वायुपुराणम्/पूर्वार्धम्/अध्यायः ५३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५२ वायुपुराणम्
अध्यायः ५३
वेदव्यासः
अध्यायः ५४ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१


।। शांशपायन उवाच ।।
एतच्छ्रुत्वा तु मुनयः पुनस्ते संशयान्विताः।
पप्रच्छुरुत्तरं भूयस्तदा ते लोमहर्षणम् ।। ५३.१ ।।
।।ऋषय उचुः ।।
यदेतदुक्तम्भवता गृहाण्येतानि विश्रितम्।
कथं देवगृहाणि स्युः कथं ज्योतींषि वर्णय ।। ५३.२ ।।
एतत्सर्वं समाचक्ष्व ज्योतिषाञ्चैव निश्चयम्।
श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः ।। ५३.३ ।।
अस्मिन्नर्थे महाप्राज्ञैर्यदुक्तं ज्ञानबुद्धिभिः।
तद्वोऽहं सम्प्रवक्ष्यामि सूर्याचन्द्रमसोर्भवम्।
यथा देवगृहाणीह सूर्याचन्द्रमसोर्गृहम् ।। ५३.४ ।।
अतः परं त्रिविधाग्नेर्वक्ष्येऽहन्तु समुद्भवम्।
दिव्यस्य भौतिकस्याग्नेरथाग्नेः पार्थिवस्य च ।। ५३.५ ।।
व्युष्टायान्तु रजन्यां वै ब्रह्मणोऽव्यक्तजन्मनः।
अव्याकृतमिदन्त्वासीन्नैशेन तमसावृतम् ।। ५३.६ ।।
चतुर्भूतावशिष्टेऽस्मिन् पार्थिवः सोऽग्निरुच्यते।
यश्चादौ तपते सूर्ये शुचिरग्निस्तु स स्मृतः ।। ५३.७ ।।
वैद्युताख्यस्तु विज्ञेयस्तेषां वक्ष्येऽथ लक्षणम्।
वैद्युतो जाठरः सौरो ह्यपाङ्गर्भास्त्रयोऽग्नयः।
तस्मादपः पिबन् सूर्यो गोभिदीर्प्यत्यसौ दिवि ।। ५३.८ ।।
वैद्युतेन समाविष्टो वार्क्षो नाद्भिः प्रशाम्यति ।
मानवानाञ्च कुक्षिस्थो नाद्भिः शाम्यति पावकः ।। ५३.९ ।।
अर्च्चिष्मान् परमः सोऽग्निः प्रभवो जाठरः स्मृतः।
यश्चायं मण्डली शुक्लो निरूष्मा संप्रकाशते ।। ५३.१० ।।
प्रभा हि सौरी पादेन ह्यस्तं याति दिवाकरे।
अग्निमाविशते रात्रौ तस्माद्‌दूरात् प्रकाशते ।। ५३.११ ।।
उद्यन्तञ्च पुनः सूर्यमौष्ण्यमाग्नेयमाविशत्।
पादेन पार्थिवस्याग्नेस्तस्मादग्निस्तपत्यसौ ।। ५३.१२ ।।
प्रकाशश्च तथौष्ण्यञ्च सौराग्नेये तु तेजसी।
परस्परानुप्रवेशादाप्यायेते दिवानिशम् ।। ५३.१३ ।।
उत्तरे चैव भूम्यर्द्धे तस्मादस्मिंश्च दक्षिणे।
उत्तिष्ठति पुनः सूर्ये रात्रिराविशते त्वपः।
तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् ।। ५३.१४ ।।
अस्तं याति पुनः सूर्ये अहर्वै प्रविशत्यपः।
तस्मान्नक्तं पुनः शुक्ला आपो विश्यन्ति भास्करे ।। ५३.१५ ।।
एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे ।
उदयास्तमये नित्यमहोरात्रं विशत्यपः ।। ५३.१६ ।।
यश्चासौ तपते सूर्ये पिबन्नम्भो गभस्तिभिः।
पार्थिवो हि विमिश्रोऽसौ दिव्यः शुचिरिति स्मृतः ।। ५३.१७ ।।
सहस्रपादः सोऽग्निस्तु वृत्तः कुम्भनिभः शुचिः।
आदत्ते तत्तु रश्मीनां सहस्रेण समन्ततः ।। ५३.१८ ।।
नादेयीश्चैव सामुद्रीः कौप्याश्चैव सधान्वनीः।
स्थावरा जङ्गमाश्चैव यश्च सूर्यो हिरण्मयः।
तस्य रश्मिसहस्रन्तु वर्षशीतोष्णनिःस्रवम् ।। ५३.१९ ।।
तासाञ्चतुःशता नाड्यो वर्षन्ति चित्रमूर्त्तयः।
वन्दनाश्चैव वन्द्यश्च ऋतना नूतनास्तथा।
अमृता नामतः सर्व्वा रश्मयो वृष्टिसर्जनाः ।। ५३.२० ।।
हिमवाहाश्च ताभ्योऽन्या रश्मयस्त्रिशताः पुनः।
दृश्या मेध्याश्च वाह्याश्च ह्रादिन्यो हिमसर्जनाः ।। ५३.२१ ।।
चन्द्रास्ता नामतः सर्वाः पीताभास्तु गभस्तयः।
शुक्लाश्च ककुभश्चैव गावो विश्वभृतस्तथा ।। ५३.२२ ।।
शुक्लास्ता नामतः सर्वास्त्रिशता घर्मसर्जनाः।
समं बिभर्ति ताभिस्तु मनुष्यपितृदेवताः ।। ५३.२३ ।।
मनुष्यानौषधेनेह स्वधया च पितॄनपि।
अमृतेन सुरान् सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ ।। ५३.२४ ।।
वसन्ते चैव ग्रीष्मे च सतैः सुतपते त्रिभिः।
वर्षास्वथो शरदि च चतुर्भिः सम्प्रकर्षति ।। ५३.२५ ।।
हेमन्ते शिशिरे चैव हिमं स सृज ते त्रिभिः।
ओषधीषु बलन्धत्ते स्वधया च पितॄनपि।
सूर्योऽमरत्वममृतत्रयन्त्रिषु नियच्छति ।। ५३.२६ ।।
एवं रश्मिसहस्रन्तत् सौरं लोकार्थ साधकम्।
भिद्यते ऋतुमासाद्य जलशीतोष्णनिःस्रवम् ।। ५३.२७ ।।
इत्येतन्मण्डलं शुक्लं भास्वरं सूर्यसंज्ञितम्।
नक्षत्रग्रहसोमानां प्रतिष्ठायोनिरेव च।
ऋक्षचन्द्रग्रहाः सर्वे निज्ञेयाः सूर्यसम्भवाः ।। ५३.२८ ।।
नक्षत्राधिपतिः सोमो ग्रहराजो दिवाकरः।
शेषाः पञ्चग्रहा ज्ञेया ईश्वराः कामरूपिणः ।। ५३.२९ ।।
पठ्यते चाग्निरादित्य औदकश्चन्द्रमाः स्मृतः।
शेषाणां प्रकृतिं सम्यग्वर्ण्यमानां निबोधत ।। ५३.३० ।।
सुरसेनापति स्कन्दः पठ्यतेऽङ्गारको ग्रहः ।
नारायणं बुधं प्राहुर्देवं ज्ञानविदो विदुः ।। ५३.३१ ।।
रुद्रो वैवस्वतः साक्षाद्धर्मो लोके प्रभुः स्वयम्।
महाग्रहो द्विजश्रेष्ठो मन्दगामी शनैश्चरः ।। ५३.३२ ।।
देवासुरगुरू द्वौ तु भानुमन्तौ महाग्रहौ।
प्रजापतिसुतावेतावुभौ शुक्रबृहस्पती।
दैत्यो महेन्द्रश्च तयोराधिपत्ये विनिर्मितौ ।। ५३.३३ ।।
आदित्यमूलमखिलं त्रिलोकं नात्र संशयः।
भवत्यस्य जगत्कृत्स्नं सदेवासुरमानुषम् ।। ५३.३४ ।।
रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्रास्त्रिदिवौकसाम्।
द्युतिर्द्युतिमतां कृत्स्ना यत्तेजः सार्वलौकिकम् ।। ५३.३५ ।।
सर्वात्मा सर्वलोकेशो मूलं परमदैवतम्।
ततः संजायते सर्वं तत्र चैव प्रलीयते ।। ५३.३६ ।।
बावाभावौ हि लोकानामादित्यान्निः सृतौ पुरा।
जगज्ज्ञेयो ग्रहो विप्रा दीप्तिमान् सुग्राहो रविः ।। ५३.३७ ।।
यत्र गच्छन्ति निधनं जायन्ते च पुनः पुनः।
क्षणा मुहूर्त्ता दिवसा निशाः पक्षाश्च कृत्स्नशः।
मासाः संवत्सराश्चैव ऋतवोऽन्दयुगानि च ।। ५३.३८ ।।
तदादित्यादृते तेषां कालसंख्या न विद्यते।
कालादृते न निगमो न दीक्षा नाह्निकक्रमः ।। ५३.३९ ।।
ऋतुनामविभागश्च पुष्पमूलफलं कुतः।
कुतः सस्याभिनिष्पत्तिर्गुणौषधिगणादि वा ।। ५३.४० ।।
अभावो व्यवहाराणां देवानां दिवि चेह च।
जगत्प्रतापनमृते भास्करं वारितस्करम् ।। ५३.४१ ।।
स एव कालश्चाग्निश्च द्वादशात्मा प्रजापतिः।
तपत्येष द्विजश्रेष्टास्त्रैलोक्यं सचराचरम् ।। ५३.४२ ।।
स एष तेजसां राशिः समस्तः सार्वलौकिकः।
उत्तमं मार्गमास्थाय वायोभाभिरिदञ्जगत्।
पार्श्वमूर्द्ध्वमधश्चैव तापयत्येष सर्वशः ।। ५३.४३ ।।
रवेरश्मिसहस्रं यत् प्राङ्मया समुदाहृतम् ।
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ।। ५३.४४ ।।
सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च।
विश्वश्रवाः पुनश्वान्यः सम्पद्वसुरतः परम् ।
अर्वावसुः पुनश्चान्योमया चात्र प्रकीर्त्तितः ।। ५३.४५ ।।
सुषुम्नः सूर्यरश्मिस्तु क्षीणं शशिनमेधयन्।
तिर्यगूर्द्ध्वप्रभावोऽसौ सुषुम्नः परिकीर्त्यते ।। ५३.४६ ।।
हरिकेशः पुरस्त्वाद्या ऋक्षयोनिः प्रकीर्त्यते।
दक्षिणे विश्वकर्मा तु रश्मिर्वर्द्धयते बुधम् ।। ५३.४७ ।।
विश्वश्रवास्तु यः पश्चात् शुक्रयोनिः स्मृतो बुधैः।
सम्पद्वसुश्च यो रश्मिः सा योनिर्लोहितस्य च ।। ५३.४८ ।।
षष्ठस्त्वर्वावसू रश्मिर्योनिस्तु स बृहस्पतेः।
शनैश्चरं पुनश्चापि रश्मिराप्यायते स्वराट् ।। ५३.४९ ।।
एवं सूर्यप्रभावेण ग्रहनक्षत्रतारकाः।
वर्द्धन्ते विदिताः सर्वा विश्वञ्चैदं पुनर्जगत् ।
नक्षीयन्ते पुनस्तानि तस्मान्नक्षत्रता स्मृता ।। ५३.५० ।।
क्षेत्राण्येतानि वै पूर्वमापतन्ति गभस्तिभिः।
तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रताङ्गतः ।। ५३.५१ ।।
तीर्णानां सुकृतेनेह सुकृतान्ते ग्रहाश्रयात् ।
ताराणां तारका ह्येताः शुक्लत्वाच्चैव तारकाः ।। ५३.५२ ।।
दिव्यानां पार्थिवानाञ्च नैशानाञ्चैव सर्वशः ।
आदानान्नित्यमादित्यस्तमसां तेजसां महान् ।। ५३.५३ ।।
सुवति स्पन्दनार्थे च धातुरेष विभाव्यते।
सवनात्तेजसोऽपाञ्च तेनासौ सविता मतः ।। ५३.५४ ।।
बह्वर्थश्चन्द्र इत्येष ह्लादने धातुरिष्यते ।
शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते ।। ५३.५५ ।।
सुर्याचन्द्रमसोर्दिव्ये मण्डले भास्वरे खगे।
ज्वलत्तेजोमये शुक्ले वृत्तकुम्भनिभे शुभे ।। ५३.५६ ।।
घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम्।
घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु ।। ५३.५७ ।।
विशन्ति सर्वदेवास्तु स्थानान्येतानि सर्वशः।
मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः ।। ५३.५८ ।।
तानि देवगृहाण्येव तदाख्यास्ते भवन्ति च।
सौरं सूर्यो विशस्थानं सौम्यं सोमस्तथैव च ।। ५३.५९ ।।
शौक्रं शुक्रो विशस्थानं षोडशार्च्चिः प्रतापवान्।
बृहद्बृहस्पतिश्चैव लोहितश्चैव लौहितः ।
शानैश्चरं तथा स्थानं देव श्चैव शनैश्चरः ।। ५३.६० ।।
आदित्यरश्मिसंयोगात् संप्रकाशात्मिकाः स्मृताः ।
नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः ।। ५३.६१ ।।
त्रिगुणस्तस्य विस्तारो मण्डलञ्च प्रमाणतः।
द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः ।। ५३.६२ ।।
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात् प्रसर्पति।
उद्धृत्य पार्थिवच्छायां निर्मितो मण्डलाकृतिः ।। ५३.६३ ।।
स्वर्भानोस्तु बृहत् स्थानन्निर्मितं यत्तमोमयम्।
आदित्यात्तच्च निष्क्रम्य सोमं गच्छति पर्वसु ।। ५३.६४ ।।
आदित्यमेति सोमाच्च पुनः सोमञ्च पर्वसु।
स्वर्भासानुदते यस्मात्ततः स्वर्भानुरुच्यते ।। ५३.६५ ।।
चन्द्रस्य षोडशो भागो भार्गवश्च निधीयते।
विष्कम्भान्मण्डलाच्चैव योजनाग्रात् प्रमाणतः ।। ५३.६६ ।।
भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः।
बुहस्पतेः पादहीनौ कुजसौरावुभौ स्मृतौ ।
विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ।। ५३.६७ ।।
तारानक्षत्ररूपाणि स्वपुष्मन्तीह यानि वै।
बुधेन समतुल्यानि विस्तारान्मण्डलादथ ।। ५३.६८ ।।
प्रायशश्चन्द्रयोगानि विद्यादृक्षाणि तत्त्ववित्।
तारानक्षत्ररूपाणि हीनानि तु परस्परम् ।। ५३.६९ ।।
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने।
पूर्वापरनिकृष्टानि तारकामण्डलानि तु।
योजनान्यर्द्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ।। ५३.७० ।।
उपरिष्टात्रयस्तेषां ग्रहा ये दूरसर्पिणः।
सौरोऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ।। ५३.७१ ।।
तेभ्योऽधस्तात्तु चत्वारः पुनरन्ये महाग्रहाः।
सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ।। ५३.७२ ।।
यावन्त्य स्तारकाः कोट्यस्तावदृक्षाणि सर्वशः।
वीथीनां नियमाच्चैवमृक्षमार्गो व्यवस्थितः ।। ५३.७३ ।।
गतिस्तास्त्वेव सूर्यस्य नीचोच्चत्वेऽयनक्रमात्।
उत्तरायण मार्गस्थो यदा पर्वसु चन्द्रमाः।
बौधं बौधोऽथ स्वर्भानुः स्वर्भानोः स्थानमास्थितः ।। ५३.७४ ।।
नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्त्युत।
गृहाण्ये तानि सर्वाणि ज्योतींषि सुकृतात्मनाम् ।। ५३.७५ ।।
कल्पादौ संप्रवृत्तानि निर्मितानि स्वयम्भुवा।
स्थानान्येतानि तिष्ठन्ति यावदाभूतसंप्लवम् ।। ५३.७६ ।।
मन्वन्तरेषु सर्वेषु देवतायतनानि वै।
अभिमानिनोऽवतिष्टन्ति यावदाभूतसंप्लवम् ।। ५३.७७ ।।
अतीतैस्तु सहातीता भाव्याभाव्यैः सुरासुरैः ।
वर्त्तन्ते वर्त्तमानैश्च स्थानानि स्वैः सुरैः सह ।। ५३.७८ ।।
अस्मिन् मन्वन्तरे चैव ग्रहा वैमानिकाः स्मृताः।
विवस्वानदितेः पुत्रः सूर्यो वैवस्वतेऽन्तरे ।। ५३.७९ ।।
त्विषिमान्धर्मपुत्रस्तु सोमदेवो वसुः स्मृतः।
शुक्रो देवस्तु विज्ञेयो भार्गवोऽसुरराजकः ।। ५३.८० ।।
बृहत्तेजाः स्मृतो देवो देवाचार्योऽङ्गिरःसुतः।
बुधो मनोहरश्चैव त्विषिपुत्रस्तु स स्मृतः ।। ५३.८१ ।।
अग्निर्विकल्पात् संजज्ञे युवाऽसौ लोहिताधिपः।
नक्षत्रऋक्षगामिन्यो दाक्षायण्यः स्मृतास्तु ताः ।। ५३.८२ ।।
स्वर्भानुः सिंहिकापुत्रो भूतसन्तापनोऽसुरः।
सोमर्क्षग्रहसूर्ये तु कीर्तितास्त्वभिमानिनः ।। ५३.८३ ।।
स्थानान्येतान्यथोक्तानि स्थानिन्यश्चैव देवताः।
शुक्लमग्निमयं स्थानं सहस्रांशोर्विवस्वतः ।। ५३.८४ ।।
सहस्रांशोस्त्विषः स्थानमम्मयं शुक्लमेव च।
अथ श्यामं मनोज्ञस्य पञ्चरश्मेर्गृहं स्मृतम् ।। ५३.८५ ।।
शुक्रस्याप्यम्मयं स्थानं सझ षोडशरश्मिवत्।
नवरश्मेस्तु यूनो हि लोहितस्थानमम्मयम् ।। ५३.८६ ।।
हरिश्चाप्यं बृहच्चापि द्वादशांशोर्बृहस्पतेः।
अष्ट रश्मेर्गृहं प्रोक्तं कृष्णं बुद्धस्य अम्मयम् ।। ५३.८७ ।।
स्वर्भानोस्तामसं स्थानं भूतसन्तापनालयम्।
विज्ञेयास्तारकाः सर्वास्त्वम्मयास्त्वेकरश्मयः ।। ५३.८८ ।।
आश्रयाः पुण्यकीर्तीनां सुशुक्लाश्चैव वर्णतः।
घनतोयात्मिका ज्ञेयाः कल्पादौ वेदनिर्मिताः ।। ५३.८९ ।।
उच्चत्वाद्दृश्यते शीघ्रमभिव्यक्तैर्गभस्तिभिः।
तथा दक्षिणमार्गस्थो नीविवीथीसमाक्षितः ।। ५३.९० ।।
भूमिलेखावृतः सूर्यः पूर्णामावास्ययोस्तथा।
नदृश्यते यथाकालं शाघ्रतोऽस्तमुपैति च ।। ५३.९१ ।।
तस्मादुत्तरमार्गस्थो ह्यमावास्यां निशाकरः।
दृश्यते दक्षिणे मार्गे नियमाद्दृश्यते न च ।। ५३.९२ ।।
ज्योतिषां गतियोगेन सूर्याचन्द्रमसावुभौ।
समानकालास्तमयौ विषुवत्सु समोदयौ ।। ५३.९३ ।।
उत्तरासु च वीथीषु व्यन्तरास्तमयोदयौ।
पूर्णामावास्ययोर्ज्ञेयौ ज्योतिश्चक्रानुवर्त्तिनौ ।। ५३.९४ ।।
दक्षिणायनमार्गस्थो यदा भवति रश्मिवान्।
तदा सर्वग्रहाणां स सूर्योऽधस्तात् प्रसर्पति ।। ५३.९५ ।।
विस्तीर्णं मण्डलं कृत्वा तस्योर्द्ध्वञ्चरते शशी।
नक्षत्रमण्डलं कृत्स्नं सोमादूर्द्ध्वं प्रसर्पति ।। ५३.९६ ।।
नक्षत्रेभ्यो बुधश्वोर्द्ध्वं बुधादूर्द्ध्वं बृहस्पतिः।
तस्माच्छनैश्चरश्चोर्द्ध्वं तस्मात्सप्तर्षिमण्डलम् ।
ऋषीणाञ्चैव सप्तानां ध्रुव ऊर्द्ध्वं व्यवस्थितः ।। ५३.९७ ।।
द्विगुणेषु सहस्रेषु योजनानां शतेषु च।
ताराग्रहान्तराणि स्युरुपरिष्टाद्यथाक्रमम् ।। ५३.९८ ।।
ग्रहाश्च चन्द्रसूर्यौ तु दिवि दिव्येन तेजसा।
नित्यमृक्षेषु युज्यन्ति गच्छन्ति नियमक्रमात् ।। ५३.९९ ।।
ग्रहनक्षत्रसूर्यास्तु नीचोच्चमृद्ववस्थिताः।
समागमे च भेदे च पश्यन्ति युगपत् प्रजाः ।। ५३.१०० ।।
परस्परस्थिताः ह्येते युज्यन्ते च परस्परम्।
असङ्करेण विज्ञेयस्तेषां योगस्तु वै बुधैः ।। ५३.१०१ ।।
इत्येष सन्निवेशो वः पृथिव्यां ज्यौतिषस्य च।
द्वीपानामुद्नधीनां च पर्वतानां तथैव च ।। ५३.१०२ ।।
वर्षाणां च नदीनाञ्च येषु तेषु वसन्ति वै।
एते चैव ग्रहाः पूर्वं नक्षत्रेषु समुत्थिताः ।। ५३.१०३ ।।
विवस्वानदितेः पुत्रः सूर्यो वै चाक्षुषेऽन्तरे।
विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः ।। ५३.१०४ ।।
त्विषिमान् धर्म्मपुत्रस्तु सोमो विश्वावसुस्तथा।
शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः ।। ५३.१०५ ।।
षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादनन्तरम्।
ताराग्रहाणां प्रवरस्तिष्यक्षेत्रे समुत्थितः ।। ५३.१०६ ।।
ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्च्चिर्बृहस्पतिः।
फाल्गुनीषु समुत्पन्नः सर्वासु च जगद्गुरुः ।। ५३.१०७ ।।
नवार्चिर्लोहिताङ्गस्तु प्रजापतिसुतो ग्रहः ।
आषाढास्विह पूर्वासु समुत्पन्न इति श्रुतिः ।। ५३.१०८ ।।
रेवतीष्वेव सप्तार्चि स्तथा सौरशनैश्चरः।
रोहिणीषु समुत्पन्नौ ग्रहौ चन्द्रार्कमर्द्दनौ ।। ५३.१०९ ।।
एते ताराग्रहाश्चैव बोद्धव्या भार्गवादय।
जन्मनक्षत्रपीडासु यान्ति वैगुण्यतां यतः।
स्पृशन्ते तेन दोषेण ततस्ता ग्रहभक्तिषु ।। ५३.११० ।।
सर्वग्रहाणामेतेषामादिरादित्य उच्यते।
ताराग्रहाणां शुक्रस्तु केतूनाञ्चैव धूमवान् ।। ५३.१११ ।।
ध्रुवः कालो ग्रहाणां तु विभक्तानां चतुर्दिशम् ।
नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम् ।। ५३.११२ ।।
वर्षाणाञ्चापि पञ्चानामाद्यः संवत्सरः स्मृतः।
ऋतूनां शिशिरञ्चापि मासानां माघ एव च ।। ५३.११३ ।।
पक्षाणां शुक्लपक्षस्तु तिथीनां प्रतिपत्तथा।
अहोरात्रविभागानामहश्चापि प्रकीर्तितम् ।। ५३.११४ ।।
मुहूर्त्तानां तथैवादिर्मुहूर्त्तो रुद्रदैवतः।
अक्ष्णोश्चापि निमेषादिः कालः कालविदो मतः ।। ५३.११५ ।।
श्रवणान्तं श्रविष्ठादियुगं स्यात् पञ्चवार्षिकम्।
भानोर्गतिविशेषेण चक्रवत् परिवर्त्तते ।। ५३.११६ ।।
दिवाकरः स्मृतस्तस्मात्कालस्तं विद्धि चेश्वरम्।
चतुर्वनिधानां भूतानां प्रवर्त्तकनिवर्त्तकः ।। ५३.११७ ।।
इत्येष ज्योतिषामेव सन्निवेशोऽर्थनिश्चयात्।
लोकसंव्यवहारार्थमीश्वरेण विनिर्मितः ।। ५३.११८ ।।
उत्पन्नः श्रवणेनासौ संक्षिप्तश्च ध्रुवे तथा।
सर्वतोऽन्तेषु विस्तीर्णो वृक्षाकार इति स्थितिः ।। ५३.११९ ।।
बुद्धिपूर्वम्भगवता कल्पादौ संप्रकीर्तितः।
साश्रयः सोऽभिमानी च सर्वस्य ज्योतिरात्मकः।
विश्वरूपः प्रधानस्य परिणामोऽयमद्भुतः ।। ५३.१२० ।।
नैव शक्यं प्रसंख्यातुं याथातथ्येन केनचित्।
गतागतं मनुष्येषु ज्योतिषां मांसचक्षुषा ।। ५३.१२१ ।।
आगमादनुमानाच्च प्रत्यक्षादुपपत्तितः।
परीक्ष्य निपुणं भक्त्या श्रद्धातव्यं विपश्चिता ।। ५३.१२२ ।।
चक्षुः शास्त्रं जलं लेख्यं गणितं बुद्धिसत्तमाः।
पञ्चैते हेतवो ज्ञेया ज्योतिर्गणविचिन्तने ।। ५३.१२३ ।।
इति श्रीमहापुराणे वायुप्रोक्ते ज्योतिःसन्निवेशो नाम त्रिपञ्चाशोऽध्यायः ।। ५३ ।।।