वायुपुराणम्/पूर्वार्धम्/अध्यायः २३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः २२ वायुपुराणम्
अध्यायः २३
वेदव्यासः
अध्यायः २४ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१


।। वायुरुवाच ।।
एकत्रिंशत्तमः कल्पः पीतवासा इति स्मृतः।
ब्रह्म यत्र महातेजाः पीतवर्णत्वमागतः ।। २३.१ ।।

ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः।
प्रादुर्भूतो महातेजाः कुमारः पीतवस्त्रवान् ।। २३.२ ।।

पीतगन्धानुलिप्ताङ्गः पीतमाल्यधरो युवा।
पीतयज्ञोपवीतश्च पीतोष्णीषो महाभुजः ।। २३.३ ।।

तं दृष्ट्वा ध्यानसंयुक्तं ब्रह्मा लोकेश्वरं प्रभुम्।
मनसा लोकधातारं ववन्दे परमेश्वरम् ।। २३.४ ।।

ततो ध्यानगतस्तत्र ब्रह्म माहेश्वरीं पराम्।
अपश्यद् गां विरुपां च महेश्वरमुखच्युताम् ।। २३.५ ।।

चतुष्पदां चतुर्वक्रां चतुर्हस्तां चतुःस्तनीम्।
चतुर्न्नेत्रां चतुःश्रृङ्गीं चतुर्द्दंष्ट्रां चतुर्मुखीम्।
द्वात्रिंशल्लोकसंयुक्तामीश्वरीं सर्वतोमुखीम् ।। २३.६ ।।

स तां दृष्ट्वा महातेजाः महादेवीं महेश्वरीम्।
पुनराह महादेवः सर्वदेवनमस्कृतः ।। २३.७ ।।

मतिः स्मृतिर्बुद्धइरिति गायमानः पुनः पुनः।
एह्येहीति महादेवी सोत्तिष्टत् प्राञ्जलिर्भृशम् ।। २३.८ ।।

विश्वमावृत्य योगेन जगत्सर्वं वशीकुरु।
अथ वा महादेवेन रुद्राणी त्वं भविष्यसि।
ब्राह्मणानां हितार्थाय परमार्थं भविष्यसि ।। २३.९ ।।

अथैनां पुत्रकामस्य ध्यायतः परमेष्ठिनः।
प्रददौ देवदेवेशश्चतुष्पादां महेश्वरीम्।
ततस्तां ध्यानयोगेन विदित्वा परमेश्वरीम् ।। २३.१० ।।

ब्रह्मा लोकनमस्कार्यः प्रपद्य तां महेश्वरीम्।
गायत्रीन्तु ततो रौद्रीं ध्यात्वा ब्रह्मा सुयन्त्रितः ।। २३.११ ।।

इत्येतां वैदिकीं विद्यां रौद्रीं गायत्रीमर्पिताम्।
जपित्वा तु महादेवीं रुद्रलोकनमस्कृताम्।
प्रपन्नस्तु महादेवं ध्यानयुक्तेन चेतसा ।। २३.१२ ।।

ततस्तस्य महादेवो दिव्यं योगं पुनः स्मृतः।
ऐश्वर्यं ज्ञानसम्पत्तिं वैराग्यं च ददौ पुनः ।। २३.१३ ।।

अथाट्टहासं मुमुचे भीषणं दीप्तमीश्वरः।
ततोऽस्य सर्वतो दीप्ताः प्रादुर्भूताः कुमारकाः ।। २३.१४ ।।

पीतमाल्याम्बरधराः पीतगन्धविलेपनाः ।
पीतोष्णीषशिरस्काश्च पीतास्याः पीतमूर्द्धजाः ।। २३.१५ ।।

ततो वर्षसहस्रान्ते उषित्वा विमलौजसः।
योगात्मानस्ततः स्नाता ब्राह्मणानां हितैषिणः ।। २३.१६ ।।

धर्मयोगबलोपेता ऋषीणां दीर्घसत्रिणाम्।
उपदिश्य तु ते योगं प्रविष्टा रुद्रमीश्वरम् ।। २३.१७ ।।

एवमेतेन विधिना प्रपन्ना ये महेश्वरम्।
अन्येऽपि नियतात्मानो ध्यानयुक्ता जितोन्द्रियाः ।। २३.१८ ।।

ते सर्वे पापमुत्सृज्य विरजा ब्रह्मवर्च्चसः।
प्रविशन्ति महादेवं रुद्रन्ते त्वपुनर्भवाः ।। २३.१९ ।।

ततस्तस्मिन् गते कल्पे पीतवर्णे स्वयम्भुवः।
पुनरन्यः प्रवृत्तस्तु सितकल्पो हि नामतः ।। २३.२० ।।

एकार्णवे तदावृत्ते दिव्ये वर्षसहस्रके ।
स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः ।। २३.२१ ।।

तस्य चिन्तयमानस्य पुत्रकामस्य वै प्रभोः ।
कृष्णः समभवद्वर्णो ध्यायतः परमेष्ठिनः ।। २३.२२ ।।

अथापश्यन्महातेजाः प्रादुर्भूतं कुमारकम्।
कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा ।। २३.२३ ।।

कृष्णाम्बरवरोष्णीषं कृष्णयज्ञोपवीतिनम्।
कृष्णेन मौलिना युक्तं कृष्णस्रगनुलेपनम् ।। २३.२४ ।।

स तं दृष्ट्वा महात्मानममरं घोर मन्त्रिणम्।
ववन्दे देवदेवेशं विश्वेशं कृष्णपिङ्गलम् ।। २३.२५ ।।

प्राणायामपरः श्रीमान् हृदि कृत्वा महेश्वरम्।
मनसा ध्यानसंयुक्तं प्रपन्नस्तु यतीश्वरम् ।
अघोरेति ततो ब्रह्मा ब्रह्म एवानुचिन्तयन् ।। २३.२६ ।।

एवं वै ध्यायतस्तस्य ब्रह्मणः परमेष्ठिनः।
मुमोच भगवान् रुद्रः अट्टहासं महास्वनम् ।। २३.२७ ।।

अथास्य पार्श्वतः कृष्णाः कृष्णस्रगनुलेपनाः ।
चत्वारस्तु महात्मानः सम्बभूवुः कुमारकाः ।। २३.२८ ।।

कृष्णाः कृष्णाम्बरोष्णीषाः कृष्णास्याः कृष्णवाससः।
तैश्चाट्टहासः सुमहान् हूङ्कारश्चैव पुष्कलः।
नमस्कारश्च सुमहान् पुनः पुनरुदीरितः ।। २३.२९ ।।

ततो वर्षसहस्रान्ते योगात्तत् पारमेश्वरम्।
उपासित्वा महाभागाः शिष्येब्यः प्रददुस्ततः ।। २३.३० ।।

योगेन योगसम्पन्नाः प्रविश्य मनसा शिवम्।
अमलं निर्गुणं स्थानं प्रविष्टा विश्वमीश्वरम् ।। २३.३१ ।।

एवमेतेन योगेन ये चाप्यन्ये द्विजातयः।
स्मरिष्यन्ति विधानज्ञा गन्तारो रुद्रमव्ययम् ।। २३.३२ ।।

ततस्तस्मिन् गते कल्पे कृष्णरुपे भयानके।
अन्यः प्रवर्त्तितः कल्पो विश्वरुपस्तु नामतः ।। २३.३३ ।।

विनिवृत्ते तु संहारे पुनः सृष्टे चराचरे।
ब्रह्मणः पुत्रकामस्य ध्यायतः परमेष्ठिनः।
प्रादुर्भूता महानादा विश्वरूपा सरस्वती ।। २३.३४ ।।

विश्वमाल्याम्बरधरं विश्वयज्ञोपवीतिनम्।
विश्वोष्णीषं विश्वगन्धं विश्वस्थानं महाभुजम् ।। २३.३५ ।।

अथ तं मनसा ध्यात्वा युक्तात्मा वै पितामहः।
ववन्दे देवमीशानं सर्वेशं सर्वगं प्रभुम् ।। २३.३६ ।।

ओमीशानं नमस्तेऽस्तु महादेव नमोऽस्तु ते।
एवं ध्यानगतं तत्र प्रणमन्तं पितामहम्।
उवाच भगवानीशः प्रीतोऽहं ते किमिच्छसि ।। २३.३७ ।।

ततस्तु प्रणतो भूत्वा वाग्भिः स्तुत्वा महेश्वरम्।
उवाच भगवान् ब्रह्मा प्रीतः प्रीतेन चेतसा ।। २३.३८ ।।

यदिदं विश्वरूपन्ते विश्वगं विश्वमीश्वरम्।
एतद्वेदितुमिच्छामि कश्चायं परमेश्वरः ।। २३.३९ ।।

कैषा भगवती देवी चतुष्पादा चतुर्मुखी।
चतुःश्रृङ्गी चतुर्वक्रा चतुर्द्दन्ता चतुःस्तनी ।। २३.४० ।।

चतुर्हस्ता चतुर्नेत्रा विश्वरुपा कथं स्मृता।
किन्नामधेया कोऽस्यात्मा किंवीर्या वापि कर्मतः ।। २३.४१ ।।

।।महेश्वर उवाच ।।
रहस्यं सर्वमन्त्राणां पावनं पुष्ठिवर्द्धनम्।
श्रृणुष्वैतत्परं गुह्यमादिसर्गे यथा तथम् ।। २३.४२ ।।

अयं यो वर्त्तते कल्पो विश्वरूपस्त्वसौ स्मृतः।
यस्मिन् भवादयो देवाः षड्विंशन्मनवः स्मृताः ।। २३.४३ ।।

ब्रह्मस्थानमिदं चापि यदा प्राप्तं त्वया विभो।
तदाप्रभृति कल्पश्च त्रयस्त्रिंशत्तमो ह्ययम् ।। २३.४४ ।।

शतं शतसहस्राणामतीता ये स्वयम्भुवः ।
पुरस्तात्तव देवेश तान् श्रृणुष्व महामुने ।। २३.४५ ।।

आनन्दस्तु स विज्ञेय आनन्दस्ते महालयः।
गालव्यगोत्रतपसा मम पुत्रस्त्वमागतः ।। २३.४६ ।।

त्वयि योगश्च साङ्ख्यश्च तपो विद्याविधिः क्रिया।
ऋतं स्त्यञ्च यद्ब्रह्म अहिंसा सन्ततिक्रमाः ।। २३.४७ ।।

ध्यानं ध्यानवपुः शान्तिर्विद्याऽपिद्यामतिर्धृतिः।
कान्तिः शान्तिः स्मृतिर्मेधा लज्जा शुद्दिः सरस्वती।
तुष्टिः पुष्टिः क्रिया चैव लज्जा क्षान्तिः प्रतिष्ठिता ।। २३.४८ ।।

षड्‌विंशत्तद्गुणा ह्येषा द्वात्रिशाक्षरसंज्ञिता ।
प्रकृतिं विद्धितां ब्रह्मंस्त्वत्प्रसूतिं महेश्वरीम् ।। २३.४९ ।।

सैषा भगवती देवी तत्प्रसूतिः स्वयम्भुवः।
चतुर्मुखी जगद्योनिः प्रकृति र्गौः प्रकीर्त्तिता ।
प्रधानं प्रकृतिं चैव यदाहुस्तत्त्वचिन्तकाः ।। २३.५० ।।

अजामेतां लोहितां शुक्लकृष्णां विश्वं संप्रसृजमानां सुरूपाम्।
अजोऽहं वै बुद्धिमान्विश्वरूपां गायत्रीं गां विश्वरूपां हि बुद्ध्वा ।। २३.५१
एवमुक्तवा महादेवः अट्टहासमथाकरोत् ।
वलितास्फोटितरवं कहाकहनदन्तथा ।। २३.५२ ।।

ततोऽस्य पार्श्वतो दिव्याः सर्वरूपाः कुमारकाः।
जटी मुण्डी शिखण्डी च अर्द्धमुण्डश्च जज्ञिरे ।। २३.५३ ।।

ततस्ते तु यथोक्तेन योगेन सुमहौजसः।
दिव्यं वर्षसहस्रन्तु उपासित्वा महेश्वरम् ।। २३.५४ ।।

धर्मोपदेशं नियतं कृत्वा योगमयं दृढम्।
शिष्टानां नियतात्मानः प्रविष्टा रुद्रमीश्वरम् ।। २३.५५ ।।

।।वायुरुवाच।।
ततो विस्मयमापन्नो ब्रह्मा लोकपितामहः।
प्रपन्नस्तु महादेवं भक्तियुक्तेन चेतसा।
उवाच वचनं सर्वं श्वेतत्वन्ते कथं विभो ।। २३.५६ ।।

।।भगवानुवाच।।
श्वेतकल्पो यदा ह्यासीदहं श्वेतस्ततोऽभवम्।
श्वेतोष्णीषः श्वेतमाल्यः श्वेताम्बरधरः शिवः ।। २३.५७ ।।

श्वेतास्थिमांसरोमा च श्वेतत्वक् श्वेतलोहितः।
तेन नाम्ना च विख्यातः श्वेतकल्पस्तदा ह्यसौ ।। २३.५८ ।।

मत्प्रसादाच्च देवेशः श्वेताङ्गः श्वेतलोहितः।
श्वेतवर्णा तदा ह्यासीद्गायत्री ब्रह्मसंज्ञिता ।। २३.५९ ।।

यस्मादहं च देवेश त्वया गुह्ये पदे स्थितः।
विज्ञातः स्वेन तपसा सद्यो जातः सनातनः।
सद्यो जातेति ब्रह्मैतद् गुह्यं चैव प्रकीर्तितम् ।। २३.६० ।।

तस्माद् गुह्यत्वमापन्नं ये वेत्स्यन्ति द्विजातयः।
तत्समीपङ्गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.६१ ।।

यदाऽहं च पुनस्त्वासं लोहितो नाम नामतः।
ममकृतेन वर्णेन कल्पो वै लोहितः स्मृतः ।। २३.६२ ।।

तदा लोहितमासास्थिलोहितक्षीरसन्निभा ।
लोहिताक्षस्तनवती गायत्री गौः प्रकीर्तिता ।। २३.६३ ।।

ततोऽस्य लोहितत्वेन वर्णस्य च विपर्य्यये।
वामत्वाच्चैव योगस्य वामदेवत्क्मागतः ।। २३.६४ ।।

तथापि हि महासत्त्व त्वयाऽहं नियतात्मना।
विज्ञातः श्वेत वर्णेन तस्माद्वर्णोत्तमः स्मृतः ।
ततोऽहं वामदेवेति ख्यातिं यातो महीतले ।। २३.६५ ।।

ये चापि वामदेवत्वं ज्ञास्यन्तीह द्विजातयः।
विज्ञाय चेमां रुद्राणीं गायत्रीं मातरं विभो ।। २३.६६ ।।

सर्वपापविनिर्मुक्ता विरजा ब्रह्मवर्चसः।
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.६७ ।।

यदा तु पुनरेवायं कृष्णवर्णो भयानकः।
मत्कृतेन च वर्णेन मत्कल्पः कृष्ण उच्यते ।। २३.६८ ।।

तत्राऽहं कालसंकाशः कालो लोकप्रकाशनः ।
विज्ञातोऽहं त्वया ब्रहमन् घोरो घोरपराक्रमः ।। २३.६९ ।।

तस्माद्घोरत्वमापन्नं ये मां वेत्स्यन्ति भूतले।
तेषामघोरः शान्तश्च भविष्याम्यहमव्ययः ।। २३.७० ।।

तस्माद्विश्वत्वमान्नं ये मां पश्यन्ति बूतले ।
तेषां शिवश्च सौम्यश्च भविष्यामि सदैव तु ।। २३.७१ ।।

तस्माच्च विश्वरूपो वै कल्पोऽयं समुदाहृतः।
विश्वरूपा तथा चेयं सावित्री समुदाहृता ।। २३.७२ ।।

सर्वरूपास्तथा चेमे संवृत्ता मम पुत्रकाः।
चत्वारस्ते समाख्याताः पादा वै लोकसंमताः ।। २३.७३ ।।

तस्माच्च सर्व वर्णत्वं प्रजात्वं मे भविष्यति।
सर्वभक्ष्या च मेध्या च वर्णतश्च भविष्यति ।। २३.७४ ।।

मोक्षो धर्मस्तथार्थश्च कामश्चेति चतुष्टयम्।
तस्माद्वेत्ता च वेद्यं च चतुर्द्धा वै भविष्यति ।। २३.७५ ।।

भूतग्रामाश्च चत्वारः आश्रमाश्चतुरस्तथा।
धर्मस्य पादाश्चत्वार श्चत्वारो मम पुत्रकाः ।। २३.७६ ।।

तस्माच्चतुर्युगावस्थं जगद्वै सचराचरम्।
चतुर्द्धाऽवस्थितं चैव चतुष्पादं भविष्यति ।। २३.७७ ।।

भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्तथा।
जनस्तपश्च शांतश्च रुद्रलोकस्ततः परम् ।। २३.७८ ।।

स्वर्लोको हि तृतीयस्तु चतुर्थस्तु महः स्मृतः।
तत्र लोकः परं स्थानं परन्तद्योगिनां स्मृतम् ।। २३.७९ ।।

निर्ममा निरहंकाराः कामक्रोधविवर्ज्जिताः।
द्रक्ष्यन्ते तद्विदो युक्ता ध्यानतत्परयुञ्जकाः ।। २३.८० ।।

यस्माच्चतुष्पदा ह्येषा त्वया दृष्टा सरस्वती।
तस्माच्च पशवः सर्वे भविष्यन्ति चतुष्पदाः।
तस्माच्चैषां भविष्यन्ति चत्वारो वै पयोधराः ।। २३.८१ ।।

सोमश्च मन्त्रसंयुक्तो यस्मान्मम मुखाच्च्युतः।
जीवः प्राणभृतां ब्रह्मन् सर्वः पीत्वा स्तनैर्घृतम् ।। २३.८२ ।।

तस्मात् सोममयं चैतदमृतं चैव संज्ञितम्।
चतुष्पादा भविष्यन्ति श्वेतत्वं चास्य तेन तत् ।। २३.८३ ।।

यस्माच्चैवं क्रियाभूत्वा द्विपादा वै महेश्वरी।
दृष्टा पुनस्त्वया चैषा सावित्री लोकभाविनी।
तस्माद्वै द्विपदाः सर्वे द्विस्तनाशचव नराः स्मृताः ।। २३.८४ ।।

यस्माच्चैवमजा भूत्वा सर्ववर्णा महेश्वरी।
दृष्टा त्वया महासत्त्वा सर्वभूतधरा परा।
तस्मात्तु विश्वरूपत्वमजानां वै भविष्यति ।। २३.८५ ।।

अजश्चैव महातेजा विश्वरूपो भविष्यति।
अमोघरेताः सर्वत्र मुखे चास्य हुताशनः।
तस्मात् सर्वगतो मेध्यः पशुरूपी हुताशनः ।। २३.८६ ।।

तपसा भावितात्मानो ये वै द्रक्ष्यन्ति वै द्विजाः।
ईशित्वे च शिवत्वे च सर्वगं सर्वतः स्थिरम् ।। २३.८७ ।।

रजस्तमोविनिर्मुक्तास्त्यक्त्वा मानुष्यकम्बुवि।
मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.८८ ।।

इत्येवमुक्तो भगवान् ब्रह्मा रुद्रेण वै द्विजाः।
प्रणम्य प्रयतो भूत्वा पुनराह पितामहः ।। २३.८९ ।।

।।ब्रह्मोवाच।।
भगवन्देवदेवेश विश्वरूपी महेश्वरः।
इमास्तव महादेव तनवो लोकवन्दिताः ।। २३.९० ।।

विश्वरूप महासत्त्व कस्मिन् काले महाभुज।
कस्यां वा युगसम्भूत्यां द्रक्ष्यन्ति त्वां द्विजातयः ।। २३.९१ ।।

केन वा तत्त्वयोगेन ध्यानयोगेन केन वा ।
तनवस्ते महादेव शक्या द्रष्टुं द्विजातिभिः ।। २३.९२ ।।

।।भगवानुवाच।।
तपसा नैव योगेन दानधर्मफलेन वा।
न तीर्थफलयोगेन क्रतुभिर्वा सदक्षिणैः ।। २३.९३ ।।

न वेदाध्यापनैर्वापि न चित्तेन विवेदनैः ।
शक्योऽहं मानुर्षैद्रष्टुमृते ध्यानात्परं न हि ।। २३.९४ ।।

साध्यो नारायणश्चैव विष्णुस्त्रिभुवनेश्वरः ।
भविष्यतीह नाम्ना तु वाराहो नाम विश्रुतः ।। २३.९५ ।।

चतुर्वाहुश्चतुष्पादशचवतुर्नेत्रश्चतुर्मुखः।
तदा संवत्सरो भूत्वा यज्ञरूपी भविष्यति।
षडङ्गश्च त्रिशीर्षश्च त्रिस्थाने त्रिशरीरवान् ।। २३.९६ ।।

कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगम्।
एतस्य पादाश्चत्वारः अङ्गानि क्रतवस्तथा ।। २३.९७ ।।

भुजाशचव वेदाश्चत्वारो ऋतुः सन्धिमुखानि च।
द्वे मुखे द्वे च अयने नेत्राश्च चतुरस्तथा ।। २३.९८ ।।

शिरांसि त्रीणि पर्वाणि फाल्गुन्याषाढकृत्तिकाः।
दिव्यान्तरिक्षभौमानि त्रीणि स्थानानि यानि तु।
सम्भवः प्रलयश्चैव आश्रमौ द्वौ प्रकीर्त्तितौ ।। २३.९९ ।।

स यदा कालरूपाभो वराहत्वे व्यवस्थितः।
भविष्यति यदा साध्यो विष्णुर्नारायणः प्रभुः ।। २३.१०० ।।

तदा त्वमपि देवेश चतुर्व्वक्रो भविष्यसि।
ब्रह्मलोकनमस्कार्यो विष्णुर्नारायणः प्रभुः ।। २३.१०१ ।।

एकार्णवे प्लवे चैव शयानं पुरुषं हरिम्।
यदा द्रक्ष्यसि देवेशं ध्यानयुक्तं महामुनिम् ।। २३.१०२ ।।

तदावां मम योगेन मोहितौ नष्टचेतसौ।
अन्योन्यस्पर्द्धिनौ रात्रावविज्ञाय परस्परम् ।। २३.१०३ ।।

एकैकस्योदरस्थांस्तु दृष्ट्वा लोकांश्चराचरान्।
विस्मयं परमं गत्वा ध्यानाद्‌बुह्द्वा तु मानुषौ ।। २३.१०४ ।।

ततस्त्वं पझसंभूतः पझनाभः सनातनः।
पझाङ्कितस्तदा कल्पे ख्यातिं यास्यसि पुष्कलाम् ।। २३.१०५ ।।

ततस्तस्मिस्तदा कल्पे पाराहे सप्तमे प्रभोः।
पुनर्विष्णुर्महातेजाः कालो लोकप्रकालनः।
मनुर्वैवस्वतो नाम तव पुत्रो भविष्यति ।। २३.१०६ ।।

तदा चतुर्युगावस्थे कल्पे तस्मिन् युगान्तके।
भविष्यामि शिखायुक्तः श्वेतो नाम महामुनिः ।। २३.१०७ ।।

हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे।
चतुःशिष्याः शिवे युक्ता भविष्यन्ति तदा मम ।। २३.१०८ ।।

श्वेतश्चैव शिखश्चैव श्वेताश्वः श्वेतलोहितः।
चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ।। २३.१०९ ।।

ततस्ते ब्रह्मभूयिष्ठा दृष्ट्वा ब्रह्मगतिं पराम् ।
तत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.११० ।।

पुनस्तु मम देवेशो द्वितीयद्वापरे प्रभुः।
प्रजापतिर्यदा व्यासः सत्यो नाम भविष्यति ।। २३.१११ ।।

तदा लोकहितार्थाय सुतारे नाम नामतः।
भविष्यामि कलौ तस्मिन् लोकानुग्रहकारणात् ।। २३.११२ ।।

तत्रापि मम ते पुत्रा भविष्या नाम नामतः।
दुन्दुभिः शतरूपश्च ऋचीकः क्रतुमांस्तथा ।। २३.११३ ।।

प्राप्य योगं तथा ज्ञानं ब्रह्म चैव सनातनम्।
रुद्रलोकं गमिष्यन्ति पुनरावृत्ति दुर्लभम् ।। २३.११४ ।।

तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः।
तदा ह्यहं भविष्यामि दमनस्तु युगन्तिके ।। २३.११५ ।।

तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः।
विशोकश्च विकेशश्च विशापः शापनाशनः ।। २३.११६ ।।

तेऽपि तेनैव मार्गेण योगोक्तेन महौजसः।
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.११७ ।।

चतुर्थे द्वापरे चैव यदा व्यासोऽङ्गिराः स्मृतः।
तदाऽप्यहं भविष्यामि सुहोत्रो नाम नामतः ।। २३.११८ ।।

तत्रापि मम सत्पुत्राश्चत्वारश्च तपोधनाः।
भविष्यन्ति द्विजश्रेष्ठा योगात्मानो दृढव्रताः ।। २३.११९ ।।

सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः।
प्राप्य योगगतिं सूक्ष्मां विमला दग्धकिल्बिषाः।
तेऽपि तेनैव मार्गेण गमिष्यन्ति न संशयः ।। २३.१२० ।।

पञ्चमे द्वापरे चैव व्यासस्तु सविता यदा।
तदा चापि भविष्यामि कङ्गो नाम महातपाः।
अनुग्रहार्थं लोकानां योगात्मा नैककर्मकृत् ।। २३.१२१ ।।

चत्वारस्तु महाभागा विरजाः शुद्धयोनयः ।
पुत्रा मम भविष्यन्ति योगात्मानो दृढव्रताः ।। २३.१२२ ।।

सनः सनन्दनश्चैव प्रभुर्यश्च सनातनः।
ऋतुः सनत्कुमारश्च निर्ममा निरहंकृताः।
मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.१२३ ।।

परिवृत्ते पुनः षष्ठे मृत्युर्व्यासो यदा विभुः।
तदाप्यहं भविष्यामि लोकाक्षिर्नाम नामतः ।। २३.१२४ ।।

शिष्याश्च मम ते दिव्या योगात्मानो दृढव्रताः।
भविष्यन्ति महाभागाश्चत्वारो लोकसम्मताः ।। २३.१२५ ।।

सुधामा विरजश्चैव शङ्खपाद्रव एव च।
योगात्मानो महात्मानस्ते सर्वे दग्धकिल्बिषाः।
तेऽपि तेनैव मार्गेण गमिष्यन्ति न संशयः ।। २३.१२६ ।।

सप्तमे परिवर्त्ते तु यदा व्यासः शतक्रतुः।
विभुर्नाम महातेजा- पूर्वमासीच्छतक्रतुः ।। २३.१२७ ।।

तदाऽप्यहं भविष्यामि कलौ तस्मिन् युगान्तिके।
जैगीषव्येति विखयातः सर्वेषां योगिनां वरः ।। २३.१२८ ।।

तत्रापि मम ते पुत्रा भविष्यन्ति युगे तदा।
सारस्वतः सुमेधाश्च वसुवाहः सुवाहनः ।। २३.१२९ ।।

तेऽपि तेनैव मार्गेण ध्यानयुक्तिं समाश्रिताः ।
भविष्यन्ति महात्मानो रुद्रलोकपरायणाः ।। २३.१३० ।।

वसिष्ठश्चाष्टमे व्यासः परिवर्त्ते भविष्यति।
कपिलश्चासुरिश्चैव तथा पञ्चशिखो मुनिः।
वाग्बलिश्च महायोगी सर्व एव महौजसः ।। २३.१३१ ।।

प्राप्य माहेश्वरं योगं ध्यानिनो दग्धकल्मषाः।
मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.१३२ ।।

परिवर्त्तेऽथ नवमे व्यासः सारस्वतो यदा।
तदा चाहं भविष्यामि ऋषभो नाम नामतः ।
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः ।। २३.१३३ ।।

पराशरश्च गार्ग्यश्च भार्गवो ह्यङ्गिरास्तथा।
भविष्यन्ति महात्मानो ब्राह्मणा वेदपारगाः ।। २३.१३४ ।।

सर्वे तपोबलोत्कृष्टाः शापानुग्रहकोविदाः।
तेपि तेनैव मार्गेण योगोक्तेन तपस्विनः।
ध्यानमार्गं समासाद्य गमिष्यन्ति तथैव ते ।। २३.१३५ ।।

दशमे द्वापरे व्यासस्त्रिधामानाम नामतः।
यदा भविष्यति विप्रास्तदाऽहं भविता पुनः ।। २३.१३६ ।।

हिमवच्छिखरे रम्ये भृगुतुङ्गे नगोत्तमे।
नाम्ना भृगोस्तु शिखरन्तस्मात्तच्छिखरम्भृगुः ।। २३.१३७ ।।

तत्रैव मम ते पुत्रा भविष्यन्ति दृढव्रताः।
बलबन्धुर्निरामित्रः केतुश्रृङ्गस्तपोधनः ।। २३.१३८ ।।

योगात्मानो महात्मानो ध्यानयोगसमन्विताः।
रुद्रलोकं गमिष्यन्ति तपसा दग्धकल्मषाः ।। २३.१३९ ।।

एकादशे द्वापरे तु त्रिवृद्व्यासो भविष्यति।
तदाऽप्यहं भविष्यामि गङ्गाद्वारे कलेर्धुरि ।। २३.१४० ।।

उग्रा नाम महानादास्तत्रैव मम पुत्रकाः।
भविष्यन्ति महौजस्काः सुवृत्ता लोकविश्रुताः ।। २३.१४१ ।।

लम्बोदरश्च लम्बश्च लम्बाक्षो लम्बकेशकः।
प्राप्य माहेश्वरं योगं रुद्रलोकाय संस्थिताः।
तेऽपि तेनैव मार्गेण गमिष्यन्ति परां गतिम् ।। २३.१४२ ।।

द्वादशे पिरवर्त्ते तु शततेजा महामुनिः।
भविष्यति महासत्त्वो व्यासः कविवरोत्तमः ।। २३.१४३ ।।

ततोऽप्यहं भविष्यामि अत्रिर्नाम युगान्तिके।
हैमकं वनमासाद्य योगमास्थाय भूतले ।। २३.१४४ ।।

अत्रापि मा ते पुत्रा भस्मस्नानानुलेपनाः।
भविष्यन्ति महायोग रुद्रलोकपरायणाः ।। २३.१४५ ।।

सर्वज्ञः समबुद्धिश्च साध्यः सर्वस्तथैव च।
रुद्रलोकं गमिष्यन्ति ध्यानयोगपरायणाः ।। २३.१४६ ।।

त्रयोदशे पुनः प्राप्ते परिवर्त्ते क्रमेण तु।
धर्मो नरायणो नाम व्यासस्तु भविता यदा ।। २३.१४७ ।।

तदाप्यहं भविष्यामि वालिर्नाम महामुनिः।
वालखिल्याश्रमे पुण्ये पर्वते गन्धमादने ।। २३.१४८ ।।

तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः।
सुधामा काश्यपश्चैव वसिष्ठो विरजास्तथा ।। २३.१४९ ।।

महायोगबलोपेता विमला ऊर्द्ध्वरेतसः।
तेनैव योगमार्गेण गमिष्यन्ति न संशयः ।। २३.१५० ।।

सुरक्षणो यदा व्यासः पर्याये तु चतुर्द्दशे।
तत्रापि पुनरेवाहं भविष्यामि युगान्तिके ।। २३.१५१ ।।

वंशे त्वङ्गिरसः श्रेष्ठो गौतमो नाम योगवित्।
तस्माद्भविष्यते पुण्यं गौतमं नाम तद्वनम् ।। २३.१५२ ।।

तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तथा।
अत्रिरुग्रतपाश्चैव श्रावणोऽथ स्रविष्टकः ।। २३.१५३ ।।

योगात्मानो महात्मानो ध्यानयोगपरायणाः।
तेऽपि तेनैव मार्गेण रुद्रलोकनिवासिनः ।। २३.१५४ ।।

ततः प्राप्ते पञ्चदशे परिवर्त्ते क्रमागते।
आरुणिस्तु यदा व्यासो द्वापरे भविता प्रभुः ।। २३.१५५ ।।

तदाप्यहं भविष्यामि नाम्ना वेदशिरा द्विजाः।
तत्र वेदशिरा नाम अस्त्रं तत्पारमेश्वरम् ।। २३.१५६ ।।

भविष्यति महावीर्यं वेदशीर्षा च पर्वतः।
हिमवत्पृष्ठमाश्रित्य सरस्वत्या नगोत्तमे ।। २३.१५७ ।।

तदापि मम ते पुत्रा भविष्यन्ति तपोधनाः।
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ।। २३.१५८ ।।

योगात्मानो महात्मानो ब्रह्मिष्ठाश्चोर्द्ध्वरेतसः।
तेऽपि तेनैव मार्गेण रुद्रलोकं गतास्तु ते ।। २३.१५९ ।।

ततः षोडशमे चापि परिवर्त्ते क्रमागते।
व्यासस्तु सञ्जयो नाम भविष्यति तदा प्रभुः ।। २३.१६० ।।

तदाप्यहं भविष्यामि गोकर्णो नाम नामतः।
तस्माद्भविष्यते पुण्यं गोकर्णं नाम तद्वनम् ।। २३.१६१ ।।

तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः।
कश्यपो ह्युशनाश्चैव च्यवनोऽथ बृहस्पतिः।
तेऽपि तेनैव मार्गेण गमिष्यन्ति परं पदम् ।। २३.१६२ ।।

ततः सप्तदशे चैव परिवर्त्ते क्रमागते।
तदा भविष्यति व्यासो नाम्ना देवकृतञ्जयः ।। २३.१६३ ।।

तदाप्यहं भविष्यामि गुहावासीति नामतः।
हिमवच्छिखरे चैव महातुङ्गे महालये।
सिद्धिक्षेत्रं महापुण्यं भविष्यति महालयम् ।। २३.१६४ ।।

तत्रापि मम ते पुत्रा ब्रह्मण्या योगवेदिनः ।
भविष्यन्ति महात्मानः सर्वज्ञा निरहङ्कृताः ।। २३.१६५ ।।

उतथ्यो वामदेवश्च महाकालो महालयः।
तेषां शतसहस्रन्तु शिष्याणां ध्यानसाधनम् ।। २३.१६६ ।।

भविष्यन्ति तदा कल्पे सर्वे ते ध्यानयुञ्जकाः।
ते तु सन्निहिता योगे हृदि कृत्वा महेश्वरम् ।
महालये पदं क्षिप्त्वा प्रविष्टाः शिवमव्ययम् ।। २३.१६७ ।।

ये चान्येऽपि महात्मानः काले तस्मिन् युगान्तिके।
ध्यानयुक्तेन मनसा विमलाः शुद्धबुद्धयः ।। २३.१६८ ।।

गत्वा महाल्यं पुण्यं दृष्ट्वा माहेश्वरं पदम् ।
तूर्णं तारयते जन्तून् दशपूर्वान् दशापरान् ।। २३.१६९ ।।

आत्मानमेकविशंञ्च तारयित्वा महार्णवम्।
मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः ।। २३.१७० ।।

ततोऽष्टादशमे चैव परिवर्त्ते यदा भवेत् ।
तदा ऋतञ्जयो नाम व्यासस्तु भविता मुनिः।
तदाऽप्यहं भविष्यामि शिखण्डी नाम नामतः ।। २३.१७१ ।।

सिद्धक्षेत्रे महापुण्ये देवदानवपूजिते।
हिमवाच्छिखरे पुण्ये शिखण्डी यत्र पर्वतः।
शिखण्डिनो वनञ्चापि ऋषिसिद्धनिषेवितम् ।। २३.१७२ ।।

तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः।
वाचःशवा ऋतीकश्च शावासश्च दृढव्रतः ।। २३.१७३ ।।

योगात्मानो महाशक्ताः सर्वे ते वेदपारगाः।
प्राप्य माहेश्वरं योगं रुद्रलोकं व्रजन्ति ते ।। २३.१७४ ।।

ततस्त्वेकोनविंशे तु परिवर्त्ते क्रमागते।
व्यासस्तु भविता नाम्ना भरद्वाजो महामुनिः ।। २३.१७५ ।।

तत्राप्यहं भविष्यामि जटामालीति नामतः।
हिमवच्छिखरे रम्येजटायुर्यत्र पर्वतः ।। २३.१७६ ।।

तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः।
हिरण्यनामा कौशिल्यः काक्षीवः कुथुमिस्तथा ।। २३.१७७ ।।

ईश्वरा योगधर्माणः सर्वे ते ह्यूर्द्ध्वरेतसः।
प्राप्य माहेश्वरं योगं गमिष्यन्ति न संशयः ।। २३.१७८ ।।

ततो विंशतिमे सर्गे परिवर्त्ते क्रमेण तु।
वाचःश्रवाः स्मृतो व्यासो भविष्यति महामतिः ।। २३.१७९ ।।

तदाप्यहं भविष्यामि ह्यट्टहासीति नामतः।
अट्टहासप्रियाश्चापि भविष्यन्ति तदा नराः ।। २३.१८० ।।

तत्रैव हिमवत्पृष्ठे सिद्धचारणसेविते।
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः।
युक्तात्मानो महासत्त्वा ध्यानिनो नियतव्रताः ।। २३.१८१ ।।

सुमन्तुर्वर्वरिर्विद्वान् सुबन्धुः कुशिकन्धरः।
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ।। २३.१८२ ।।

एकविशे पुनः प्राप्ते परिवर्त्ते क्रमेण तु।
वाचस्पतिः स्मृतो व्यासो यदा स ऋषिसत्तमः ।। २३.१८३ ।।

तदाऽप्यहं भविष्यामि दारुको नाम नामतः।
तस्माद्भविष्यते पुण्यं देवदारुवनं महत् ।। २३.१८४ ।।

तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः।
प्लक्षो दाक्षायणिश्चैव केतुमाली बकस्तथा ।। २३.१८५ ।।

योगात्मानो महात्मानो नियता ह्यूर्द्ध्वरेतसः।
परमं योगमाक्थाय रुद्रं प्राप्तास्तथानघाः ।। २३.१८६ ।।

द्वाविंशे परिवर्त्ते तु व्यासः शुक्लायनो यदा।
तदाऽप्यहं भविष्यामि वाराणस्यां महामुनिः ।। २३.१८७ ।।

नाम्ना वै लाङ्गली भीमो यत्र देवाः सवासवाः।
द्रक्ष्यन्ति मां कलौ तस्मिन्नवतीर्णं हलायुधम् ।। २३.१८८ ।।

तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः।
तुल्यार्चिर्मधुपिङ्गाक्षः श्वेतकेतुस्तथैव च ।। २३.१८९ ।।

तेऽपि माहेश्वरं योगं प्राप्य ध्यानपरायणाः।
विरजा ब्रह्मभूयिष्ठा रुद्रलोकाय संस्थिताः ।। २३.१९० ।।

परिवर्त्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः।
व्यासो भविष्यति ब्रह्म तदाऽहं भविता पुनः।
श्वेतो नाम महाकायो मुनिपुत्रः सुधार्मिकः ।। २३.१९१ ।।

तत्र कालञ्जरिष्यामि तदा गिरिवरोत्तमे।
तेन कालञ्जरो नाम भविष्यति स पर्वतः ।। २३.१९२ ।।

तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः।
उषिजो बृहदुक्थश्च देवलः कविरेव च।
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते ।। २३.१९३ ।।

परिवर्त्ते चतुर्विंशे ऋक्षो व्यासो भविष्यति।
तत्राऽहं भविता ब्रह्मन् कलौ तस्मिन् युगान्तिके।
शूली नाम महायोगी नैमिषे योगि वन्दिते ।। २३.१९४ ।।

तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः।
शलिहोत्रोऽग्निवेश्यश्च युवनाश्चः शरद्वसुः ।
तेऽपि योगबलोपेता रुद्रं यास्यन्ति सुव्रताः ।। २३.१९५ ।।

पञ्चविंशे पुनः प्राप्ते परिवर्त्ते यथाक्रमम्।
वसिष्ठस्तु यदा व्यासः शक्तिर्नाम भविष्यति ।। २३.१९६ ।।

तदाऽप्यहं भविष्यामि दण्डी मुण्डीशरः प्रभुः।
कोटिवर्षं समासाद्य नगरं देवपूजितम् ।। २३.१९७ ।।

तत्रापि मम ते पुत्रा भविष्यन्ति क्रमागताः।
योगात्मानो महात्मानः सर्वे ते ह्यूर्द्ध्वरेतसः ।। २३.१९८ ।।

छगलः कुम्भकर्षाश्यः कुम्भश्चैव प्रबाहुकः।
प्राप्य माहेश्वरं योगं गमिष्यन्ति तथैव ते ।। २३.१९९ ।।

षड्‌विंशे परिवर्त्ते तु यदा व्यासः पराशरः।
तदाऽप्यहं भविष्यामि सहिष्णुर्नाम नामतः।
पुण्यं रुद्रवनं प्राप्य कलौ तस्मिन् युगान्तिके ।। २३.२०० ।।

तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः।
उलूको वैद्युतश्चैव सर्वको ह्याश्वलायनः।
प्राप्य माहेश्वरं योगं गन्तारस्ते तथैव हि ।। २३.२०१ ।।

सप्तविंशतिमे प्राप्ते परिवर्त्ते क्रमागते।
जातूकर्ण्यो यदा व्यासो भविष्यति तपोधनः ।। २३.२०२ ।।

तदाऽप्यहं भविष्यामि सोमशर्म्मा द्विजोत्तमः।
प्रभासतीर्थमासाद्य योगात्मा लोकविश्रुतः ।। २३.२०३ ।।

तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः।
अक्षपादः कणादश्च उलूको वत्स एव च ।। २३.२०४ ।।

योगात्मानो महात्मानो विमलाः शुद्धबुद्धयः।
प्राप्य माहेश्वरं योगं रुद्रलोकं ततो गताः ।। २३.२०५ ।।

अष्टाविंशे पुनः प्राप्ते परिवर्त्ते क्रमागते।
पराशरसुतः श्रीमान् विष्णुर्लोकपितामहः ।। २३.२०६ ।।

यदा भविष्यति व्यासो नाम्ना द्वैपायनः प्रभुः।
तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः।
वसुदेवाद्यदुश्रेष्ठो वासुदेवो भविष्यति ।। २३.२०७ ।।

तदा चाहं भविष्यामि योगात्मा योगमायया।
लोकविस्मयनार्थाय ब्रह्मचारिशरीरकः ।। २३.२०८ ।।

श्मशावे मृतमुत्सृष्टं दृष्ट्वा लोकमनाथकम्।
ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया ।। २३.२०९ ।।

दिव्यां मेरुगुहां पुण्यां त्वया सार्द्धञ्च विष्णुना।
भविष्यामि तदा ब्रह्मन् नकुली नाम नामतः ।। २३.२१० ।।

कायारोहणमित्येवं सिद्धक्षेत्रञ्च वैतदा।
भविष्यति तु विख्यातं यावद्भूमिर्द्धरिष्यति ।। २३.२११ ।।

तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः ।
कुशइकश्चैव गार्ग्यश्च मित्रको रुष्ट एव च ।। २३.२१२ ।।

योगयुक्ता महात्मानो ब्राह्मणा वेदपारगाः।
प्राप्य माहेश्वरं योगं विमला ह्यूर्द्ध्वरेतसः।
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३. २१३ ।।

इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम्।
मन्वादिकृष्णपर्यन्तमष्टाविंशयुगक्रमात्।
तत्र स्मृतिसमूहानां विभागो धर्मलक्षणम् ।। २३.२१४ ।।

इति श्रीमहापुराणे वायु प्रोक्ते माहेश्वरावतारयोगो नाम त्रयोविंशोऽध्यायः ।। २३ ।।।