वायुपुराणम्/पूर्वार्धम्/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४ वायुपुराणम्
अध्यायः २५
वेदव्यासः
अध्यायः २६ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।।सूत उवाच।।
संपिबन्निव तौ दृष्ट्वा मधुपिङ्गायतेक्षणः ।
प्रहृष्टवदनोऽत्यर्थमभवच्च स्वकीर्त्तनात् ।। २५.१ ।।

उमापतिर्विरूपाक्षो दक्षयज्ञविनाशनः।
पिनाकी खण्डपरशुर्भूतप्रान्तस्त्रिलोचनः ।। २५.२ ।।

ततः स भगवान् देवः श्रुत्वा वाक्यामृतं तयोः।
जानन्नपि महाभागः प्रीतपूर्वमथाब्रवीत् ।। २५.३ ।।

कौ भवन्तौ महात्मानौ परस्परहितैषिणौ।
समेतावम्बुजाभाक्षौ तस्मिन् घोरे जलप्लवे ।। २५.४ ।।

तावूचतूर्महात्मानौ सन्निरीक्ष्य परस्परम्।
भगवन् किञ्च तथ्येन विज्ञातेन त्वया विभो।
कुत्र वा सुखमानन्त्यमिच्छाचारमृते त्वया ।। २५.५ ।।

उवाच भगवान् देवो मधुरश्लक्ष्णया गिरा।
भो भो हिरण्यगर्भ त्वां त्वां च कृष्ण वदाम्यहम् ।। २५.६ ।।

प्रीतोऽहमनया भक्त्या शाश्वताक्षरयुक्तया।
भवन्तौ माननीयौ वै मम ह्यर्हतरावुभौ।
युवाभ्यां किं ददाम्यद्य वराणां वरमुत्तमम् ।। २५.७ ।।

तेनैवमुक्ते वचने ब्रह्माणं विष्णुरब्रवीत् ।
ब्रूहि ब्रूहि महाभाग वरो यस्ते विवक्षितः ।। २५.८ ।।

प्रजाकामोऽस्म्यहं विष्णो पुत्रमिच्छामि धूर्वहम्।
ततः स भगवान् ब्रह्मा वेरप्सुः पुत्रलिप्सया ।। २५.९ ।।

अथ विष्णुरुवाचेदं प्रजाकामं प्रजापतिम्।
वीरमप्रतिमं पुत्रं यत्त्वमिच्छसि धूर्वहम् ।। २५.१० ।।

पुत्रत्वेनाभियुङ्क्ष्व त्वं देवदेवं महेश्वरम्।
सतस्य वाक्यं संपूज्य केशवस्य पितामहः ।। २५.११ ।।

ईशानं वरदं रुद्रमभिवाद्य कृताञ्जलिः ।
उवाच पुत्रकामस्तु वाक्यानि सह विष्णुना ।। २५.१२ ।।

यदि मे भगवान् प्रीतः पुत्रकामस्य नित्यशः।
पुत्रो मे भव विश्वात्मन् स्वतुल्यो वापि धूर्व्वहः।
नान्यं वरमहं वव्रे प्रीते त्वयि महेश्वर ।। २५.१३ ।।

तस्य तां प्रार्थनां श्रुत्वा भगवान् भगनेत्रहा।
निष्कल्मषममायञ्च बाढमित्यब्रवीद्वचः ।। २५.१४ ।।

यदा कार्यसमारम्भे कस्मिंश्चित्तव सुव्रत।
अनिष्णत्तौ च कार्यस्य क्रोधस्त्वां समुपेष्यति।
आत्मैकादश ये रुद्रा विहिताः प्राण हेतवः ।। २५.१५ ।।

सोऽहमेकादशात्मा वै शूलहस्तः सहानुगः।
ऋषिर्म्मित्रो महात्मा वै ललाटाद्भविता तदा ।। २५.१६ ।।

प्रसादमतुलं कृत्वा ब्रह्मणस्तादृशं पुरा।
विष्णुं पुनरुवाचेदं ददामि च वरन्तव ।। २५.१७ ।।

स होवाच महाभागो विष्णुर्भवमिदं वचः।
सर्व्वमेतत् कृतं देव परितुष्टोऽसि मे यदि।
त्वयि मे सुप्रतिष्ठाऽस्तु भक्तिरम्बुदवाहन ।। २५.१८ ।।

एवमुक्तस्ततो देवस्तमभाषत केशवम्।
विष्णो श्रृणु यथा देव प्रीतोऽहन्तव शाश्वत ।। २५.१९ ।।

प्रकाशञ्चाप्रकाशञ्च जङ्गमं स्थावरञ्च यत् ।
विश्वरूपमिदं सर्व्वं रुद्रनारायणात्मकम् ।। २५.२० ।।

अहमग्निर्भवान् सोमो भवान् रात्रिरहं दिनम्।
भवानृतमहं सत्यं भवान् क्रतुरहं फलम् ।। २५.२१ ।।

भवान् ज्ञानमहं ज्ञेयं यज्जपित्वा सदा जनाः ।
मां विशन्ति त्वयि प्रीते जनाः सुकृतकारिणः।
आवाभ्यां सहिता चैव गतिर्नान्या युगक्षये ।। २५.२२ ।।

आत्मानं प्रकृतिं विद्धि मां विद्धि पुरुषं शिवम्।
भवानर्द्धशरीरं मे त्वहन्तव यथैव च ।। २५.२३ ।।

वामपार्श्वमहम्मह्यं श्यामं श्रीवत्सलक्षणम् ।
त्वञ्च वामेतरं पार्श्वं त्वहं वै नीललोहितः ।। २५.२४ ।।

त्वञ्च मे ह्वदयं विष्णो तव चाहं हृदि स्थितः।
भवान् सर्व्वस्य कार्यस्य कर्त्ताहमधिदैवतम् ।। २५.२५ ।।

तदेहि स्वस्ति ते वत्स गमिष्याम्यम्बुदप्रभ।
एवमुक्त्वा गतो विष्णोर्देवोऽन्तर्द्धानमीश्वरः ।। २५.२६ ।।

ततः सोऽन्तर्हिते देवे संप्रहृष्टस्तदा पुनः।
अशेत शयने भूप प्रविश्यान्तर्जले हरिः ।। २५.२७ ।।

तं पझं पझगर्भाभं पझाक्षः पझसम्भवः।
सम्प्रहृष्टमना ब्रह्मा भेजे ब्राह्मं तदासनम् ।। २५.२८ ।।

अथ दीर्घण कालेन तत्राप्यप्रतिमावुभौ।
महाबलौ महासत्त्वौ भ्रातरौ मधुकैटभौ ।। २५.२९ ।।

ऊचतुश्वैव वचनं भक्ष्यो वै नौ भविष्यसि ।
एवमुक्त्वा तु तौ तस्मिन्नन्तर्द्धानं गतावुभौ ।। २५.३० ।।

दारुणन्तु तयोर्भावं ज्ञात्वा पुष्करसम्भवः ।
माहात्म्यं चात्मनो बुद्ध्वा विज्ञातुमुपचक्रमे ।। २५.३१ ।।

कर्णिकाघटनं भूयो नाभ्यजानाद्यदा गतिम्।
ततः स पझनालेन अवतीर्य्य रसातलम्।
कृष्णा जिनोत्तरासङ्गन्ददृशोऽन्तर्जले हरिम् ।। २५.३२ ।।

स च तं बोधयामास विबुद्धं चेदमब्रवीत् ।
भूतेभ्यो मे भयं देव त्रायस्वौ त्तिष्ठ शङ्कुरु ।। २५.३३ ।।

ततः स भगवान् विष्णुः सप्रहासमरिन्दमः।
न भेतव्यं न भेतव्यमित्युवाच मुनिः स्वयम् ।। २५.३४ ।।

तस्मात्पूर्वं त्वया चोक्तं भूतेभ्यो मे महद्भयम्।
तस्माद्भूतादिवा क्यैस्तौ दैत्यौ त्वं नाशयिष्यसि ।। २५.३५ ।।

भूर्भूवःस्वस्ततो देवं विविशुस्तमयोनिजम् ।
ततः प्रदक्षिणं कृत्वा तमेवासीनमागतम् ।। २५.३६ ।।

गते तस्मिंततोऽनन्त उद्गीर्य भ्रातरौ मुखात्।
विष्णुं जिष्णुञ्च प्रोवाच ब्रह्माणमभिरक्षराम्।
मधुकैटभयोर्ज्ञात्वा तयोरागमनं पुनः ।। २५.३७ ।।

चक्राते रूप सादृश्यं विष्णोर्जिष्णोश्च सत्तमौ।
कृतसादृश्यरूपौ तौ तावेवाभिमुखौ स्थितौ ।। २५.३८ ।।

ततस्तौ प्रोचतुर्द्दैत्यौ ब्रह्माणं दारुणं वचः।
अस्माकं युध्यमानानां मध्ये वै प्राश्रिको भव ।। २५.३९ ।।

ततस्तौ जलमाविश्य संस्तम्भ्यापः स्वमायया ।
चक्रतुस्तुमुलं युद्धं यस्य येनेप्सितं तदा ।। २५.४० ।।

तेषान्तु युध्य मानानां दिव्यं वर्षशतङ्गतम्।
न च युद्धमदोत्सेको ह्यन्योन्यं संन्यवर्त्तत ।। २५.४१ ।।

लक्षणद्वयसंस्थानाद्रूपवन्तौ स्थितेङ्गितौ।
सादृश्याद्व्याकुलमना ब्रह्मा ध्यानमुपागमत् ।। २५.४२ ।।

स तयोरन्तरं बुद्ध्वा ब्रह्म दिव्येन चक्षुषा।
पझकेसरजं सूक्ष्मं बबन्ध कवचन्तयोः।
आमेखलञ्च गात्रञ्च ततो मन्त्रमुदाहरत् ।। २५.४३ ।।

जपतस्त्वभवत्कन्या विश्वरूपसमुत्थिता।
पझेन्दुवदनप्रख्या पद्महस्ता शुभा सती।
तां दृष्ट्वा व्यथितौ दैत्यौ भयाद्वर्णविवर्ज्जितौ ।। २५.४४ ।।

ततः प्रोवाच तां कन्यां ब्रह्मा मधुरया गिरा।
काऽत्र त्वमवगन्तव्या ब्रूहि सत्यमनिन्दिते ।। २५.४५ ।।

साम्ना संपूज्य सा कन्या ब्रह्माणं प्राञ्जलिस्तदा ।
मोहिनीं विद्धि मां मायां विष्णोः सन्देशकारिणीम् ।। २५.४६ ।।

त्वया सङ्कीर्त्त्यमानाऽहं ब्रह्मन् प्राप्ता त्वरायुता।
अस्याः प्रीतमना ब्रह्मा गौणं नाम चकार ह ।। २५.४७ ।।

मया च व्याहृता यस्मात्तवञ्चैव समुपस्थिता।
महाव्याहृतिरित्येव नाम ते विचरिष्यति ।। २५.४८ ।।

इत्थिता च शिरो भित्त्वा सावित्री तेन चोच्यते।
एकानंशात्तु यस्मात्तवमनेकांशा भविष्यसि ।। २५.४९ ।।

गौणानि तावदेतानि कर्मजान्यपराणि च।
नामानि ते भविष्यन्ति मत्प्रसादात् शुभानने ।। २५.५० ।।

ततस्तौ पीड्यमानौ तु वरमेनमयाचताम्।
अनावृतं नौ मरणं पुत्रत्वञ्च भवेत्तव ।। २५.५१ ।।

तथेत्युक्त्वा ततस्तूर्णमनयत् यमसादनम्।
अनयत् कैटभं विष्णुर्जिष्णुश्चाप्यनयन्मधुम् ।। २५.५२ ।।

एवन्तौ निहतौ दैत्यौ विष्णुना जिष्णुना सह।
प्रीतेन ब्रह्मणा चाथ लोकानां हितकाम्यया ।। २५.५३ ।।

पुत्रत्वमीशेन यथा ह्यात्मा दत्तो निबोधत।
विष्णुना जिष्णुना सार्द्धं मधुकैटभयोस्तथा।
सम्पराये व्यतिकान्ते ब्रह्मा विष्णुमभाषत ।। २५.५४ ।।

अद्य वर्षशतं पूर्णं समयः प्रत्युपस्थितः।
संक्षेपसंप्लवङ्घोरं स्वस्थानं यामि चाप्यहम् ।। २५.५५ ।।

स तस्य वचसा देवः संहारमकरोत्तदा।
महीं निस्थावरां कृत्वा प्रकृतिस्थांश्च जङ्गमान् ।। २५.५६ ।।

यदि गोविन्द भद्रन्ते क्षिप्तस्ते यादसां पतिः।
ब्रूहि यत् करणीयं स्यान्मया ते लक्ष्मि वर्द्धन ।। २५.५७ ।।

बाढं श्रृणु हेमाभ पझयोने वचो मम ।
प्रसादो यस्त्वया लब्ध ईश्वरात् पुत्रलिप्सया ।। २५.५८ ।।

तन्तथा सफलं कृत्वा मत्तोऽभूदनृणो भवान्।
चतुर्विधानि भूतानि सृज त्वं विसृजस्व वा ।। २५.५९ ।।

अवाप्य संज्ञाङ्गोविन्दात् पझयोनिः पितामहः।
प्रजाः स्रष्टुमनास्तेपे तप उग्रं ततो महत् ।। २५.६० ।।

तस्यैवन्तप्यमानस्य न किञ्चित्समवर्त्तत।
ततो दीर्घेण कालेन दुःखात् क्रोधो व्यवर्द्धत ।। २५.६१ ।।

सक्रोधाविष्टनेत्रभ्यामपतन्नश्रुबिन्दवः ।
ततस्तेभ्योऽश्रुबिन्दुभ्यो वातपित्तकफात्मकाः ।। २५.६२ ।।

महाभागा महासत्त्वाः स्वस्तिकैरभ्यलङ्कृताः।
प्रकीर्णकेशाः सर्पास्ते प्रादुर्भूता महाविषाः ।। २५.६३ ।।

सर्पांस्तथाग्रजान् दृष्ट्वा ब्रह्मात्मानमनिन्दत।
अहो धिक् तपसा मह्यं फलमीदृशकं यदि।
लोकवैनाशिकी जज्ञे आदावेव प्रजा मम ।। २५.६४ ।।

तस्य तीव्राभवन्मूर्च्छा क्रोधामर्षसमुद्भवा।
मूर्च्छाभितापेन तदा जहौ प्राणान् प्रजापतिः ।। २५.६५ ।।

तस्याप्रतिमवीर्यस्य देहात् कारुण्यपूर्वकम्।
आत्मैकादश ते रुद्राः प्रोद्भूता रुदतस्तथा।
रोदनात् खलु रुद्रास्ते रुद्रत्वं तेन तेषु तत् ।। २५.६६ ।।

ये रुद्राः खलु ते प्राणा ये प्राणास्ते तदात्मकाः।
प्राणाः प्राणभृतां ज्ञेयाः सर्वभूतेष्ववस्थिताः ।। २५.६७ ।।

अत्युग्रस्य महत्त्वस्य साधुना चरितस्य च।
तस्य प्राणान् ददौ भूयस्त्रिशूली नीललोहितः।
ललाटात् पझयोनेस्तु प्रभुरेकादशात्मकः ।। २५.६८ ।।

ब्रह्मणः सोऽददात् प्राणानात्मजः स तदा प्रभुः।
प्रहृष्टवदनो रुद्रः किंचित् प्रत्यागतासवम्।
अभ्यभाषत्तदा देवो ब्रह्माणं परमं वचः ।। २५.६९ ।।

उपयाचस्व मां ब्रह्मन् स्मर्त्तुमर्हसि चात्मनः।
मां च वेत्थात्मजं रुद्रं प्रसादं कुरु मे प्रभो ।। २५.७० ।।

श्रत्वा त्विदं वचस्तस्य प्रभूतञ्च मनोगतम्।
पितामहः प्रसन्नात्मा नेत्रे फुल्लाम्बुजप्रभैः ।। २५.७१ ।।

ततः प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा।
उवाच भगवान् ब्रह्मा शुद्धजाम्बूनदप्रभः ।। २५.७२ ।।

भो भो वद महाभाग आनन्दयसि मे मनः।
को भवान् विश्वभूतिस्त्वं स्थित एकादशात्मकः ।। २५.७३ ।।

एवमुक्तो भगवता ब्रह्मणाऽनन्ततेजसा।
ततः प्रत्यवदद्रुद्रो ह्यभिवाद्यात्मजैः सह ।। २५.७४ ।।

यत्ते वरमहं ब्रह्मन् याचितो विष्णुना सह।
पुत्रो मे भव देवेति त्वत्तुल्यो वापि धूर्वहः ।। २५.७५ ।।

लोकेषु विश्रुतैः कार्यं सर्वैर्विश्वात्मसम्भवैः।
विषादन्त्यज देवेश लोकांस्त्वं स्रष्टुमर्हसि ।। २५.७६ ।।

एवं स भगवानुक्तो ब्रह्मा प्रीतमनाभवत् ।
रुद्रं प्रत्यवदद्भूयो लोकान्ते नीललोहितम् ।। २५.७७ ।।

साहाय्यं मम कार्यार्थं प्रजाः सृज मया सह।
बीजी त्वं सर्वभूतानां तत्प्रपन्नस्तथा भव।
बाढमित्येव तां वाणीं प्रतिजग्राह शङ्करः ।। २५.७८ ।।

ततः स भगवान् ब्रह्मा कृष्णाजिनविभूषितः।
मनोऽग्रे सोऽसृजद्देवो भूतानां धारणां ततः।
जिह्वां सरस्वतीञ्चैव ततस्तां विश्वरूपिणीम् ।। २५.७९ ।।

भृगुमङ्गिरसं दक्षं पुलस्त्यं पुलहं क्रतुम्।
वसिष्ठञ्च महातेजाः ससृजे सप्त मानसान् ।। २५.८० ।।

पुत्रानात्मसमानन्यान् सोऽसृजद्विश्वसम्भवान् ।
तेषां भूयोऽनुमार्गेण गावो वक्राद्विजज्ञिरे ।। २५.८१ ।।

ओङ्कारप्रमुखान् वेदानभिमान्याश्च देवताः।
एवमेतान् यताप्रोक्तान् ब्रह्मा लोकपितामहः ।। २५.८२ ।।

दक्षाद्यान् मानसान् पुत्रान् प्रोवाच भगवान् प्रभुः।
प्रजाः सृजत भद्रं वो रुद्रेण सह धीमता ।। २५.८३ ।।

अनुगम्य महात्मानं प्रजानां पतयस्तदा।
वयमिच्छामहे देव प्रजाः स्रष्टुं त्वया सह।
ब्रह्मणस्त्वेष सन्देशस्तव चैव महेश्वर ।। २५.८४ ।।

तैरेवमुक्तो भगवान् रुद्रः प्रोवाच तान् प्रभुः।
ब्रह्मणश्चात्मजा मह्यं प्राणान् गृह्य च वै सुराः ।। २५.८५ ।।

कृत्वाग्रजाग्रजानेतान् ब्राह्मणानात्मजान्मम।
ब्रह्मादिस्तम्बपर्यन्तान् सप्तलोकान्ममात्मकान्।
भवन्तः स्रष्टुमर्हन्ति वचनान्मम स्वस्ति वः ।। २५.८६ ।।

तेनैवमुक्ताः प्रत्यूचुः रुद्रमाद्यन्त्रिशूलिनम्।
यथाज्ञापयसे देव तथा तद्वै भविष्यति ।। २५.८७ ।।

अनुमान्य महादेवं प्रजानां पतयस्तदा।
ऊचुर्दक्षं महात्मानं भवान् श्रेष्ठः प्रजापतिः।
त्वां पुरस्कृत्य भद्रन्ते प्रजाः स्रक्ष्यामहे वयम् ।। २५.८८ ।।

एवमस्त्विति वै दक्षः प्रत्यपद्यत भाषितम्।
तैः सह स्रष्टुमारेभे प्रजाकामः प्रजापतिः।
सर्गस्थिते ततः स्थाणौ ब्रह्मा सर्गमथासृजत् ।। २५.८९ ।।

अथास्य सप्तमेऽतीते कल्पे वै सम्बभूवतुः।
ऋभुः सनत्कुमारश्च तपो लोकनिवासिनौ।
ततौ महर्षीनन्यान् स मानसानसृजत् प्रभुः ।। २५.९० ।।

इति श्रीमहापुराणे वायुप्रोक्ते मधुकैटभोत्पत्तिविनाशवर्णनं नाम पञ्चविंशोऽ ध्यायः ।। २५ ।।