वायुपुराणम्/पूर्वार्धम्/अध्यायः ३८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३७ वायुपुराणम्
अध्यायः ३८
वेदव्यासः
अध्यायः ३९ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।।सूत उवाच ।।
अतः परं प्रवक्ष्यामि दक्षिणान्दिशमाश्रिताः।
या द्रोण्यः सिद्धचरिताः शृणु ता ह्यनुपूर्वशः ।। ३८.१ ।।

शिशिरस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च।
श्लक्ष्णभूमिश्रिया युक्तं लतालिङ्गितपादपम् ।। ३८.२ ।।

पृथुक्षेपोच्चशिखरैः पादपैरुपशोभितम्।
उदुम्बरवनं रम्यं पक्षिसङ्घनिषेवितम् ।। ३८.३ ।।

पक्वैर्विद्रुमसङ्काशै र्मधुपूर्णैर्मनोरमैः।
ज्वलितं तद्वनं भाति महाकुम्भोपमैः फलैः ।। ३८.४ ।।

तत् सिद्धयक्षगन्धर्वाः किन्नरा उरगास्तथा।
विद्याधराश्च मुदिता उपजीवन्ति नित्यशः ।। ३८.५ ।।

प्रसन्नस्वादुसलिलास्तत्र नद्यो बहूदकाः।
सुरसामलतोयास्ताः सरांसि च समन्ततः ।। ३८.६ ।।

तत्राश्रमं भगवतः कर्द्दमस्य प्रजापतेः।
रम्यं सुरगणाकीर्णं सर्वतश्चित्रकाननम्।
समन्ताद्योजनशतं तद्वनं परिमण्डलम् ।। ३८.७ ।।

ताम्रवर्णस्य शैलस्य पतङ्गस्यान्तरेण तु।
शतयोजनविस्तीर्णं द्वियोजनशतायतम् ।। ३८.८ ।।

तरुणादित्यसङ्काशैः पुण्डरीकैः समन्ततः।
सहस्रपत्रैर्विकचैर्महापद्मैरलङ्कृतम् ।। ३८.९ ।।

तथा भ्रमरसंलीनैः शतपत्रैः सुगन्धिभिः।
प्रफुल्ल्लैः शोभितजलं रक्तनीलैर्महोत्पलैः ।। ३८.१० ।।

सरोवरं महापुण्यं देवदानवसेवितम्।
महोरगैरध्युषितं नीलजाल विभूषितम् ।। ३८.११ ।।

तस्य मध्ये जनपदो ह्यायतः शतयोजनः।
त्रिंशद्योजनविस्तीर्णो रक्तधातुविभूषितः ।। ३८.१२ ।।

तस्योपरि महारम्या प्रांशु प्राकारतोरणा।
नरनारीगणाकीर्णा स्फीता विभवविस्तरैः ।। ३८.१३ ।।

वलभीकूटनिर्व्यूहैर्मणिभक्तिविचित्रितैः।
रत्नचित्रार्पिततलैः श्लक्ष्णचित्रोत्तरच्छदैः ।। ३८.१४ ।।

महाभवनमालाभिर्महाप्रांशुभिरुत्तमैः।
विद्याधरपुरं तत्र शोभते भ्राजयच्छुभम् ।। ३८.१५ ।।

विद्याधरपतिस्तत्र पुलोमा तत्र विश्रुतः।
चित्रवेषधरः स्रग्वी माहेन्द्रसदृशद्युतिः ।। ३८.१६ ।।

दीप्तानां चित्रवेषाणां सूर्यप्रतिमतेजसाम्।
विद्याधरसहस्राणामनेकेषां स राजराट् ।। ३८.१७ ।।

विशाखस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च।
सरसस्ताम्रवर्णस्य पूर्वे तीरे परिश्रुतम् ।। ३८.१८ ।।

पञ्चेषुक्षेपणैर्विद्धं सुशाखं वर्णशोभितम् ।
सर्व कालफलं तत्र स्फीतं चाम्रवणं महत् ।। ३८.१९ ।।

फलैः कनकसङ्काशैर्महास्वादैः सुगन्धिभिः।
महाकुम्भप्रमाणैश्चातनुशाखैः समन्ततः ।। ३८.२० ।।

गन्धर्वकिन्नरा यक्षा नागा विद्याधरास्तथा।
पिबन्त्याम्ररसं तत्र सुस्वादुं ह्यमृतोपमम् ।। ३८.२१ ।।

तत्राम्ररसपीतानां मुदितानां महात्मनाम्।
श्रूयन्ते हृष्ट पुष्टानां नादास्तस्मिन् महावने ।। ३८.२२ ।।

सुमूलस्याचलेन्द्रस्य वसुधारस्य चान्तरे।
समा सुरभिपूर्णाढ्या विहङ्गैरुपशोभिता ।। ३८.२३ ।।

त्रिंशद्योजनविस्तीर्णा पञ्चाशद्योजनायता।
तत्र बिल्वस्थली विप्राः शुद्धा निम्नफलद्रुमाः ।। ३८.२४ ।।

सुस्वादैर्विद्रुमनिभैः फलैर्बिल्वैर्महोपमैः।
शीर्यमाणैर्विशीर्णैश्च प्रक्लिन्नतलमृत्तिकाः ।। ३८.२५ ।।

तां स्थलीमुपजीवन्ति यक्षगन्धर्वकिन्नराः।
सिद्धा नागाश्च बहुशो नित्यं बिल्वफलाशिनः ।। ३८.२६ ।।

अन्तरे वसुधारस्य रत्नधारस्य चान्तरे।
त्रिंशद्योजनविस्तीर्णमायतं शतयोजनम् ।। ३८.२७ ।।

सुगन्धं किंशुकवनं नित्यं पुष्पितपादपम्।
पुष्पलक्ष्म्यावृतं भाति प्रदीप्तमिव सर्वतः ।। ३८.२८ ।।

यस्य गन्धेन दिव्येन वास्यते परिमण्डलम्।
समग्रं योजनशतं काननानि समन्ततः ।। ३८.२९ ।।

तत् सिद्धचारणगणैरप्सरोभिश्च सेवितम् ।
रम्यं तत् किंशुक वनं जलाशयविभूषितम् ।। ३८.३० ।।

तत्रादित्यस्य देवस्य दीप्तमायतनं महत् ।
मासे मासेऽनतरति तत्र सूर्यः प्रजापतिः ।। ३८.३१ ।।

तत्र कालस्य कर्त्तारं सहस्रांशुं सुरोत्तमम्।
सिद्धसङ्घा नमस्यन्ति सर्वलोकनमस्कृतम् ।। ३८.३२ ।।

पञ्चकूटस्य शैलस्य कैलासस्यान्तरेण तु।
षट्‌त्रिंशद्योजनायामं विस्तीर्णं शतयोजनम् ।। ३८.३३ ।।

क्षुद्रसत्त्वैरनाधृष्यं सर्वतो हंसपाण्डुरम्।
दुष्पारं सर्वसत्वानां दुर्गमं लोमहर्षणम् ।। ३८.३४ ।।

इत्येता ह्यन्तरद्रोण्यो दक्षिणे परिकीर्तिताः।
यथानुपूर्वमखिलाः सिद्धसङ्घनिषेविताः ।। ३८.३५ ।।

पश्विमायां दिशितथा येऽन्तरद्रोणिविस्तराः।
तान् वर्ण्यमानांस्तत्वेन श्रृणुतेमान् द्विजोत्तमाः ।। ३८.३६ ।।

अन्तराले गिरौ तस्मिन् सुवक्षः शिखिशैलयोः।
समन्ताद्योजनशतमेकभूमं शिलातलम् ।। ३८.३७ ।।

नित्यतप्तं महाघोरं दुःस्पर्शं रोमहर्षणम्।
अगम्यं सर्वसत्त्वानामीश्वराणां सुदारुणम् ।। ३८.३८ ।।

मध्ये तस्यां शिलास्थल्यां त्रिंशद्योजनमण्डलम्।
ज्वालासहस्रकलिलं वह्निस्थानं सुदारुणम् ।। ३८.३९ ।।

अनिन्धनस्तत्र सदा ज्वालामाली विभावसुः।
ज्वलत्येष सदा देवः शश्वत्तत्र हुताशनः ।। ३८.४० ।।

अधिदेवकृते योऽसावग्नेर्भागो विधीयते।
स तत्र ज्वलते नित्यं लोकसंवर्त्तकोऽनलः ।। ३८.४१ ।।

अन्तरे शैलवरयोर्देवा वापि तयोः शुभाः ।
मातुलुङ्गस्थली तत्र ह्यायामाद्दशयोजना ।। ३८.४२ ।।

मधुव्यञ्जनसंस्थानैः सुरसैः कनकप्रभैः।
फलैः परिणतैः सर्वा शोभिता सा महास्थली ।। ३८.४३ ।।

तत्राश्रमं महा पुण्यं सिद्धसङ्घनिषेवितम्।
बृहस्पतेः प्रमुदितं सर्वकामगुणैर्युतम् ।। ३८.४४ ।।

तथैव शैलवरयोः कुमुदाञ्जनयोरपि।
अन्तरे केसरद्रोणी ह्यनेकायाम योजना ।। ३८.४५ ।।

द्विबाहुपरिणाहैस्तैस्त्रिहस्तायतविस्तृतैः।
चन्द्रांशुवर्णैर्व्याकोशैर्मत्तषट्पदनादितैः ।। ३८.४६ ।।

मधुसर्पीरजः पृक्तैर्महागन्धैर्मनोहरैः।
शबलं तद्वनं भाति कुसुमैः सर्वकालजैः ।। ३८.४७ ।।

तत्र विष्णोः सुरगुरोर्दीप्तमायतनं महत्।
प्रकाशन्त्रिषु लोकेषु सर्वलोकनमस्कृतम् ।। ३८.४८ ।।

अन्तरे शैलवरयोः कृष्णपाण्डुरयोरपि।
त्रिंशद्योजनविस्तीर्णं नवत्यायतयोजनम् ।। ३८.४९ ।।

श्लक्ष्णमेकशिलं देशं वृक्षवीरुद्विवर्जितम् ।
सुखपादप्रचा रञ्च निम्नोन्नतविवर्जितम् ।। ३८.५० ।।

मध्ये तु सरसस्तस्य रम्या तु स्थलपद्मिनी।
सहस्रपत्रैर्व्याकोशैः छत्रमात्रैरलङ्कृता ।। ३८.५१ ।।

पुण्डरीकैर्महापद्मै रुचिरैर्गन्धशालिभिः ।
शतपत्रैश्च विकचैरुत्पलैर्नीलपत्रकैः ।। ३८.५२ ।।

मदोत्कटैर्मधुकरैर्भ्रमरैश्च मदोत्कटैः।
मृदुगद्घदकण्ठानां किन्नराणाञ्च निस्वनैः ।। ३८.५३ ।।

उपगीतपद्मखण्डाढ्या विस्तीर्णा स्थलपद्मिनी।
यक्षगन्धर्वचरिता सिद्धचारणसेविता ।। ३८.५४ ।।

मध्ये तस्याश्च पद्मिन्याः पञ्चयोजनमण्डलः।
न्यग्रोधो विपुलस्कन्धो ह्यनेकारोहिमण्डितः ।। ३८.५५ ।।

तत्र चन्द्रप्रभः श्रीमान् पूर्णचन्द्रनिभानन)।
सहस्रवदनो देवो नीलवासाः सुरारिहा ।। ३८.५६ ।।

पद्म माल्यधरस्थल्यां महाभागोऽपराजितः।
इज्यते यक्षगन्धर्वैर्विद्याधरगणैस्तथा ।। ३८.५७ ।।

तस्मिन्नायतने साक्षादनादिनिधनो हरिः।
पद्मोपहारौर्विविधै रिज्यते सिद्धचारणैः ।। ३८.५८ ।।

तदनन्तसदो नाम सर्वलोकेषु विश्रुतम्।
पद्ममालावलम्बाभिर्मालाभिरुपशोभितम् ।। ३८.५९ ।।

तथा सहस्रशिखरकुमुदस्यान्तरेण च।
पञ्चाशद्योजनायामं त्रिंशद्योजनविस्तरम् ।
इषुक्षेपोच्चशिखरं नानाविहगसेवितम् ।। ३८.६० ।।

महागन्धैर्महास्वादैर्गजदेहनिभैः फलैः।
मधुस्रवैर्महावृक्षैरुपेतं तत् समन्ततः ।। ३८.६१ ।।

तत्राश्रमं महापुण्यं देवर्षिगणसेवितम्।
शुक्रस्य प्रथितं तत्र भास्वरं पुण्यकर्मणः ।। ३८.६२ ।।

शङ्कुकूटस्य शैलस्य वृषभस्यान्तरेण च।
परूषकस्थली रम्या ह्यनेकायतयोजना ।। ३८.६३ ।।

बिल्वप्रमाणैश्च शुभैर्महास्वादैः सुगन्धिभिः।
फलैः प्रक्लिद्यते भूमिः परुषैर्वृन्तविच्युतैः ।। ३८.६४ ।।

तां स्थलीमुपजीवन्ति किन्नरोरगसाधवः।
परूषकरसोन्मत्ता मानाढ्यास्तत्र चारणाः ।। ३८.६५ ।।

कपिञ्जलस्य शैलस्य नागशैलस्य चान्तरे।
द्वियोजनशतायामा विस्तीर्णा शतयोजना ।। ३८.६६ ।।

स्थली मनोहरा सा हि नानावनविभूषिता ।
नानापुष्पफलोपेता किन्नरोरगसेविता ।। ३८.६७ ।।

द्राक्षावनानि रम्याणि तथा नागवनानि च।
खर्जूरवनखण्डानि नीलाशोकवनानि च ।। ३८.६८ ।।

दाडिमानाञ्च स्वादूनामक्षोटकवनानि च।
अतसीतिलकानाञ्च कदलीनां वनानि च ।। ३८.६९ ।।

बदरीणाञ्च स्वादूनां वनखण्डानि सर्वशः।
स्वादुशीताम्बुपूर्णाभिर्नदीभिः शोभितानि च ।। ३८.७० ।।

तथा पुष्पकशैलस्य महामेघस्य चान्तरे।
षष्टियोजनविस्तीर्णा सा भूमिः शतमायता ।। ३८.७१ ।।
समा पाणितलप्रख्या कठिना पाण्डुरा घना।
वृक्षगुल्मलतागुल्मैस्तृणैश्वापि विवर्जिता ।। ३८.७२ ।।

वर्जिता विविधैः सत्वैर्न्नित्यमस्मिन् निराश्रया।
सा काननस्थली नाम दारुणा रोमहर्षणा ।। ३८.७३ ।।

महासरांसि च तथा महावृक्षास्तथैव च।
महावनानि सर्वाणि कान्तनामानि सर्वशः ।। ३८.७४ ।।

सरसाञ्च वनानाञ्च सा स्थली च प्रजापतेः।
क्षुद्राणां सरसाञ्चैव सङ्ख्या तत्र न विद्यते ।। ३८.७५ ।।

दश द्वादश सप्ताष्टौ विंशत्र्रिंशच्च योजनाः।
स्थल्यो द्रोण्यश्च विख्याताः सरांसि च वनानि च ।। ३८.७६ ।।

केचित् सन्ति महाघोराः श्यामाः पर्वतकुक्षयः।
सूर्यांशुजालैरस्पृष्टा नित्यं शीता दुरासदाः ।। ३८.७७ ।।

तथा ह्यनलतप्तानि सरांसि द्विजसत्तमाः।
शैलकुक्ष्यन्तरस्थानि सहस्राणि शतानि च ।। ३८.७८ ।।

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामाष्टत्रिंशोऽध्यायः ।। ३८ ।।