वायुपुराणम्/पूर्वार्धम्/अध्यायः ५२

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ५१ वायुपुराणम्
अध्यायः ५२
वेदव्यासः
अध्यायः ५३ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१


।।सूत उवाच।।
स रथोऽधिष्ठितो देवैरादित्यैऋषिभिस्तथा।
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ।। ५२.१ ।।

एते वसन्ति वै सूर्ये द्वौ द्वौ मासौ क्रमेण तु।
धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापतिः ।। ५२.२ ।।

उरगो वासुकिश्चैव सङ्कीर्णारश्च तावुभौ।
तुम्बुरुर्नारदश्चैव गन्धर्वौ गायतां वरौ ।। ५२.३ ।।

क्रतुस्थल्यप्सराश्चैव तथा वै पुञ्जिकस्थली।
ग्रामणी रथकृच्छ्रश्च तपोर्यश्चैव तावुभौ ।। ५२.४ ।।

रक्षो हेतिः प्रहेतिश्च यातुधानावुदाहृतौ।
मधुमाधवयोरेष गणो वसति भास्करे ।। ५२.५ ।।

वासन्तौ ग्रैष्मिकौ मासौ मित्रश्च वरुणश्च ह।
ऋषिरत्रिर्वसिष्ठश्च तक्षको रम्भ एव च ।। ५२.६ ।।

मेनका सहजन्या च गन्धर्वौ च हहा हुहूः।
रथस्वनश्च ग्रामण्यो रथचित्रश्च तावुभौ ।। ५२.७ ।।

पौरुषेयो धवश्चैव यातुधानावुदाहृतौ।
एते वसन्ति वै सूर्ये मासयोः शुचिशुक्रयोः ।। ५२.८ ।।

ततः सूर्ये पुनस्त्वन्या निवसन्तीह देवताः।
इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च ।। ५२.९ ।।

एलापर्णस्तथा सर्पः शङ्खपालश्च तावुभौ।
विश्वावसूग्रसेनौ च प्रातश्चैवारुणश्च ह ।। ५२.१० ।।

प्रम्लोचेति च विख्याता निम्लोचेति च ते उभे।
यातुधानस्तथा सर्पो व्याघ्रः श्वेतश्च तावुभौ।
नभोनभस्ययोरेष गणो वसति भास्करे ।। ५२.११ ।।

शरदृ-तौ पुनः शुभ्रा वसन्ति मुनि देवताः।
पर्ज्जन्यश्चाथ पूषा च भरद्वाजः सगौतमः ।। ५२.१२ ।।

विश्वावसुश्च गन्धर्वास्तथैव सुरभिश्च यः।
विश्वाची च घृताची च उभे ते शुभलक्षणे ।। ५२.१३ ।।

नाग ऐरावतश्चैव विश्रुतश्च धनञ्जयः।
सेनजिच्च सुषेणशचव सेनानीर्ग्रामणीश्च तौ ।। ५२.१४ ।।

आपो वातश्च तावेतौ यातुधानावुभौ स्मृतौ।
वसन्त्येते तु वै सूर्ये मासयोश्च इषोर्जयोः ।। ५२.१५ ।।

हैमन्तिकौ तु द्वौ मासौ वसन्ति तु दिवाकरे।
अंशो भगश्च द्वावेतौ कश्यपश्च ऋतुश्च ह ।। ५२.१६ ।।

भुजङ्गश्च महापझः सर्पः कर्कोटकस्तथा।
चित्रसेनश्च गन्धर्व ऊर्णायुश्चैव तावुभौ ।। ५२.१७ ।।

उर्वशी विप्रचित्तिश्च तथैवाप्सरसौ शुभे।
तार्क्ष्यश्चारिष्टनेमिश्च सेनानीर्ग्रामणीश्च तौ ।। ५२.१८ ।।

विद्युत्स्फूर्ज्जश्च तावुग्रौ यातुधानावुदाहृतौ।
सहे चैव सहस्ये च वसन्त्येते दिवाकरे ।। ५२.१९ ।।

ततः शैशिरयोश्वापि मासयोर्निवसन्ति वै।
त्वष्टा विष्णुर्जमदग्निर्विश्वामित्रस्तथैव च ।। ५२.२० ।।

काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ।
गन्धर्वो धृतराष्ट्रश्च सूर्यवर्च्चास्तथैव च ।। ५२.२१ ।।

तिलोत्तमाप्सराश्चैव देवी रम्बा मनोरमा।
ऋतजित्सत्यजिच्चैव ग्रामण्यौ लोकविश्रुतौ ।। ५२.२२ ।।

ब्रह्मोपेतस्तथा दक्षो यज्ञोपेतश्च स स्मृतः।
एते देवा वसन्त्यर्के द्वौ मासौ तु क्रमेण तु ।। ५२.२३ ।।

स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः।
सूर्यमाप्याययन्त्येते तेजसा तेज उत्तमम् ।। ५२.२४ ।।

प्रथितैस्तैर्वचोबिस्तु स्तुवन्ति मुनयो रविम्।
गन्धर्वाप्सरसश्चैव गीतनृत्यैरुपासते ।। ५२.२५ ।।

ग्रामणीयक्षभूतास्तु कुर्वते भीमसंग्रहम्।
सर्पा वहन्ति सूर्यञ्च यातुधानानुयान्ति च।
वालखिल्या नयन्त्यस्तं परिचार्योदयाद्रविम् ।। ५२.२६ ।।

एतेषामेव देवानां यतावीर्यं यथातपः।
यथायोगं यथासत्यं यथाधर्मं यताबलम् ।। ५२.२७ ।।

यथा तपत्यसौ सूर्यस्तेषां सिद्धस्तु तेजसा।
इत्येते वै वसन्तीह द्वौ द्वौ मासौ दिवाकरे ।। ५२.२८ ।।

ऋषयो देवगन्धर्वाः पन्नगाप्सरसाङ्गणाः ।
ग्रामण्यश्च तथा यक्षा यातुधानाश्च भूरिशः ।। ५२.२९ ।।

एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च।
भूतानामशुभं कर्म व्यपोहन्तीह कीर्तिताः ।। ५२.३० ।।

मानवानां शुभं ह्येते हरन्ति दुरितात्मनाम्।
दुरितं हि प्रचाराणां व्यपोहन्ति व्कचित् व्कचित् ।। ५२.३१ ।।

विमानेऽवस्थिता दिव्ये कामगा वातरंहसः।
एते सहैव सूर्येण भ्रमन्ति दिवसानुगाः ।। ५२.३२ ।।

वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः।
गोपायन्ति तु भूतानि सर्वानीहामनुक्षयात् ।। ५२.३३ ।।

स्थानाभिमानिनामेतत् स्थानं मन्वन्तरेषु वै।
अतीतानागतानां वै वर्त्तन्ते साम्प्रतन्तु ये ।। ५२.३४ ।।

एवं वसन्ति वै सूर्ये सप्तकास्ते चतुर्द्दिशम्।
चतुर्द्दशसु सर्गेषु गणा मन्वन्तरेषु च ।। ५२.३५ ।।

ग्रीष्मे हिमे च वर्षासु मुञ्चमाना घर्मं हिम़ञ्च वर्षञ्च दिनं निशाञ्च।
कालेन गच्छत्यृतुवशात् परिवृत्तरश्मि र्देवान् पितॄंश्च मनुजांश्च तर्पयन् वै ।। ५२.३६ ।।

प्रीणाति देवानमृतेन सूर्यः सोमं सुषुम्नेन विवर्द्धयित्वा ।
शुक्ले तु पूर्णं दिवसक्रमेण तं कृष्णपक्षे विबुधाः पिबन्ति ।। ५२.३७ ।।

पीतन्तु सोमं द्विकालावशिष्टं कृष्णक्षये रश्मिभिस्तं क्षरन्तम्।
सुधामृतं तत्पितरः पिबन्ति देवाश्च सौम्याश्च तथैव कव्यम् ।। ५२.३८ ।।

सूर्येण गोभिस्तु समुद्धृताभिरद्भिः पुनश्चैव समुद्धृताभिः।
वृष्ट्यातिवृद्धाभिरथौषधीभिर्मर्त्याः क्षुधन्त्वन्नपानैर्जयन्ति ।। ५२.३९ ।।

अमृतेन तृप्तिस्त्वर्द्धमासं सुराणां मासार्द्धतृप्तिः स्वधया पितॄणाम्।
अन्नेन शश्वत्तु दधाति मर्त्यान् सूर्यः स्वयं तच्च बिभर्ति गोभिः ।। ५२.४० ।।

अयं हरिस्तैर्हरिभिस्तुरङ्गमैरयन् हि चापो हरतीति रश्मिभिः।
विसर्गकाले विसृजंश्च ताः पुनर्बिभर्ति शश्वत् सविता चराचरम् ।। ५२.४१ ।।

हरिर्हरिद्भिर्ह्रियते तुरङ्गमैः पिबत्यथापो हरिभिः सहस्रधा।
ततः प्रमुञ्चत्यपि तास्त्वसौ हरिः स मुह्यमानो हरिभिस्तुरङ्गमैः ।। ५२.४२ ।।

इत्येष एकचक्रेण सूर्यस्तूर्णं रथेन तु।
भद्रैस्तैरक्षतैरश्वैः सर्पतेऽसौ दिवि क्षये ।। ५२.४३ ।।

अहोरात्राद्रथैनासौ एकचक्रेण तु भ्रमन्।
सप्तद्वीपसमुद्रान्तं सप्तभिः सप्तभिर्हयैः ।। ५२.४४ ।।

छन्दोभिरश्वरूपैस्तैर्यतश्चक्रन्ततः स्थितैः।
कामरूपैः सकृद्युक्तैरमितैस्तैर्मनोजवैः ।। ५२.४५ ।।

हरितैरव्ययैः पिङ्गैरीश्वरैर्ब्रह्मवादिभिः।
अशीति मण्डलशतं भ्रमन्त्यब्देन ते हयाः ।। ५२.४६ ।।

बाह्यमभ्यन्तरञ्चैव मण्डलं दिवसक्रमात् ।
कल्पादौ सम्प्रयुक्तास्ते वहन्त्याभूतसम्प्लवात्।
आवृता वालखिल्यैस्ते भ्रमन्ते रात्र्यहानि तु ।। ५२.४७ ।।

प्रथितैर्वचोभङिरग्र्यैः स्तूयमानो महर्षिभिः।
सैव्यते गीतवृत्यैश्च गन्धर्वैरप्सरोगणैः।
पतङ्गः पत गैरश्वैर्भ्रममाणो दिवस्पतिः ।। ५२.४८ ।।

वीथ्याश्रयाणि चरति नक्षत्राणि तथा शशी।
ह्रासवृद्धी तथैवास्य रश्मीनां सूर्यवत् स्मृते ।। ५२.४९ ।।

त्रिचक्रोभयपार्श्वस्थो विज्ञेयः शशिनो रथः।
अपां गर्भसमुत्पन्नो रथः साश्वः ससारथिः।
शतारैश्च त्रिभिश्चक्रैर्युक्तः शुल्कैर्हयोत्तमैः ।। ५२.५० ।।

दश भिस्तु कृशैर्दिव्यैरसङ्गैस्तैर्मनोजवैः।
सकृद्युक्ते रथे तस्मिन् वहन्ते चायुगक्षयात् ।। ५२.५१ ।।

संगृहीते रथे तस्मिन् श्वेतश्चक्षुःश्रवास्तु वै।
अश्वा स्तमेकवर्णास्ते वहन्ते शङ्खवर्च्चसम् ।। ५२.५२ ।।

ययुश्च त्रिमनाश्चैव वृषो राजीवलो हयः।
अस्वो वामस्तुरण्यश्च हंसो व्योमी मृगस्तथा ।। ५२.५३ ।।

इत्येते नामभिः सर्वे दश चन्द्रमसो हयाः ।
एते चन्द्रमसं देवं वहन्ति दिवसक्षयात् ।। ५२.५४ ।।

देवैः परिवृतः सौम्यः पितृभिश्चैव गच्छति।
सोमस्य शुक्ल पक्षादौ भास्करे पुरतः स्थिते।
आपूर्यते पुरस्यान्तः सततं दिवसक्रमात् ।। ५२.५५ ।।

देवैः पीतं क्षये सोममाप्याययति नित्यदा।
पीतं पञ्चदशाहन्तु रश्मिनैकेन भास्करः ।। ५२.५६ ।।

आपूरयन् सुषुम्नेन भागं भागमहःक्रमात् ।
सुषुम्नाप्यायमानस्य शुक्ला वर्द्धन्ति वै कलाः ।। ५२.५७ ।।

तस्माद्ध्रसन्ति वै कृष्णे शुक्ल आप्याययन्ति च।
इत्येवं सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः ।। ५२.५८ ।।

पौर्णमास्यां स दृश्येत शुक्लः सम्पूर्णमण्डलः ।
एवमाप्यायितः सोमः शुक्लपक्षे दिनक्रमात् ।। ५२.५९ ।।

ततो द्वितीयाप्रभृति बहुलस्य चतुर्द्दशी।
अपां सारमयस्येन्दो रसमात्रात्मकस्य च।
पिबन्त्यम्बुमयं देवा मधु सौम्यं सुधाम यम् ।। ५२.६० ।।

सम्भृतञ्चार्द्धमासेन अमृतं सूर्यतेजसा ।
भक्षार्थममृतं सौम्यं पौर्णमास्यामुपासते ।। ५२.६१ ।।

एकरात्रं सुरैः सर्वैः पितृभिश्च महर्षिभिः।
सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य च ।। ५२.६२ ।।

प्रक्षीयते पुरस्यान्तः पीयमानाः कलाः क्रमात्।
क्षीयन्ते तस्मात् कृष्णे याः शुक्ले ह्याप्याययन्ति ताः ।। ५२.६३ ।।

एवं दिनक्रमातीते विबुधास्तु निशाकरम् ।
पीत्वाऽर्द्धमासङ्गच्छन्ति अमावास्यां सुरोत्तमाः ।
पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम् ।। ५२.६४ ।।

ततः पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके।
अपराह्ने पितृगणैर्जघन्यः पर्युपास्यते ।। ५२.६५ ।।

पिबन्ति द्विकलाकालं शिष्टा तस्य तु या कला।
निःसृतं तदमावास्याङ्गभस्तिभ्यः स्वधामृतम्।
तां स्वधां मासतृप्त्यै तु पीत्वा गच्छन्ति तेऽमृतम् ।। ५२.६६ ।।

सौम्या बर्हिषदश्चैव अग्निष्वात्तास्तथैव च।
कव्याश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते ।। ५२.६७ ।।

संवत्सरास्तु वै कव्याः पञ्चाब्दा ये द्विजैः स्मृताः।
सौम्यास्तु ऋतवो ज्ञेया मासा बर्हिषदः स्मृताः।
अग्निष्वात्तार्तवश्चैव पितृसर्गा हि वै द्विजाः ।। ५२.६८ ।।

पितृभिः पीयमानस्य पञ्चदश्यां कला तु वै।
यावन्न क्षीयते तस्य भागः पञ्चदश स्तु सः ।। ५२.६९ ।।

अमावस्यान्तदा तस्य अन्तमापूर्यते परम्।
वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृतौ ।। ५२.७० ।।

एवं सूर्यनिमित्तैषा क्षयवृद्धि र्निशाकरे।
ताराग्रहाणां वक्ष्यामि स्वर्भानोश्च रथं पुनः ।। ५२.७१ ।।

तोयतेजोमयः शुभ्रः सोमपुत्रस्य वै रथः।
युक्तो हयैः पिशङ्गैस्तु अष्टाभिर्वातरंहसैः ।। ५२.७२ ।।

सवरूथः सानुकर्षः सूतो दिव्यो रथे महान्।
सोपासङ्गपताकस्तु सध्वजो मेघसन्निभः ।। ५२.७३ ।।

भार्गवस्य रथः श्रीणांस्तेजसा सूर्यसन्निभः।
पृथिवीसम्भवैर्युक्तो नानावर्णैर्हयोत्तमैः ।। ५२.७४ ।।

श्वेतः पिशङ्गः सारङ्गो नीलः पीतो विलोहितः।
कृष्णश्च हरितश्चैव पृषतः पृष्णिरेव च।
दशभि स्तैर्महाभागैरकृशैर्वातवेगितैः ।। ५२.७५ ।।

अष्टाश्वः काञ्चनः श्रीमान् सोमस्यापि रथोऽभवत्।
असङ्गैर्लौहितैरश्वैः सर्वगैरग्निसम्भवैः।
सर्पतेऽसौ कुमारो वै ऋजुवक्रानुचक्रगः ।। ५२.७६ ।।

ततस्त्वाङ्गिरसो विद्वान् देवाचार्यो बृहस्पतिः।
शोणैरश्वैः काञ्चनेन स्यन्दनेन प्रसर्पति ।। ५२.७७ ।।

युक्तस्तु वाजिभिर्दिव्यैरष्टाभिर्वातसम्मितैः।
नक्षत्रेऽन्दन्निवसति सवेगस्तेन गच्छति ।। ५२.७८ ।।

ततः शनैश्वरोप्यश्वैः शबलैर्व्योमसम्भवैः।
कार्ष्णायसं समारुह्य स्यन्दनं याति वै शनैः ।। ५२.७९ ।।

स्वर्भानोस्तु तथैवाश्वाः कृष्णा ह्यष्टौ मनोजवाः।
रथन्तमोमयन्तस्य सकृद्युक्ता वहन्त्युत ।। ५२.८० ।।

आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु।
आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ।। ५२.८१ ।।

अथ केतुरथस्याश्वा अष्टाष्टौ वातरंहसः।
पलालधूमसङ्काशाः शबला रासभारुणाः ।। ५२.८२ ।।

एते वाहा ग्रहाणां वै मया प्रोक्ता रथैः सह।
सर्वे ध्रुवनिबद्धास्ते प्रबद्धा वातरश्मिभिः ।। ५२.८३ ।।

एते वै भ्राम्यमाणास्तु यथा योगं भ्रमन्ति वै।
वायव्याभिरदृश्याभिः प्रबद्धा वातरश्मिभिः ।। ५२.८४ ।।

परिभ्रमन्ति तद्बद्धाश्चन्द्रसूर्यग्रहा दिवि।
भ्रमन्तमनुगच्छन्ति ध्रुवन्ते ज्योतिषां गणाः ।। ५२.८५ ।।

यथा नद्युदके नौस्तु सलिलेन सहोह्यते।
तथा देवालया ह्येते उह्यन्ते वातरश्मिभिः।
तस्मात्सर्वेण दृस्यन्ते व्योम्नि देवगणास्तु ते ।। ५२.८६ ।।

यावन्त्यश्चैव तारास्तु तावन्तो वातरश्मयः।
सर्वा ध्रुवनिबद्धास्ता ब्रमन्त्यो भ्रामयन्ति तम् ।। ५२.८७ ।।

तैलपीडाकरं चक्रं भ्रमद्भ्रामयते यथा।
तथा भ्रमन्ति ज्योतींषि वायबद्धानि सर्वशः ।। ५२.८८ ।।

अलातचक्रवद्यान्ति वातचक्रेरितानि तु।
तस्माज्ज्योतींषि वहते प्रवहंस्तेन स स्मृतः ।। ५२.८९ ।।

एवं ध्रुवनिबद्धोऽसौ सर्पते ज्योतिषां गणः।
सैष तारामयोज्ञेयः शिशुमारो ध्रुवो दिवि।
यदह्ना कुरुते पापं दृष्टवा तं निशि मुच्यते ।। ५२.९० ।।

यावत्यश्चैव तारास्ताः शिशूमाराश्रिता दिवि।
तावन्त्येव तु वर्षाणि जीवन्त्यभ्यधिकानि तु ।। ५२.९१ ।।

शाश्वतः शिशुमारोऽसौ विज्ञेयः प्रविभागशः।
उत्तानपादस्तस्याथ विज्ञेयो ह्युत्तरो हनुः ।। ५२.९२ ।।

यज्ञोऽधरस्तु विज्ञेयो धर्मो मूर्द्धानमाश्रितः।
हृदि नारायणः साध्यः अश्विनौ पूर्वपादयोः ।। ५२.९३ ।।

वरुणश्चार्यमा चैव पश्चिमे तस्य सस्थिनि।
शिश्रः संवत्सरस्तस्य मित्रोऽपाने समाश्रितः ।। ५२.९४ ।।

पुच्छेऽग्निश्च महेन्द्रश्च मरीचिः कश्यपो ध्रुवः।
तारकाः शिशुमारश्च नास्तमेति चतुष्टयम् ।। ५२.९५ ।।

नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणेः सह।
उन्मुखाभिमुखाः सर्वे चक्रीभूताश्रिता दिवि ।। ५२.९६ ।।

ध्रुवेणाधिष्ठिताः सर्वे ध्रुवमेव प्रदक्षिणम् ।
प्रयान्तीह वरं श्रेष्ठमेधीभूतं ध्रुवन्दिवि ।। ५२.९७ ।।

ध्रुवाग्निकश्यपानान्तु वरस्वासौ ध्रुवः स्मृतः।
एक एव भ्रमत्येष मेरुपर्वतमूर्द्धनि ।। ५२.९८ ।।

ज्योतिषाञ्चक्रमेतद्धि सदा कर्षत्यवाङ्मुखः।
मेरुमालोकयत्येष प्रयातीह प्रदक्षिणम् ।। ५२.९९ ।।

इति श्रीमहापुराणे वायुप्रोक्ते ध्रुवचर्या नाम द्विपञ्चाशोऽध्यायः ।। ५२ ।।