वायुपुराणम्/पूर्वार्धम्/अध्यायः ४९

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ४८ वायुपुराणम्
अध्यायः ४९
वेदव्यासः
अध्यायः ५० →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।।सूत उवाच।।
प्लक्षद्वीपं प्रवक्ष्यामि यथावदिव सङ्ग्रहात्।
श्रृणुतेमं यतातत्त्वं ब्रुवतो मे द्विजोत्तमाः ।। ४९.१ ।।

जम्बूद्वीपस्य विस्ताराद्द्विगुणस्तस्य विस्तरः।
विस्तारात्र्रिगुणश्चास्य परिणाहः समन्ततः।
तेनावृतः समुद्रोऽयं द्वीपेन लवणोदकः।। ४९.२ ।।

तत्र पुण्या जनपदाश्चिराच्च म्रियते प्रजा।
कुत एव हि दुर्भिक्षं जराव्याधिभयं कुतः ।। ४९.३ ।।

तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषणाः।
रत्नाकरास्तथा नद्यस्तासान्नामानि वच्मि भोः ।। ४९.४ ।।

प्लक्षद्वीपादिषु तेषु सप्त सप्तसु सप्तसु।
ऋज्वायताः प्रतिदिशं निविष्टाः पर्वताः सदा ।। ४९.५ ।।

प्लक्षद्वीपे तु वक्ष्यामि सप्त द्वीपान्महाचलान्।
गोमेद कोऽत्र प्रथमः पर्वतो मेघसन्निभः।
ख्यायते तस्य नाम्ना वै वर्षं गोमेदकन्तु तत् ।। ४९.६ ।।

द्वितीयः पर्वतश्चन्द्रः सर्वौषधिसमन्वितः।
अश्विभ्याममृतस्यार्थे ओषध्यस्तत्र संस्थिताः ।। ४९.७ ।।

तृतीयो नारदो नाम दुर्गशैलो महोच्छ्रयः।
तत्राचले समुत्पन्नौ पूर्वं नारदपर्वतौ ।। ४९.८ ।।

चतुर्थस्तत्र वै शैलो दुन्दुभिर्नाम नामतः।
शब्दमृत्युः पुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः ।
रज्जुदारो रज्जुमयः शाल्मलस्वासुरान्तकृत् ।। ४९.९ ।।

पञ्चमः सोमको नाम देवै र्यत्रामृतं पुरा।
सम्भृतञ्च हृतं चैव मातुरर्थे गरुत्मता ।। ४९.१० ।।

षष्ठस्तु सुमना नाम स एवर्षभ उच्यते।
हिरण्याक्षो वराहेण तस्मिन् शैले निषूदितः ।। ४९.११ ।।

वैभ्राजः सप्तमस्तत्र भ्राजिष्णुः स्फाटिको महान्।
यस्माद्विभ्राजतेऽर्चिर्भिर्वैभ्राजस्तेन स स्मृतः ।। ४९.१२ ।।

तेषां वर्षाणि वक्ष्यामि नामतस्तु यथाक्रमम्।
गोमेदं प्रथमं वर्षं नाम्ना शान्तभयं स्मृतम् ।। ४९.१३ ।।

चन्द्रस्य शिखरं नाम नारदस्य सुखोदयम्।
आनन्दं दुन्दुभेर्वर्ष सोमकस्य शिवंस्मृतम्।
क्षेमकं ऋषभस्यापि वैभ्राजस्य ध्रुवं तथा ।। ४९.१४ ।।

एतेषु देवगन्धर्वाः सिद्धाश्च सहचारणैः
विहरन्ति रमन्ते च दृश्यमानास्तु तैः सह ।। ४९.१५ ।।

तेषां नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः।
नामतस्ताः प्रवक्ष्यामि सप्तगङ्गा महानदी ।। ४९.१६ ।।

अभिगच्छन्ति ता नद्यस्ताभ्यश्चान्याः सहस्रशः।
बहूदकाश्चौघवत्यो यतो वर्षति वासवः ।। ४९.१७ ।।

ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते।
शुभाः शान्तवहाश्चैव प्रमोदा ये च ते शिवाः ।। ४९.१८ ।।

आनन्दाश्च ध्रुवाश्चैव क्षेमकाश्च शिवै सह।
वर्णाश्रमाचारयुक्ताः प्रजास्तेष्वथ सर्वशः ।। ४९.१९ ।।

सर्वेष्वरोगाः सुबला- प्रजास्त्वामयवर्जिताः।
अधःसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी न च ।। ४९.२० ।।

न तत्रास्ति युगावस्था चतुर्युगकृता व्कचित्।
त्रेतायुगसमः कालः सर्वदा तत्र वर्त्तते ।। ४९.२१ ।।

प्लक्षद्वीपादिषु ज्ञेयः पञ्चस्वेतेषु सर्वशः।
देशस्यानुविधानेन कालस्यानुविधाः स्मृताः ।। ४९.२२ ।।

पञ्चवर्षसहस्राणि तेषु जीवन्ति मानवाः।
सुरूपाश्च सुवेषाश्च अरोगा बलिनस्तथा ।। ४९.२३ ।।

सुखमायुर्बलं रूपमारोग्यं धर्म एव च।
प्लक्षद्वीपादिषु ज्ञेयं शाकद्वीपान्तकेषु च ।। ४९.२४ ।।

प्लक्षद्वीपः पृथुः श्रीमान् सर्वतो धनधान्यवान्।
दिव्यौषधि फलोपेतः सर्वौषधिवनस्पतिः ।। ४९.२५ ।।

आवृतः पशुभिः सर्वैर्ग्रामारण्यैः सहस्रशः।
जम्बूवृक्षेण संख्यातस्तस्य मध्ये द्विजोत्तमाः।
प्लक्षो नाम्ना महावृक्षस्तस्य नाम्ना स उच्यते ।। ४९.२६ ।।

स तत्र पूज्यते स्थाणुर्मध्ये जनपदस्य हि।
स चापीक्षुरसोद्देशः प्लक्षद्वीपसमावृतः।
प्लक्षद्वीपस्य चैवेह वैपुल्याद्विस्तरेण तु ।। ४९.२७ ।।

इत्येष सन्निवेशोवः प्लक्षद्वीपस्य कीर्तितः।
आनुपूर्व्या समासेन शाल्मलन्तन्निबोधत ।। ४९.२८ ।।

ततस्तृतीयं द्वीपानां शाल्मलं द्वीपमुत्तमम्।
शाल्मलेन समुद्रस्तु द्वीपेनेक्षुरसोदकः।
प्लक्षद्वीपस्य विस्ताराद्‌द्विगुणेन समावृतः ।। ४९.२९ ।।

तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः।
रत्नाकरास्तथा नद्यस्तेषु वर्षेषु सप्तसु ।। ४९.३० ।।

प्रथमः सूर्यसङ्काशः कुमुदो नाम पर्वतः।
सर्वधातुमयैः श्रृङ्गैः शिलाजालसमुद्गतैः ।। ४९.३१ ।।

द्वितीयः पर्वतस्तस्य उन्नतो नाम विश्रुतः।
हरितालमयैः श्रृङ्गैर्दिवमावृत्य तिष्ठति ।। ४९.३२ ।।

तृतीयः पर्वतस्तस्य बलाहक इति श्रुतः।
जात्यञ्जनमयैः श्रृङ्गैर्दिवमावृत्य तिष्ठति ।। ४९.३३ ।।

चतुर्थः पर्वतो द्रोणो यत्रौषध्यो महाबलाः।
विशल्यकरणी चैव मृतसञ्जीवनी तथा ।। ४९.३४ ।।

कङ्कस्तु पञ्चमस्तत्र पर्वतः सुमहोदयः।
दिव्यपुष्पफलो पेतो वृक्षवीरुत्समावृतः ।। ४९.३५ ।।

षष्ठस्तु पर्वतस्तत्र महिषो मेघसन्निभः।
यस्मिन् सोऽग्निर्निवसति महिषो नाम वारिजः ।। ४९.३६ ।।

सप्तमः पर्वतस्तत्र ककुझान्नाम भाष्यते।
तत्र रत्नान्यनेकानि स्वयं वर्षति वासवः।
प्रजापतिमुपादाय प्राजापत्ये विधिस्त्वयम् ।। ४९.३७ ।।

इत्येते पर्वताः सप्त शाल्मले मणिभूषिताः ।
तेषां वर्षाणि वक्ष्यामि सप्तैव तु शुभानि वै।
कुमुदात् प्रथमं श्वेतमुन्नतस्य तु लोहितम् ।। ४९.३८ ।।

बलाहकस्य जीमूतं द्रोणस्य हरितं स्मृतम् ।
कङ्कस्य वैद्युतं नाम महिषस्य तु मानसम् ।। ४९.३९ ।।

ककुदः सुप्रभं नाम सप्तैतानि तु सप्तधा।
वर्षाणि पर्वतांश्चैव नदीस्तेषु निबोधत ।। ४९.४० ।।

पानितोया वितृष्णा च चन्द्रा शुक्रा विमोचनी।
निवृत्तिः सप्तमी तासां प्रतिवर्षं तु ताः स्मृताः ।। ४९.४१ ।।

तासां समीपगाश्चान्याः शतशोऽथ सहस्रशः।
अशक्याः परिसंख्यातुं श्रद्धेयास्तु बुभूषता ।। ४९.४२ ।।

इत्येष सन्निवेशो वः शाल्मलस्यापि कीर्तितः।
प्लक्षवृक्षेण संख्यातस्तस्य मध्ये महाद्रुमः ।। ४९.४३ ।।

शाल्मलिर्विपुलस्कन्ध स्तस्य नाम्ना स उच्यते।
शाल्मलिस्तु समुद्रेण सुरोदेन समन्ततः।
विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ।। ४९.४४ ।।

उत्तरेषु तु धर्मज्ञा द्वीपेषु श्रृणुत प्रजाः।
यथाश्रुतं यथान्यायं ब्रुवतो मे निबोधत ।। ४९.४५ ।।

कुशद्वीपं प्रवक्ष्यामि चतुर्थं तं समासतः।
सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ।। ४९.४६ ।।

सप्तैव गिरयस्तत्र वर्ण्यमानान्निबोधत।
शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ।। ४९.४७ ।।

कुखद्वीपे तु विज्ञेयः पर्वतो विद्रुमोच्चयः।
द्वीपस्य प्रथमस्तस्य द्वितीयो हेमपर्वतः ।। ४९.४८ ।।

तृतीयो द्युतिमान्नाम जीमूतसदृशो गिरिः।
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ।। ४९.४९ ।।

षष्ठो हरिगिरिर्नाम सप्तमो मन्दरः स्मृतः ।
मन्दा इति ह्यपां नाम मन्दरो दारणादपाम् ।। ४९.५० ।।

तेषामन्तरविष्कम्भो द्विगुणः परिवारितः।
उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ।। ४९.५१ ।।

तृतीयं स्वैरथाकारं चतुर्थं लवणं स्मृतम्।
पञ्चमं धृतिमद्वर्षं षष्ठं वर्ष प्रभाकरम्।
सप्तमं कपिलं नाम सप्तैते वर्षपर्वताः ।। ४९.५२ ।।

एतेषु देवगन्धर्वाः प्रभास्तु जगदीश्वराः।
विहरन्ति रमन्ते च दृश्यमानास्तु वर्षशः ।। ४९.५३ ।।

न तेषु दस्यवः सन्ति म्लेच्छजात्यस्तथैव च।
गौरप्रायो जनः सर्वः क्रमाच्च म्रियते तथा ।। ४९.५४ ।।

तत्रापि नद्यः सप्तैव धुतपापाः शिवास्तथा।
पवित्रा सन्ततिश्चैव द्युतिगर्भा मही तथा ।। ४९.५५ ।।

अन्यास्ताभ्यः परिज्ञाताः शतशोऽथ सहस्रशः।
अभिगच्छन्ति ताः सर्वा यतो वर्षति वासवः ।। ४९.५६ ।।

घृतोदेन कुशद्वीपो बाह्यतः परिवारितः।
विज्ञेयः स तु विस्तारात् कुशद्वीपसमेन तु ।। ४९.५७ ।।

इत्येष सन्निवेशो वः कुशद्वीपस्य वर्णितः।
क्रौञ्चद्वीपस्य विस्तारं वक्ष्याम्यहमतः परम् ।। ४९.५८ ।।

कुशद्वीपस्य विस्ताराद् द्विगुणः स तु वै स्मृतः।
घृतोदकसमुद्रो वै क्रौञ्चद्वीपेन संवृतः ।। ४९.५९ ।।

तस्मिन् द्वीपे नगश्रेष्ठः क्रौञ्चस्थः प्रथमो गिरिः।
क्रौञ्चात्परो वामनको वामनादन्धकारकः ।। ४९.६० ।।

अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः।
दिवावृतः परश्चपि दिविन्दो गिरिरुच्यते ।। ४९.६१ ।।

दिविन्दात्परतश्चापि पुण्डरीको महागिरिः।
पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः ।। ४९.६२ ।।

एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः।
बहुवृक्षफलो पेता नानावृक्षलतावृताः ।। ४९.६३ ।।

परस्परेण द्विगुणा विष्कम्भाद्वर्षपर्व्वताः ।
वर्षाणि तत्र वक्ष्यामि नामतस्तु निबोधत ।। ४९.६४ ।।

क्रौञ्चस्य कुशली देशो वामनस्य मनोनुगः।
मनोनुगात्परश्चोष्णस्तृतीयो देश उच्यते ।। ४९.६५ ।।

उष्णात्परः प्रावरकः प्रावरादन्धकारकः।
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ।। ४९.६६ ।।

मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः।
सिद्धचारणसङ्कीर्णो गौरप्रायो जनः स्मृतः ।। ४९.६७ ।।

तत्रापि नद्यः सप्तैव प्रति वर्ष स्मृताः शुभाः ।
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ।
ख्यातिश्च पुण्डरीका च गङ्गा सप्तविधा स्मृता ।। ४९.६८ ।।

तासां समुद्रगाश्चान्या नद्यो यास्तु समीपगाः।
अनुगच्छन्ति ताः सर्वा विपुलाः सुबहूदकाः ।। ४९.६९ ।।

क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु।
आवृतः सर्वतः श्रीमान् क्रौञ्चद्वीपसमेन तु ।। ४९.७० ।।

प्लक्षद्वीपादयो ह्येते समासेन प्रकीर्त्तिताः।
तेषां निसर्गो द्वीपानामानुपूर्व्येण सर्वशः ।। ४९.७१ ।।

न शक्यं विस्तराद्वक्तु मपि वर्षशतैरपि ।
निसर्गोऽयं प्रजानां तु संहारो यश्च तासु वै ।। ४९.७२ ।।

अत ऊर्द्द्वं प्रवक्ष्यामि शाकद्वीपस्य यो विधिः।
शाकद्वीपस्य कृत्स्नस्य यथावदिह निश्चयात्।
श्रृणुध्वं वै यथातत्त्वं ब्रुवतो मे यथार्थवत् ।। ४९.७३ ।।

क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणस्तस्य विस्तरः।
परिवार्य समुद्रं स दधिमण्डोदकं स्थितः ।। ४९.७४ ।।

तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः।
कुत एव तु दुर्भिक्षञ्चराव्याधिभयं कुतः ।। ४९.७५ ।।

तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषिताः।
रत्नाकरास्तथा नद्यस्तासां नामानि मे श्रृणु ।। ४९.७६ ।।

देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते।
प्रागायतः स सौवर्ण उदयो नाम पर्वतः ।। ४९.७७ ।।

तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्ति च यान्ति च।
तस्यापरेण सुमहान् जलधारो महागिरिः ।। ४९.७८ ।।

तस्मान्नित्यमुपादत्ते वासवः परमं जलम्।
ततो वर्षं प्रभवति वर्षाकाले प्रजास्विह ।। ४९.७९ ।।

तस्यापरे रैवतको यत्र नित्यं प्रतिष्ठिता ।
रेवती दिवि नक्षत्रं पितामहकृतो गिरिः ।। ४९.८० ।।

तस्यापरेण सुमहान् श्यामो नाम महागिरिः।
तस्माच्छयामत्वमापन्नाः प्रजाः पूर्वमिमाः किल ।। ४९.८१ ।।

तस्यापरेण रजतो महानस्तो गिरिः स्मृतः।
तस्यापरेणाम्बिकेयो दुर्गः शैलो हिमाचितः ।। ४९.८२ .
आम्बिकेयात्परो रम्यः सर्वौषधिसमन्वितः ।
स चैव केशरीत्युक्तो यतो वायुः प्रवायति ।। ४९.८३ ।।

श्रृणुध्वं नामतस्तानि यथावदनुपूर्वशः।
उदयस्योदयं वर्षं जलदं नाम विश्रुतम् ।। ४९.८४ ।।

द्वितीयं जलधारस्य सुकुमारमिति स्मृतम्।
रैवतस्य तु कौमारं श्यामस्य तु मणीचकम् ।। ४९.८५ ।।

अस्तस्यापि शुभं वर्षं विज्ञेयं कुसुमोत्तरम्।
आम्बिकेयस्य मोदाकं केसरेषु महाद्रुमम् ।। ४९.८६ ।।

द्वीपस्य परिमाणञ्च ह्रस्वदीर्घत्वमेव च।
शाकद्वीपेन विख्यातस्तस्य मध्ये वनस्पतिः ।
शाको नाम महावृक्षस्तस्य पूजां प्रयुञ्जते ।। ४९.८७ ।।

एतेन देवगन्धर्वाः सिद्धाश्च सह चारणैः।
विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह ।। ४९.८८ ।।

तत्र पुण्या जनपदाश्चातुर्वर्णसमन्विताः।
तेषु नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः ।
विद्धि नाम्नश्च ताः सर्वा गङ्गास्ताः सप्तधा स्मृताः ।। ४९.८९ ।।

प्रथमा सुकुमारीति गङ्गा शिवजला तथा।
अनु तप्ता च नाम्नैव नदी सम्परिकीर्त्तिता ।। ४९.९० ।।

कुमारी नामतः सिद्धा द्वितीया सा पुनः सती ।
नन्दा च पार्वती चैव तृतीय परिकीर्त्तिता ।। ४९.९१ ।।

शिवेतिका चतुर्थी स्यात् त्रिदिवा च पुनः स्मृता।
इक्षुश्च पञ्चमी ज्ञेया तथैव च पुनः क्रतुः ।। ४९.९२ ।।

धेनुका च मृता चैव षष्ठी संपरिकीर्त्तिता।
एताः सप्त महागङ्गाः प्रतिवर्षं शिवोदकाः।
भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम् ।। ४९.९३ ।।

अनुगच्छन्ति तास्त्वन्या नदीनद्यः सहस्रशः।
बहूदक परिस्रावा यतो वर्षति वासवः ।। ४९.९४ ।।

तासान्तु नामधेयानि परिमाणं तथैव च।
न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः।
ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ।। ४९.९५ ।।

शंशपायन विस्तीर्णो द्वीपोऽसौ चक्रसंस्थितः।
नदीजलैः प्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः ।। ४९.९६ ।।

सर्वधातुविचित्रैश्च मणि विद्रुमभूषितैः।
पुरैश्च विविधाकारैः स्फीतैर्जनपदैरपि ।। ४९.९७ ।।

वृक्षैः पुष्पफलोपेतैः समन्ताद्धनधान्यवान्।
क्षीरोदेन समुद्रेण सर्वतः परिवारितः।
शाकद्वीपस्तु विस्तारात् समेन तु समन्ततः ।। ४९.९८ ।।

तस्मिन् जनपदाः पुण्याः पर्वतान्तरिते शुभाः ।
वर्णाश्रमसमाकीर्णा देशास्ते सप्त वै स्मृताः ।। ४९.९९ ।।

न सङ्करश्च तेष्वस्ति वर्णाश्रमकृतः व्कचित् ।
धर्मस्य चाव्यभीचारादेकान्तसुखिताः प्रजाः ।। ४९.१०० ।।

न तेषु लोभो माया वा ईर्ष्यासूयाऽधृतिः कुतः।
विपर्ययो न तेष्वस्ति एतत् स्वाभाविकं स्मृतम् ।। ४९.१०१ ।।

करोत्पत्तिर्नतेष्वस्ति न दण्डो न च दण्डकाः।
स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ।। ४९.१०२ ।।

एतावदेव शक्यं वै तस्मिन् द्वीपे निवासिनाम्।
पुष्करं सप्तमं द्वीपं प्रवक्ष्यामि निबोधत ।। ४९.१०३ ।।

पुष्करेण तु द्वीपेन वृतः क्षीरोदको बहिः।
शाकद्वीपस्य विस्ताराद्‌द्विगुणेन समन्ततः ।। ४९.१०४ ।।

पुष्करे पर्वतः श्रीमान् एक एव महाशिलः।
चित्रै र्मणिमयैः शीलैः शिखरैस्तु समुच्छ्रितैः ।। ४९.१०५ ।।

द्वीपस्य तस्य पूर्वार्द्धे चित्रसानुः स्थितो महान्।
परिमण्डलसहस्राणि विस्तीर्णः पञ्चविंशतिः ।। ४९.१०६ ।।

ऊर्द्द्वञ्चैव चतुस्त्रिशत्सहस्राणि समाचितः।
द्वीपार्द्धस्य परिस्तोमः पर्वतो मानसोत्तमः ।। ४९.१०७ ।।

स्थितो वेलासमीपे तु नवचन्द्र इवोदितः।
योजनानां सहस्राणि ऊर्द्ध्वं पञ्चशदुच्छ्रितः ।। ४९.१०८ ।।

तावदेव स विस्तीर्णः सर्वतः परिमण्डलः।
स एवं द्वीपपश्चार्द्धे मानसः पृथिवीधरः ।। ४९.१०९ ।।

एक एव महासानुः सन्निवेशाद्द्विधा कृतः।
स्वादूदकेनोदधिना सर्वतः परिवारितः ।। ४९.११० ।।

पुष्करद्वीपविस्ताराद्विस्तीर्णोऽसौ समन्ततः।
तस्मिन् द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ।
अभितो मानसस्याथ पर्वतस्यानुमण्डलौ ।। ४९.१११ ।।

महावीतन्तु यद्वर्षं बाह्यतो मानसस्य तत्।
तस्यैवाभ्यन्तरे यत्तु धातकीखण्डमुच्यते ।। ४९.११२ ।।

दशवर्षसहस्राणि तत्र जेवन्ति मानवाः।
आरोग्यसुखभूयिष्ठा मानसीं सिद्धिमास्थिताः ।। ४९.११३ ।।

सममायुश्च रूपञ्च तस्मिन् वर्षद्वये स्थितम्।
अधमोत्तमौ न तेष्वास्तां तुल्यास्ते रूपशीलतः ।। ४९.११४ ।।

न तत्र वञ्चको नेर्ष्या न स्तेना न भयं तथा।
निग्रहो न च दण्डोऽस्ति न लोभो न परिग्रहः ।। ४९.११५ ।।

सत्यानृतं न तत्रास्ति धर्माधर्मौ तथैव च।
वर्णाश्रमाणां वार्त्ता वा पाशुपाल्यं वणिक्क्रिया ।। ४९.११६ ।।

त्रयी विद्या दण्डनीतिः शुश्रूषा शल्यमेव च।
वर्षद्वये सर्वमेतत् पुष्करस्य न विद्यते ।। ४९.११७ ।।

न तत्र नद्यो वर्षञ्च शीतोष्णं वा न विद्यते ।
उद्भिज्जान्युदकान्यत्र गिरिप्रस्रवणानि च ।। ४९.११८ ।।

उत्तराणां कुरूणाञ्च तुल्यकालो जनः सदा।
सर्वत्र सुसुखस्तत्र जराक्लमविवर्जितः ।। ४९.११९ ।।

इत्येष धातकीखण्डो महावीते तथैव च ।
आनुपूर्व्याद्विधिः कृत्स्नः पुष्करस्य प्रकीर्तितः ।। ४९.१२० ।।

स्वादूदकेनोदधिना पुष्करः परिवारितः।
विस्तरान्मण्डलाच्चैव पुष्करस्य तथैव च ।। ४९.१२१ ।।

एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः।
द्वीपस्यानन्तरो यस्तु समुद्रस्तु समन्ततः ।। ४९.१२२ ।।

एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परात्।
अपाञ्चैव समुद्रेकात् समुद्रा इति संज्ञिताः ।। ४९.१२३ ।।

ऋषयो निवसन्त्यस्मिन् प्रजा यस्माच्चतुर्विधाः।
तस्माद्वर्षमिति प्रोक्तं प्रजानां सुखदन्तु तत् ।। ४९.१२४ ।।

ऋष इत्येव ऋषयः वृषः शक्तिप्रबन्धने।
इति प्रबन्धनात् सिद्धं वर्षत्वं तेन तेषु तत् ।। ४९.१२५ ।।

शुक्लपक्षे चन्द्रवृद्धौ समुद्रः पूर्यते तदा।
प्रक्षीयमाणे बहुले क्षीयतेऽस्तमिते खगे ।। ४९.१२६ ।।

आपूर्यमाणे उदधिः स्वत एवाभिपूर्यते।
ततोऽपक्षीयमाणेऽपि स्वात्मनैवापकृष्यते ।। ४९.१२७ ।।

उखास्थमग्निसंयोगात् जलमुद्रिच्यते यथा।
तथा महोदधिगतं तोयमुद्रिच्यते ततः ।। ४९.१२८ ।।

अन्यूनाह्यतिरिक्ताश्च वर्द्धन्त्यापो ह्रसन्ति च।
उदयास्तमितैश्चेन्दोः पक्षयोः शुक्लकृष्णयोः।
क्षयवृद्धिरेवमुदधेः सोमवृद्धिक्षयात्पुनः ।। ४९.१२९ ।।

दशोत्तराणि पञ्चैव अङ्गुलीनां शतानि तु।
अपां वृद्धिः क्षयो दृष्टः समुद्राणान्तु पर्वसु ।। ४९.१३० ।।

द्विरापत्वात् स्मृता द्वीपाः सर्वतश्चोदकावृताः।
उदकस्याधानं यस्माच्च तस्मादुदधिरुच्यते ।। ४९.१३१ ।।

अपर्वाणस्तु गिरयः पर्वभिः पर्वताः स्मृताः ।
प्लक्षद्वीपे तु गोमेदः पर्वतस्तेन चोच्यते ।। ४९.१३२ ।।

शाल्मलिः शाल्मलद्वीपे पूज्यते च महाद्रुमाः।
कुशद्वीपे कुशस्तम्बस्तस्य नाम्ना स उच्यते ।। ४९.१३३ ।।

क्रौञ्चद्वीपे गिरिः क्रौञ्चो मध्ये जनपदस्य ह।
शकद्वीपे द्रुमः शाकस्तस्य नाम्ना स उच्यते ।। ४९.१३४ ।।

न्यग्रोधः पुष्करद्वीपे तत्र तैः स नमस्कृतः।
महादेवः पुष्करे तु ब्रह्मा त्रिभुवनेश्वरः ।। ४९.१३५ ।।

तस्मिन्निवसति ब्रह्मा साध्यैः सार्द्धं प्रजापतिः।
उपासते तत्र देवास्त्रयस्त्रिंशन्महर्षिभिः।
स तत्र पूज्यते चैव देवैर्देवोत्तमोत्तमः ।। ४९.१३६ ।।

जम्बूद्वीपात्प्रवर्त्तन्ते रत्नानि विविधानि च।
द्वीपेषु तेषु सर्वेषु प्रजानां हि क्रमास्त्विह ।। ४९.१३७ ।।

सर्वसो ब्रह्मचर्येण सत्येन च दमेन च।
आरोग्यायुःप्रमाणाद्धि द्विगुणञ्च समन्ततः ।। ४९.१३८ ।।

एतस्मिन् पुष्करद्वीपे यदुक्तं वर्षकद्वयम्।
गोपायति प्रजास्तत्र स्वयं सज्जनमण्डिताः ।। ४९.१३९ ।।

ईश्वरो दण्डमुद्यम्य ब्रह्मा त्रिभुवनेश्वरः।
सविष्णुः सशिवो देवः सपिता सपितामहः ।। ४९.१४० ।।

भोजनञ्चाप्रयत्नेन तत्र स्वयमुपस्थितम् ।
षड्रसं सुमहावीर्यं भुञ्जते च प्रजाः सदा ।। ४९.१४१ ।।

परेण पुष्करस्याथ आवृत्या यः स्थितो महान् ।
स्वादूदकः समुद्रस्तु समन्तात्परिवेष्टितः ।। ४९.१४२ ।।

परेण तस्य महती दृश्यते लोक संस्थितिः।
काञ्चनी द्विगुणा भूमिः सर्वा चैकशिलोपमा ।। ४९.१४३ ।।

तस्मात्परेण शैलस्तु मर्यादान्ते तु मण्डलम्।
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ।। ४९.१४४ ।।

आलोकस्तस्य चार्वाक्तु निरालोकस्ततः परम्।
योजनानां सहस्राणि दश तस्योच्छ्रयः स्मृतः ।। ४९.१४५ ।।

तावांश्च विस्तरस्तस्य पृथिव्यां कामगश्च सः।
आलोके लोकशब्दस्तु निरालोके सलोकता।
लोकार्थं सम्मतो लोको निरालोकस्तु बाह्यतः ।। ४९.१४६ ।।

लोकविस्तारमात्रन्तु आलोकः सर्वतो बहिः।
 परिच्छिन्नः समन्ताच्च उदकेनावृतश्च सः।
निरालोकात्परश्चापि अण्डमावृत्य तिष्ठति ।। ४९.१४७ ।।

अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी।
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्तथा ।। ४९.१४८ ।।

जनस्तपस्तथा सत्य एतावान् लोकसङ्‌ग्रहः।
एकावानेव विज्ञेयो लोकान्तश्चैव तत्परः ।। ४९.१४९ ।।

कुम्बस्थायी भवेद्यादृक् प्रतीच्यान्दिशि चन्द्रमाः।
आदितः शुक्लपक्षस्य वपुरण्डस्य तद्विधम् ।। ४९.१५० ।।

अण्डानामीदृशानान्तु कोट्यो ज्ञेयाः सहस्रशः।
तिर्यगूर्ध्वमधस्ताच्च कारणस्याव्ययात्मनः।
कारणैः प्राकृतैस्तत्र ह्यावृतं प्रतिसप्तभिः ।। ४९.१५१ ।।

दशाधिक्येन चान्योन्यं धारयन्ति परस्परम्।
परस्परावृताः सर्वे उत्पन्नाश्च परस्परात् ।। ४९.१५२ ।।

अण्डस्यास्य समन्तात्तु सन्निविष्टो घनोदधिः।
समन्ताद्येन तोयेन धार्यमाणः स तिष्ठति ।। ४९.१५३ ।।

बाह्यतो घनतोयस्य तिर्यगूर्द्ध्वानुमण्डलम्।
धार्यमाणं समन्तात्तु तिष्ठते घनतेजसा ।। ४९.१५४ ।।

अयोगुडनिभो वह्निः समन्तान्मण्डलाकृतिः।
समन्ताद्धनवातेन धार्यमाणः स तिष्ठति।
घनवातस्तथाकाशन्धारयाणस्तु तिष्ठति ।। ४९.१५५ ।।

भूतादिश्च तथाकाशं भूताद्यञ्चाप्यसौ महान् ।
महान् व्याप्तो ह्यनन्तेन अव्यक्तेन तु धार्यते ।। ४९.१५६ ।।

अनन्तमपरिव्यक्तन्दशधा सूक्ष्म एव च।
अनन्तमकृतात्मानमनादिनिधनञ्च तत् ।। ४९.१५७ ।।

अतीत्य पर तो घोरमनालम्बमनामयम्।
नैकयोजनसाहस्रं विप्रकृष्टं तमोवृतम् ।। ४९.१५८ ।।

तम एव निरालोकममर्यादमदेशिकम्।
देवानामप्यविदिंतं व्यवहारविवर्ज्जितम् ।। ४९.१५९ ।।

तमसोऽन्ते च विख्यातमाकाशान्ते च भास्वरम्।
मर्यादायामतस्तस्य शिवस्यायतनं महत् ।। ४९.१६० ।।

त्रिदशानामगम्यन्तु स्थानं दिव्यमिति श्रुतिः।
महतो देवदेवस्य मर्यादायां व्यवस्थितम् ।। ४९.१६१ ।।

चन्द्रादित्यावतप्तास्तु ये लोकाः प्रथिता बुधैः।
ते लोका इत्यभिहिता जगतश्च न संशयः ।। ४९.१६२ ।।

रसातलतलात् सप्त सप्तैवोर्द्ध्वतलाः क्षितौ।
सप्तस्कन्धास्तथा वायोः सब्रह्मसदना द्विजाः ।। ४९.१६३ ।।

आपातालाद्दिवं यावदत्र पञ्चविधा गतिः।
प्रमाणमेतज्जगत एष संसारसागरः ।। ४९.१६४ ।।

अनाद्यन्ता प्रयात्येवं नैकजातिसमुद्भवाः।
विचित्रा जगतः सा वै प्रवृत्तिरनवस्थिता ।। ४९.१६५ ।।

यथैतद् भौतिकं नाम निसर्गबहुविस्तरम्।
अतीन्द्रियैर्महाभागैः सिद्धैरपि न लक्ष्यते ।। ४९.१६६ ।।

पृथिव्याञ्चाग्निवायूनां महतस्तमसस्तथा।
ईश्वरस्य तु देवस्य अनन्तस्य द्विजोत्तमाः ।। ४९.१६७ ।।

क्षयो वा परिमाणं वा अन्तो वापि न विद्यते।
अनन्त एष सर्वत्र सर्वस्थानेषु पठ्यते।
तस्य चोक्तं मया पूर्वं तस्मिन्नामानुकीर्त्तने ।। ४९.१६८ ।।

य एष शिवनाम्ना हि तद्वः कार्त्स्न्येन कीर्तितम्।
स एष सर्वत्र गतः सर्वस्थानेषु पूज्यते ।। ४९.१६९ ।।

भूमौ रसातले चैव आकाशे पवनेऽनले।
अर्णवेषु च सर्वेषु दिवि चैव न संशयः ।। ४९.१७० ।।

तथा तपसि विज्ञेय एष एव महाद्युतिः।
अनेकधा विभक्ताङ्गो महायोगी महेश्वरः।
सर्वलोकेषु लोकेश इज्यते बहुधा प्रभुः ।। ४९.१७१ ।।

एवं परस्परोत्पन्ना धार्यन्ते च परस्परान्।
आधाराधेयभावेन विकारास्ते विकारिणः ।। ४९.१७२ ।।

पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम्।
परस्पराधिकाश्चैव प्रविष्टाश्च परस्परम् ।। ४९.१७३ ।।

यस्माद्विष्टाश्च तेऽन्योन्यं तस्मात् स्थैर्यमुपागताः।
प्रागासन् ह्यविशेषास्तु विशेषान्योन्यवेशनात्।
पृथिव्याद्याश्च वाय्वन्ताः परिच्छिन्नास्त्रयस्तु ते ।। ४९.१७४ ।।

गुणापचयसारेण परिच्छेदो विशेषतः।
शेषाणां तु परिच्छेदः सौक्ष्म्यान्नेह विभाव्यते ।। ४९.१७५ ।।

भूतेभ्यः परतस्तेभ्यो ह्यालोकः परतः स्मृतः।
भूतान्यालोक आकाशे परिच्छिन्नानि सर्वशः ।। ४९.१७६ ।।

पात्रे महति पात्राणि यथैवान्तर्गतानि तु।
भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात्।
तथा ह्यालोक आकाशे भेदास्त्वन्तर्गता मताः ।। ४९.१७७ ।।

कृत्स्नान्येतानि चत्वारि अन्योन्यस्याधिकानि तु ।
यावदेतानि भूतानि तावदुत्पत्ति रुच्यते ।। ४९.१७८ ।।

जन्तूनामिह संस्कारो भूतेष्वन्तर्गतो मताः।
प्रत्याख्याय च भूतानि कार्योत्पत्तिर्न विद्यते ।। ४९.१७९ ।।

तस्मात्परिमिता भेदाः स्मृताः कार्यात्मकास्तु ते।
कारणात्मकास्तथैव स्युर्भेदा ये महदादयः ।। ४९.१८० ।।

इत्येष सन्निवेशो वो मया प्रोक्तो विभागशः।
सप्तद्वीपसमुद्राया याथातथ्येन वै द्विजाः ।। ४९.१८१ ।।

विस्तारान्मण्जलाच्चैव प्रसंख्यातेन चैव हि ।
वैश्वरूपं प्रधानस्य परिमाणैकदेशिकम् ।। ४९.१८२ ।।

अदिष्ठानं भगनतो यस्य सर्वमिदं जगत् ।
एवं भूतगणाः सप्त सन्निविष्टाः परस्परम् ।। ४९.१८३ ।।

एतावान् सन्निवेशस्तु मया शक्यः प्रभावितु म्।
एतावदेव श्रोतव्यं सन्निवेशे तु पार्थिव ।। ४९.१८४ ।।

सप्त प्रकृतयस्त्वेता धारयन्ति परस्परम्।
तास्वल्पपरिमाणेन प्रसङ्ख्यातुमिहोच्यते।
असङ्ख्येयाः प्रकृतयस्तिर्यगूर्द्ध्वमधश्च याः ।। ४९.१८५ ।।

तारकासन्निवेशश्च यावद्दिव्यं तु मण्जलम्।
मर्यादासन्निवेशस्तु भूमेस्तदनुमण्डलम्।
अतः परं प्रवक्ष्यामि पृथिव्यां वै द्विजोत्तमाः ।। ४९.१८६ ।।

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामैकोनपञ्चाशोऽध्यायः ।। ४९ ।।