४ ।।

वेदविक्रयिणश्चान्ये तीर्थविक्रयिणोऽपरे ।
वर्णाश्रमाणां ये चान्ये पाषण्डाः परिपन्थिनः ।। ५८.६५ ।।

उत्पद्यन्ते तथा ते वै संप्राप्ते तु कलौ युगे।
नाधीयन्ते तदा वेदाः शूद्रा धर्मार्थकोविदाः ।। ५८.६६ ।।

यजन्ते नाश्वमेधेन राजानः शूद्रयोनयः।
स्त्रीवधं गोवधं कृत्वा हत्वा चैव परस्परम्।
उपहन्युस्तदान्योन्यं साधयन्ति तथा प्रजाः ।। ५८.६७ ।।

दुःखप्रचारतोऽल्पायुर्देशोत्सादः सरोगता।
मोहो ग्लानिस्तथासौख्यं तमोवृत्तं कलौ स्मृतम् ।। ५८.६८ ।।

प्रजा तु भ्रूणहत्यायामथ वै सम्प्रवर्त्तते।
तस्मादायुर्बलं रूपं कलिं प्राप्य प्रहीयते।
दुःखेनाभिप्लुतानां वै परमायुः शतं नृणाम् ।। ५८.६९ ।।

दृश्यन्ते नाभिदृश्यन्ते वेदाः कलियुगेऽखिलाः।
उत्सीदन्ते तदा यज्ञाः कोवला धर्मपीडिताः ।। ५८.७० ।।

तदा त्वल्पेन कालेन सिद्धिं यास्यन्ति मानवाः।
धन्या धर्मञ्चरिष्यन्ति युगान्ते द्विजसत्तमाः ।। ५८.७१ ।।

श्रुतिस्मृत्युदितं धर्मं ये चरन्त्यनसूयकाः.
त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः।
यथाशक्तिं चरन् प्राज्ञस्तदह्ना प्राप्रुयात् कलौ ।। ५८.७२ ।।

एषा कलियुगेऽवस्था सन्ध्यांशन्तु निबोध मे ।
युगे युगे तु हीयन्ते त्रींस्त्रीन् पादांश्च सिद्धयः ।। ५८.७३ ।।

युगस्वभावात्सन्ध्यास्तु तिष्ठन्तीमास्तु पादशः।
सन्ध्यास्वभावाच्चांशेषु पादशस्ते प्रतिष्ठिताः ।। ५८.७४ ।।

एवं सन्ध्यांशके काले सम्प्राप्ते तु युगान्तिके।
तेषां शास्ता ह्यसाधूनां भृगूणां निधनोत्थितः ।। ५८.७५ ।।

गोत्रेण वै चन्द्रमसो नाम्ना प्रमितिरुच्यते।
माधवस्य तु सोंशेन पूर्वं स्वायम्भुवेऽन्तरे ।। ५८.७६ ।।

समाः स विंशतिं पूर्णाः पर्यटन् वै वसुन्धराम्।
आचकर्ष स वै सेनां सवाजिरथकुञ्जराम् ।। ५८.७७ ।।

प्रगृहीतायुधैर्विप्रैः शतशोऽथ सहस्रशः।
स तदा तैः परिवृतो म्लेच्छान् हन्ति सहस्रशः ।। ५८.७८ ।।

स हत्वा सर्वगश्चैव राज्ञस्तान् शूद्रयोनिजात्।
पाषण्डान् स ततः सर्वान्निःशेषान् कृतवान् प्रभुः ।। ५८.७९ ।।

नात्यर्थं धार्मिका ये च तान् सर्वान् हन्ति सर्वशः।
वर्णव्यत्यासजातांश्च ये च तानुपजीविनः ।। ५८.८० ।।

उदीच्यान्मध्यदेशांश्च पार्वतीयांस्तथैव च।
प्राच्यान् प्रतीच्यांश्च तथा विन्ध्यपृष्ठापरान्तिकान् ।। ५८.८१ ।।

तथैव दाक्षिणात्यांश्च द्रविडान् सिंहलैः सह।
गान्दारान् पारदांश्चैव पह्नवान् यवनांस्तथा ।। ५८.८२ ।।

तुषारान् वर्वरांश्चीनान् शूलिकान् दरदान् खसान्।
लम्पाकान्थ केतांश्च किरातानाञ्च जातयः ।। ५८.८३ ।।

प्रवृत्तचक्रो बलवान् म्लेच्छानामन्तकृद्विभुः।
अधृष्यः सर्वभूतानां चचाराथ वसुन्धराम् ।। ५८.८४ ।।

माधवस्य तु सोंशेन देवस्य हि विजज्ञिवान् ।
पूर्वजन्मविधिज्ञैश्च प्रमितिर्नाम वीर्यवान् ।। ५८.८५ ।।

गोत्रेण वै चन्द्रमसः पूर्वे कलियुगे प्रभुः।
द्वात्रिंशेऽभ्युदिते वर्षे प्रक्रान्ते विंशतिं समाः ।। ५८.८६ ।।

विनिघ्नन् सर्वभूतानि मानवानि सहस्रशः।
कृत्वा वीर्यावशेषान्तु पृथ्वीं ऱूढेन कर्मणा ।
परस्परनिमित्तेन कोपेनाकस्मिकेन तु ।। ५८.८७ ।।

स साधयित्वा वृषलान् प्रायशस्तानधार्मिकान् ।
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्तः सहानुगः ।। ५८.८८ ।।

ततो व्यतीते तस्मिंस्तु अमात्ये सत्यसैनिके।
उत्साद्य पार्थिवान् सर्वान् म्लेच्छांश्चैव सहस्रशः ।। ५८.८९ ।।

तत्र सन्ध्यांशके काले सम्प्राप्ते तु युगान्तिके।
स्थितास्वल्पावशिष्टासु प्रजास्विह व्कचित् व्कचित् ।। ५८.९० ।।

अप्रग्रहास्ततस्ता वै लोकचेष्टास्तु वृन्दशः।
उपहिंसन्ति चान्योन्यं प्रपद्यन्ते परस्परम् ।। ५८.९१ ।।

अराजके युगवशात् संशये समुपस्थिते।
प्रजास्ता वै ततः सर्वाः परस्परभयार्दिताः ।। ५८.९२ ।।

व्याकुलाश्च परिश्रान्तास्त्यक्त्वा दारान् गृहाणि च।
स्वान् प्राणान् समवेक्षन्तो निष्ठां प्राप्ताः सुदुःखिताः ।। ५८.९३ ।।

नष्टे श्रौते स्मृते धर्मे परस्परहतास्तदा।
निर्मर्यादा निराक्रन्दा निःस्नेहा निरपत्रपाः ।। ५८.९४ ।।

नष्टे वर्पे प्रतिहता ह्रस्वकाः पञ्जविंशकाः।
हित्वा दारांश्च पुत्रांश्च विषादव्याकुलेन्द्रियाः ।। ५८.९५ ।।

अनावृष्टिहताश्चैव वार्त्तामुत्सृज्य दुःखिताः।
प्रत्यन्तांस्तान्निपेवन्ते हित्वा जनपदान् स्वकान् ।। ५८.९६ ।।

सरितः सागरान् कूपान् सेवन्ते पर्वतांस्तदा।
मधुमांसैर्मूलफलैर्वर्त्तयन्ति सुदुःखिताः ।। ५८.९७ ।।

चीरवस्त्राजिनधरा निष्पत्रा निष्परिग्रहाः।
वर्णाश्रमपरिभ्रष्टाः सङ्करं घोरमास्थिताः ।। ५८.९८ ।।

एताः काष्ठामनुप्राप्ता अल्पशेषास्तथा प्रजाः ।
जराव्याधिक्षुधाविष्टा दुःखान्निर्वेदमागमन् ।। ५८.९९ ।।

विचारणन्तु निर्वेदात् साम्यावस्था विचारणात्।
साम्यावस्थासु सम्बोधः सम्बोधाद्धर्मशीलता ।। ५८.१०० ।।

तासुपगमयुक्तासु कलिशिष्टासु वै स्वयम्।
अहोरात्रं तदा तासां युगन्तु परिवर्त्तते ।। ५८.१०१ ।।

चित्तसम्मोहनं कृत्वा तासान्तैः सप्तमन्तु तत्।
भाविनोऽर्थस्य च बलात्ततः कृतमवर्तत ।। ५८.१०२ ।।

प्रवृत्ते तु पुनस्तस्मिंस्ततः कृतयुगे तु वै।
उत्पन्नाः कलिशिष्टास्तु कार्तयुग्यः प्रजाम्तदा ।। ५८.१०३ ।।

तिष्ठन्ति चेह ये सिद्धाः सुदृष्टा विचरन्ति च।
सदा सप्तर्षयश्चैव तत्र ते च व्यवस्थिताः ।। ५८.१०४ ।।

ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह।
कलिजैः सह ते सर्वे निर्विशेषास्तदाभवन् ।। ५८.१०५ ।।

तेषां सप्तर्षयो धर्म कथयन्तीतरेषु च ।
वर्णा श्रमाचारयुक्तः श्रौतः स्मार्तो द्विधा तु सः ।। ५८.१०६ ।।

ततस्तेषु क्रियावत्सु वर्त्तन्ते वै प्रजाः कृते ।
श्रौतः स्मार्त्तः कृतानान्तु धर्मः सप्तर्षिदर्शितः ।। ५८.१०७ ।।

तासु धर्मव्यवस्तार्थं तिष्ठन्तीहायुगक्षयात् ।
मन्वन्तराधिकारेषु तिष्ठन्ति मुनयस्तु वै ।। ५८.१०८ ।।

यथा दावप्रदग्धेषु तृणेष्विह तपे ऋतौ ।
नवानां प्रथमं दृष्टस्तेषां मूले तु सम्भवः ।। ५८.१०९ ।।

एवं युगाद्युगस्तेह सन्तानस्तु परस्परम् ।
वर्त्तते ह्यव्यवच्छेदाद्यावन्मन्वन्तरक्षयः ।। ५८.११० ।।

सुखमायुर्बलं रूपं धर्मार्थौ काम एव च ।
युगेष्वेतानि हीयन्ते त्रीणि पादक्रमेण तु ।। ५८.१११ ।।

ससन्ध्यंशेषु हीयन्ते युगानां धर्मसिद्धयः।
इत्येष प्रतिसन्धिर्वः कीर्त्तितस्तु मया द्विजाः ।। ५८.११२ ।।

चतुर्युगानां सर्वेषामेतेनैव प्रसाधनम् ।।
एषा चतुर्युगावृत्तिरासहस्रात् प्रवर्त्तते ।। ५८.११३ ।।

ब्रह्मणस्तदहः प्रोक्तं रात्रिश्च तावती स्मृता ।
अत्रार्जवं जडीभावो भूतानामायुगक्षयात् ।। ५८.११४ ।।

एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम्।
एषा चतुर्युगानान्तु गणना ह्येकसप्ततिः।
क्रमेण परिवृत्ता तु मनोरन्तरमुच्यते ।। ५८.११५ ।।

चतुर्युगे तथैकस्मिन् भवतीह यथाश्रुतम्।
तथा चान्येषु भवति पुनस्तद्वै यथाक्रमम् ।। ५८.११६ ।।

सर्गे सर्गे यथा भेदा उत्पद्यन्ते तथैव तु ।
पञ्चविंशत्परिमिता न न्यूना नाधिकास्तथा ।। ५८.११७ ।।

तथा कल्पयुगैः सार्द्धं भवन्ति समलक्षणाः।
मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम् ।। ५८.११८ ।।

तथा युगानां परिवर्त्तनानि चिरप्रवृत्तानि युगस्वभवात् ।
तथा न सन्तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्त्तमानः ।। ५८.११९ ।।

इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः।
अतीतानागतानां वै सर्वाण्येवान्तराणि ।। ५८.१२० ।।

अनागतेषु तद्वच्च तर्क्कः कार्यो विजानता।
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ।। ५८.१२१ ।।

मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै।
व्याख्यातानि विजानीद्वं कल्पे कल्पेन चैव हि ।। ५८.१२२ ।।

अस्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत।
देवा ह्यष्टविधा ये च इह मन्वन्तरेश्वराः ।। ५८.१२३ ।।

ऋषयो मनवश्चैव सर्वे तुल्याः प्रयोजनैः।
एवं वर्णाश्रमाणान्तु प्रविभागो युगे युगे ।। ५८.१२४ ।।

युगस्वभावाच्च तथा विधत्ते वै सदा प्रभुः ।
वर्णाश्रमविभागश्च युगानि युगसिद्धये ।। ५८.१२५ ।।

अनुषङ्गः समाख्यातः सृष्टिसर्गन्निबोधत।
विस्तरेणानुपूर्व्या च स्थितिं वक्ष्ये युगेष्विह ।। ५८.१२६ ।।

इति श्रीमहापुराणे वायुप्रोक्ते चतुर्युगाख्यानं नामाष्टपञ्चाशोऽध्यायः ।। ५८ ।।