वायुपुराणम्/पूर्वार्धम्/अध्यायः ५७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५६ वायुपुराणम्
अध्यायः ५७
वेदव्यासः
अध्यायः ५८ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१


।।ऋषय ऊचुः ।।
चतुर्युगानि यान्यासन् पूर्वं स्वायम्भुवेऽन्तरे ।
तेषां निसर्गं तत्त्वञ्च श्रोतुमिच्छामि विस्तरात् ।। ५७.१ ।।
।।सूत उवाच।।
पृथिव्यादिप्रसङ्गेन यन्मया प्रागुदाहृतम्।
तेषाञ्चतुर्युगं ह्येतत् प्रवक्ष्यामि निबोधत ।। ५७.२ ।।
सङ्ख्ययेह प्रसङ्ख्याय विस्ताराच्चैव सर्वशः।
युगञ्च युगभेदञ्च युगधर्मन्तथैव च ।। ५७.३ ।।
युगसन्ध्यंशकञ्चैव युगसन्धानमेव च।
षट्‌प्रकारयुगाख्यानां प्रवक्ष्यामीह तत्त्वतः ।। ५७.४ ।।
लौकिकेन प्रमाणेन विबुद्धोऽब्दस्तु मानुषः।
तेनाब्देन प्रसङ्ख्याय वक्ष्यामीह चतुर्युगम् ।। ५७.५ .
निमेषकालः काष्ठा च कलाश्चापि मुहूर्त्तकाः।
निमेषकालतुल्यं हि विद्याल्लघ्वक्षरञ्चयत् ।। ५७.६ ।।
काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत् कलास्ताः।
त्रिंशत् कलाश्चैव भवेन्मुहूर्त्तास्तत्र्त्रिंशता रात्र्यहनी समेते ।। ५७.७ ।।
अहोरात्रे विभजते सूर्यो मानुषदैविके।
तत्राहः कर्मचेष्टायां रात्रिः स्वप्नाय कल्प्यते ।। ५७.८ ।।
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः।
कृष्ण पक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ।। ५७.९ ।।
त्रिंशच्च मानुषा मासाः पित्र्यो मासश्च स स्मृतः।
शतानि त्रीणि मासानां षष्टया चाप्यधिकानि वै।
पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ।। ५७.१० ।।
मानुषेणैव मानेन वर्षाणां यच्छतं भवेत् ।
पिदॄणां त्रीणि वर्षाणि सङ्खयातानीह तानि वै।
चत्वार श्चाधिका मासाः पित्रे चैवेह कीर्त्तिताः ।। ५७.११ ।।
लोकिकेनैव मानेन अब्दो यो मानुषः स्मृतः।
एतद्दिव्यमहोरात्रं शास्त्रेऽस्मिन् निश्वयो मतः ।। ५७.१२ ।।
दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ।। ५७.१३ ।।
ये ते रात्र्यहनी दिव्ये प्रसङ्खयाते तयोः पुनः।
त्रिंशच्च तानि वर्षाणि दिव्यो मासस्तु स स्मृतः ।। ५७.१४ ।।
मानुषञ्च शतं विद्धि दिव्यमासास्त्रयस्तु ते।
दश चैव तथाहानि दिव्यो ह्येष विधिः स्मृतः ।। ५७.१५ ।।
त्रीणि पर्षशतान्येव षष्टिवर्षाणि यानि च।
दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्त्तितः ।। ५७.१६ ।।
त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः।
त्रिंशद्यानि तु वर्षाणि मतः सप्तर्षिवत्सरः ।। ५७.१७ ।।
नव यानि सहस्राणि वर्षाणां मानुषाणि तु ।
अन्यानि नवतिश्चैव क्रौञ्चः संवत्सरः स्मृतः ।। ५७.१८ ।।
षट्‌त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि तु ।
वर्षाणान्तु शतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः ।। ५७.१९ ।।
त्रीण्येव नियुतान्येव वर्षाणां मानुषाणि च।
षष्टिश्चैव सहस्राणि सङ्ख्यातानि तु सङ्ख्यया।
दिव्यवर्षसहस्रन्तु प्राहुः सङ्ख्याविदो जनाः ।। ५७.२० ।।
इत्येवमृषिभिर्गीतं दिव्यया सङ्ख्ययान्वितम्।
दिव्येनैव प्रमाणेन युगसङ्कचाप्रकल्पनम् ।। ५७.२१ ।।
चत्वारि भारते वर्षे युगानि कवयो विदुः।
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते।
द्वापरश्च कलि श्चैव युगान्येतानि कल्पयेत् ।। ५७.२२ ।।
चत्वार्याहुः सहस्राणि वर्षाणान्तु कृतं युगम्।
तत्र तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ।। ५७.२३ ।।
इत रासु च सन्ध्यासु सन्ध्यांशेषु च वै त्रिषु ।
एकापायेन वर्त्तन्ते सहस्राणि शतानि च ।। ५७.२४ ।।
त्रेता त्रीणि सहस्राणि सङ्ख्यैव परिकीर्त्यते।
तस्यास्तु त्रिशती सन्ध्या सन्ध्यांशश्च तथाविधः ।। ५७.२५ ।।
द्वापरं द्वे सहस्रे तु युगमाहुर्मनीषिणः ।
तस्यापि द्विशती सन्ध्या सन्धयांशः सन्ध्यया समः ।। ५७.२६ ।।
कलिं वर्षसहस्रन्तु युगमाहुर्मनीषिणः।
तस्याप्येकशती सन्ध्या सन्ध्यया समः ।। ५७.२७ ।।
एषा द्वादशसाहस्री युगाख्या परिकीर्त्तिता।
कृतं त्रेता द्वापरञ्च कलिश्चैव चतुष्टयम् ।। ५७.२८ ।।
अत्र संवत्सराः सृष्टा मानुषेण प्रमाणतः।
कृतस्य तावद्वक्ष्यामि वर्षाणां तत्प्रमाणतः ।। ५७.२९ ।।
सहस्राणां शतान्यत्र चतुर्दश तु सङ्ख्यया।
चत्वारिंशत् सहस्राणि कलिकालयुगस्य तु ।। ५७.३० ।।
एवं सङ्‌ख्यातकालश्च कालेष्विह विशेषतः।
एवं चतुर्युगः कालो विना सन्ध्यांशकैः स्मृतः ।। ५७.३१ ।।
चत्वारिंशत्र्त्रीणि चैव नियुतानि च सङ्ख्यया ।
विंशतिश्च सहस्राणि ससन्ध्यांशश्चतुर्युगः ।। ५७.३२ ।।
एवं चतुर्युगाख्या तु साधिका ह्येकसप्ततिः।
कृतत्रेतादियुक्ता सा मनोरन्तरमुच्यते ।। ५७.३३ ।।
मन्वन्तरस्य सङ्ख्या तु वर्षाग्रेण निबोधत।
त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण प्रकीर्तिताः ।। ५७.३४ ।।
सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु।
विंशतिश्च सहस्राणि कालोऽयं साधिकां विना ।। ५७.३५ ।।
मन्वन्तरस्य सङ्ख्यैषा सङ्ख्याविद्भिर्द्विजैः स्मृता।
मन्वन्तरस्य कालोऽयं युगैः सार्द्धं प्रकीर्तितः ।। ५७.३६ ।।
चतुः सहस्रयुक्तं वै प्रथमन्तत् कृतं युगम्।
त्रेतावशिष्टं वक्ष्यामि द्वापरं कलिमेव च ।। ५७.३७ ।।
युगपत्समवेतार्थो द्विधा वक्तुं न शक्यते।
क्रमागतं मया ह्येतत्तुभ्यं प्रोक्तं युगद्वयम्।
ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथैव च ।। ५७.३८ ।।
तत्र त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ते।
श्रौतं स्मार्त्तञ्च धर्मञ्च ब्रह्मणा च प्रचोदितम् ।। ५७.३९ ।।
दाराग्निहोत्रसंयोगमृग्यजुः सामसंज्ञितम्।
इत्यादिलक्षणं श्रौतं धर्मं सप्तर्षयोऽब्रुवन् ।। ५७.४० ।।
परस्परागतं धर्मं स्मार्त्तञ्चाचारलक्षणम्।
वर्णाश्रमाचारयुतं मनुः स्वायम्भुवोऽब्रवीत् ।। ५७.४१ ।।
सत्येन ब्रह्मचर्येण श्रुतेन तपसा च वै।
तेषां सुतप्ततपसामार्षेयेण क्रमेण तु ।। ५७.४२ ।।
सप्तर्षीणां मनोश्चैव आद्ये त्रेतायुगस्य तु ।
अबुद्धिपूर्वकं तेषामक्रियापूर्वमेव च ।। ५७.४३ ।।
अभिव्यक्तास्तु ते मन्त्रास्तारकाद्यैर्निदर्शनैः।
आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम् ।। ५७.४४ ।।
प्रणाशे त्वथ सिद्धीनामप्यासाञ्च प्रवर्त्तनम्।
आसन् मन्त्रा व्यतीतेषु ये कल्पेषु सहस्रशः।
तेमन्त्रा वै पुनस्तेषां प्रतिभाससमुत्थिताः ।। ५७.४५ ।।
ऋचो यजूंषि सामानि मन्त्राश्चाथर्वणानि च।
सप्तर्षिभिस्तु ते प्रोक्ताः स्मार्तं धर्मं मनुर्जगौ ।। ५७.४६ ।।
त्रेतादौ संहिता वैदाः केवला धर्मशेषतः।
संरोधादायुषश्चैवव्यस्यन्ते द्वापरेषु ते ।। ५७.४७ ।।
ऋषयस्तपसा देवाः कलौ च द्वापरेषु वै।
अनादिनिधना दिव्याः पूर्वं सृष्टाः स्वयम्भुवा ।। ५७.४८ ।।
सधर्माः सप्रजाः साङ्गा यथाधर्मं युगे युगे।
विक्रीडन्ते समानार्था वेदवादा यथायुगम् ।। ५७.४९ ।।
आरम्भयज्ञा क्षत्रस्य हविर्यज्ञा विशाम्पतेः।
परिचार यज्ञाः शूद्रास्तु जपयज्ञा द्विजोत्तमाः ।। ५७.५० ।।
तथा प्रमुदिता वर्णास्त्रेतायां धर्मपालिताः।
क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनस्तथा ।। ५७.५१ ।।
ब्राह्मणाननुवर्त्तन्ते क्षत्रियाः क्षत्रियान् विशः।
वैश्यानुवर्तिनः शूद्राः परस्परमनुव्रताः ।। ५७.५२ ।।
शुभाः प्रवृत्तयस्तेषां धर्मा वर्णाश्रमास्तथा।
सङ्कल्पितेन मनसा वाचोक्तेन स्वसर्मणा।
त्रेतायुगे त्वविकलः कर्म्मारम्भः प्रसिद्ध्यति ।। ५७.५३ ।।
आयुर्मेधा बलं रूपमारोग्यं धर्मशीलता।
सर्वसाधारणा ह्येते त्रेतायां वै भवन्त्युत ।। ५७.५४ ।।
वर्णाश्रमव्यवस्थानं तेषां ब्रह्मा तथाकरोत् ।
पुनः प्रजास्तु ता मोहात्तान् धर्मान्न ह्यपालयन् ।। ५७.५५ ।।
परस्परविरोधेन मनुन्ताः पुनरन्वयुः।
मनुः स्वायम्भुवो दृष्ट्वा याथातथ्यं प्रजापतिः ।। ५७.५६ ।।
धाता तु शतरूपायाः पुमान् स उदपादयत्।
प्रियव्रतोत्तानपादौ प्रधमन्तौ महीपती ।। ५७.५७ ।।
ततः प्रभृति राजान उत्पन्ना दण्डधारिणः।
प्रजानां रञ्जनाच्चैव राजानस्त्वभवन्नृषाः ।। ५७.५८ ।।
प्रच्छन्नपापा ये जेतुमशक्या मनुजा भुवि।
धर्मसंस्थापनार्थाय तेषां शास्त्रे तपो मया ।। ५७.५९ ।।
वर्णानां प्रविभागाश्च त्रेतायां संप्रकीर्तिताः।
संहिताश्च ततो मन्त्रा ऋषभिर्ब्रह्मणैस्तु ते ।। ५७.६० ।।
यज्ञः प्रवर्तितश्चैव तदा ह्येवन्तु दैवतैः।
यामैः शुक्लैर्जपैश्चैव सर्वसम्भारसंवृतैः ।। ५७.६१ ।।
सार्द्धं विश्वभुजा चैव देवेन्द्रेण महौजसा।
स्वायम्भुवेऽन्तरे देवैर्यज्ञास्ते प्राक् प्रवर्तिताः ।। ५७.६२ ।।
सत्यं जपस्तपो दानं त्रेतायां धर्म उच्यते।
क्रिया धर्मश्च ह्रसते सत्यधर्मः प्रवर्त्तते ।। ५७.६३ ।।
प्रजायन्ते ततः शूरा आयुष्मन्तो महाबलाः।
न्यस्तदण्डमहाभागा यज्वानो ब्रह्मवादिनः ।। ५७.६४ ।।
पद्म पत्रायताक्षाश्च पृथूरस्काः सुसंहिताः।
सिंहान्तका महासत्त्वा मत्तमातङ्गगामिनः ।। ५७.६५ ।।
महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्तिनः।
सर्वलक्षणसम्पन्ना न्यग्रोधपरिमण्डलाः ।। ५७.६६ ।।
न्यग्रोधौ तौ स्मृतौ बाहू व्यामो न्यग्रोध उच्यते।
वामेनैवोच्छ्रयाद्यस्य सम ऊर्द्ध्वन्तु देहिनः।
समुच्छ्रयः परीणाहो ज्ञेयो न्यग्रोधमण्डलः ।। ५७.६७ ।।
चक्रं रथो मणिर्भार्या निधिरश्चागजास्तथा।
सप्तातिशयरत्नानि सर्वेषाञ्चक्रवर्त्तिनाम् ।। ५७.६८ ।।

चक्रवर्ती

चक्रं रथो मणिः खङ्गं धनूरत्नञ्च पञ्चमम्।
केतुर्निधिश्च सप्तैते प्राणहीनाः प्रकीर्त्तिताः ।। ५७.६९ ।।
भार्या पुरोहितश्चैव सेनानी रथकृच्च यः।
मन्त्र्यश्वः कलभश्चैव प्राणिनः सम्प्रकीर्त्तिताः ।। ५७.७० ।।
रत्नान्येतानि दिव्यानि संसिद्धानि महात्मनाम्।
चतुर्दश विधेयानि सर्वेषां चक्रवार्तिनाम् ।। ५७.७१ ।।
विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्त्तिनः।
मन्वन्तरेषु सर्वेषु अतीतानागतेषु वै ।। ५७.७२ ।।
भूतभव्यानि यानीह वर्त्तमानानि यानि च।
त्रेतायुगादिकेष्वत्र जायन्ते चक्रवर्त्तिनः ।। ५७.७३ ।।
भद्राणीमानि तेषां वै भवन्तीह महीक्षिताम्।
अद्भुतानि च चत्वारि बलं धर्मः सुखं धनम् ।। ५७.७४ ।।
अन्योन्यस्याविरोधेन प्राप्यन्ते वै नृपैः समम्।
अर्थो धर्मश्च कामश्च यशो विजय एव च ।। ५७.७५ ।।
ऐश्वर्येणाणिमाद्येन प्रभुशक्त्या तथैव च।
अन्येन तपसा चैव ऋषीनभिभवन्ति च।
बलेन तपसा चैव देवदानवामानुषान् ।। ५७.७६ ।।
लक्षणैश्चापि जायन्ते शरीरस्थैरमानुषैः।
केशस्थिता ललाटोर्णा जिह्वा चास्यप्रमार्जनी।
ताम्रप्रभोष्ठदन्तोष्ठाः श्रीवत्साश्चोर्द्ध्वरोमशाः ।। ५७.७७ ।।
आजानुबाहनश्चैव जालहस्ता वृषाङ्किताः।
न्यग्रोधपरिणाहाश्च सिंहस्कन्धाः सुमेहनाः ।
गजेन्द्रगतयश्चैव महाहनव एव च ।। ५७.७८ ।।
पादयोश्चक्रमत्स्यौ तु शङ्खपद्मौ तु हस्तयोः।
पञ्चाशीतिसहस्राणि ते भवन्त्यजरा नृपाः ।। ५७.७९ ।।
असङ्गा गतयस्तेषां चतस्रश्चक्रवर्त्तिनाम्।
अन्तरिक्षे समुद्रे च पाताले पर्वतेषु च ।। ५७.८० ।।
इज्या दानं तपः सत्यं त्रेतायां धर्म उच्यते ।
तदा प्रवर्त्तते धर्मो वर्णाश्रमविभागशः ।। ५७.८१ ।।
मर्यादास्थापनार्थं च दण्डनीतिः प्रवर्त्तते ।
हृष्टपुष्टाः प्रजाः सर्वा ह्यरोगाः पूर्णमानसाः ।। ५७.८२ ।।
एको वेदश्चतुष्पादस्त्रेतायुगविधौ स्मृतः।
त्रीणि वर्षसहस्राणि तदा जीवन्ति मानवाः ।। ५७.८३ ।।
पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण तु ।
एष त्रेतायुगे धर्मस्त्रेतासन्धौ निबोधत ।। ५७.८४ ।।
त्रेतायुग स्वभावस्तु सन्ध्यापादेव वर्त्तते ।
सन्ध्यायां वै स्वभावस्तु युगपादेन तिष्ठति ।। ५७.८५ ।।
।।शांशपायन उवाच।।
कथं त्रेतायुगमुखे यज्ञस्यासीत्प्रवर्तनम्।
पूर्वं स्वायम्भुवे सर्गे यथावत्तद्ब्रवीहि मे ।। ५७.८६ ।।
अन्तर्हितायां सन्ध्यायां सार्द्धं कृतयुगेन वै।
कलाख्यायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा।
वर्णाश्रमव्यवस्थानं कृतवन्तश्च वै पुनः ।। ५७.८७ ।।
सम्भारांस्तां श्च सम्भृत्य कथं यत्रः प्रवर्तितः।
एतच्छ्रुत्वाब्रवीत्सूतः श्रूयतां शांशपायन ।। ५७.८८ ।।
iयथा त्रेतायुगमुखे यज्ञस्यासीत्प्रवर्तनम्।
ओषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने।
प्रतिष्ठितायां वार्तायां गृहाश्रमपुरेषु च ।। ५७.८९ ।।
वर्णाश्रम व्यवस्थानं कृत्वा मन्त्रांश्च संहिताम्।
मन्त्रान् संयोजयित्वाथ इहामुत्रेषु कर्मसु ।। ५७.९० ।।
तथा विश्वमुगिन्द्रस्तु यज्ञं प्रावर्तयत्तदा।
दैवतैः सहितः सर्वैः सर्वसम्भारसम्भृतम् ।। ५७.९१ ।।
अथाश्वमेधे वितते समाजग्मुर्महर्षयः।
यजन्ते पशुभिर्मेध्यैर्हुत्वा सर्वे समागताः ।। ५७.९२ ।।
कर्मव्यग्रेषु ऋत्विक्षु सतते यज्ञकर्मणि।
सम्प्रगीतेषु तेष्वेवमागमेष्वथ सत्वरम् ।। ५७.९३ ।।
परिक्रान्तेषु लघुषु अध्वर्युवृषभेषु च।
आलब्धेषु च मेध्येषु तथा पशुगणेषु वै ।। ५७.९४ ।।
हविष्यग्नौ हूयमाने देवानां देवहोतृभिः।
आहूतेषु च देवेषु यज्ञभाक्षु महात्मसु ।। ५७.९५ ।।
य इन्द्रियात्मका देवा यज्ञभाजस्तथा तु ये।
तान् यजन्ते तदा देवाः कल्पादिषु भवन्ति ये ।। ५७.९६ ।।
अध्वर्यवः प्रैषकाले व्युत्थिता ये महर्षयः।
महर्षयस्तु तान् दृष्ट्वा दीनान् पशुगणान् स्थितान् ।
पप्रच्छुरिन्द्रं सम्भूय कोऽयं यज्ञविधिस्तव ।। ५७.९७ ।।
अधर्मो बलवानेष हिंसाधर्मेप्सया तव।
नेष्टः पशुवधस्त्वेष तव यज्ञे सुरोत्तम ।। ५७.९८ ।।
अधर्मो धर्मगाताय प्रारब्धः पशुभिस्त्वया।
नायं धर्मो ह्यधर्मोऽयं न हिंसा धर्म उच्यते ।। ५७.९९ ।।
आगमेन भवान् यज्ञं करोतु यदिहेच्छसि।
विधिदृष्टेन यज्ञेन धर्ममव्ययहेतुना।
यज्ञबीजैः सुरश्रेष्ठ येषु हिंसा न विद्यते ।। ५७.१०० ।।
त्रिवर्षपरमं कालमुषितैरप्ररोहिभिः।
एष धर्मो महानिन्द्र स्वयम्भुविङितः पुरा ।। ५७.१०१ ।।
एवं विश्वभुगिन्द्रस्तु मुनिभिस्तत्त्वदर्शिभिः।
जङ्गमैः स्थावरैर्वेति कैर्यष्टव्यमिहोच्यते ।। ५७.१०२ ।।
ते तु खिन्ना विवादेन तत्त्वयुक्ता महर्षयः।
सन्धाय वाक्यमिन्द्रेण प्रपच्छुश्चेश्वरं वसुम् ।। ५७.१०३ ।।
।।ऋषय ऊचुः।।
महाप्राज्ञ कथं दृष्टस्त्वया यज्ञविधिर्नृप।
उत्तानपादे प्रब्रूहि संशयं छिन्धि नः प्रभो ।। ५७.१०४ ।।
श्रुत्वा वाक्यं ततस्तेषामविचार्य बलाबलम्।
वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह।
यथोपदिष्टैर्यष्टव्यमिति होवाच पार्थिवः ।। ५७.१०५ ।।
यष्टव्यं पशुभिर्मेध्यैरथ बीजैः फलैस्तथा।
हिंसास्वभावो यज्ञस्य इति मे दर्शयत्यसौ ।। ५७.१०६ ।।
यथेह संहितामन्त्रा हिंसालिङ्गा महर्षिभिः।
दीर्घेण तपसा युक्तैर्दर्शनैस्तारकादिभिः।
तत्प्रामाण्यान्मया चोक्तं तस्मान्मा मन्तुमर्हथ ।। ५७.१०७ ।।
यदि प्रमाणं तान्येव मन्त्रवाक्यानि वै द्विजाः ।
तदा प्रावर्त्तता यज्ञो ह्यन्यथा नोऽनृतं वचः।
एवं हृतोत्तरास्ते वै युक्तात्मानस्तपोधनाः ।। ५७.१०८ ।।
अधस्व भवनं दृष्ट्वा तमर्थं वाग्यतो भव।
मिथ्यावादी नृपो यस्मात् प्रविवेश रसातलम् ।। ५७.१०९ ।।
इत्युक्तमात्रे नृपतिः प्रविवेश रसातलम्।
ऊर्द्ध्वचारी वसुर्भूत्वा रसातलचरोऽभवत् ।। ५७.११० ।।
वसुधातलवासी तु तेन वाक्येन सोऽभवत्।
धर्माणां संशयच्छेत्ता राजा वसुरथागतः ।। ५७.१११ ।।
तस्मान्न वाच्यमेकेन बहुज्ञेनापि संशयः।
बहूद्धारस्य धर्मस्य सूक्ष्माद्‌दूरमुपागतिः ।। ५७.११२ ।।
तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यस्तु केनचित्।
देवानृषीनुपादाय स्वायम्भुवमृते मनुम् ।। ५७.११३ ।।
तस्मान्न हिंसाधर्मस्य द्वारमुक्तं महर्षिभिः।
ऋषिकोटिसहस्राणि कर्मभिः स्वैर्दिवं ययुः ।। ५७.११४ ।।
तस्मान्न दानं यज्ञं वा प्रशंसन्ति महर्षयः।
तुच्छं मूलं फलं शाकमुदपात्रं तपोधनाः।
एवं दत्त्वा विभवतः स्वर्गलोके प्रतिष्ठिताः ।। ५७.११५ ।।
अद्रोहश्चाप्यलोभश्च दमो भूतदया तपः।
ब्रह्मचर्यं तथा सत्यमनुक्रोशः क्षमा धृतिः।
सनातनस्य धर्मस्य मूलमेतद्दुरासदम् ।। ५७.११६ ।।
धर्ममन्त्रात्मको यज्ञस्तपश्चानशनात्मकम्।
यज्ञेन देवानाप्नोति वैराग्यं तपसा पुनः ।। ५७.११७ ।।
ब्राह्मण्यं कर्मसंन्यासाद्वैराग्यात् प्रेक्षते लयम्।
ज्ञानात् प्राप्नोति कैवल्यं पञ्चैता गतयः स्मृताः ।। ५७.११८ ।।
एवं विवादः सुमहान् यज्ञस्यासीत् प्रवर्त्तने।
ऋषीणां देवतानाञ्च पूर्वं स्वायम्भुवेऽन्तरे ।। ५७.११९ ।।
ततस्ते ऋषयो दृष्ट्वाद्भुतं वर्त्म बलेन तु।
वसोर्वाक्यमनादृत्य जग्मुस्ते वै यथागताः ।। ५७.१२० ।।
गतेषु देवसङ्घेषु देवा यज्ञमवाप्नुयुः।
श्रूयन्ते हि तपःसिद्धा ब्रह्मक्षत्रमया नृपाः ।। ५७.१२१ ।।
प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः।
सुमेधा विरजाश्चैव शङ्खपाद्रज एव च।
प्राचीनबर्हिः पर्जन्यो हविर्द्धानादयो नृपाः ।। ५७.१२२ ।।
एते चान्ये च बहवो नृपाः सिद्धा दिवं गताः।
राजर्षयो महासत्त्वा येषां कीर्त्तिः प्रतिष्ठिता ।। ५७.१२३ ।।
तस्माद्विशिष्यते यज्ञात्तपः सर्वेषु कारणैः।
ब्रह्मणा तपसा सृष्ट जगद्विश्वमिदं पुरा ।। ५७.१२४ ।।
तस्मान्नात्येति तद्यज्ञं तपोमूलमिदं स्मृतम्।
यज्ञप्रवर्त्तनं ह्येवमतः स्वायम्भुवेऽन्तरे।
ततःप्रभृति यज्ञोऽयं युगैः सह व्यवर्त्तत ।। ५७.१२५ ।।
इति श्रीमहापुराणे वायुप्रोक्ते यज्ञप्रवर्त्तनं नाम सप्तपञ्चाशोऽध्यायः ।। ५७ ।।

[सम्पाद्यताम्]

श्लोक ५७.७० - द्र. शतपथ ब्राह्मणम् ५.३.१