वायुपुराणम्/पूर्वार्धम्/अध्यायः ५५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५४ वायुपुराणम्
अध्यायः ५५
वेदव्यासः
अध्यायः ५६ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।।ऋषय ऊचुः।।
गुणकर्मप्रभावैश्च कोऽधिको वदतां वरः।
श्रोतुमिच्छामहे सम्यगाश्चर्यं गुणविस्तरम् ।। ५५.१ ।।

।।सूत उवाच।।
अत्राप्युदाहरन्तीममिति हासं पुरातनम् ।
महादेवस्य माहात्म्यं विभुत्वञ्च महात्मनः ।। ५५.२ ।।

पूर्वं त्रैलोक्यविजये विष्णुना समुदाहृतम्।
बलिं बद्ध्वा महौजास्तु त्रैलोक्याधि पतिः पुरा ।। ५५.३ ।।

प्रणष्टेषु च दैत्येषु प्रहृष्टे च शचीपतौ।
अथाजग्मुः प्रभुं द्रष्टुं सर्वे देवाः सवासवाः ।। ५५.४ ।।

यत्रास्ते विश्वरूपात्मा क्षीरोदस्य समी पतः।
सिद्धब्रह्मर्षयो यक्षा गन्धर्वाप्सरसाङ्गणाः ।। ५५.५ ।।

नागा देवर्षयश्चैव नद्यः सर्वे च पर्वताः।
अभिगम्य महात्मानं स्तुवन्ति पुरुषं हरिम् ।। ५५.६ ।।

त्वं धाता त्वञ्च कर्त्ताऽस्य त्वं लोकान् सृजसि प्रभो।
त्वत्प्रसादाच्च कल्याणं प्राप्तं त्रैलोक्यमव्ययम्।
असुराश्च जिताः सर्वे बलिर्बद्धश्च वै त्वया ।। ५५.७ ।।

एव मुक्तः सुरैर्विष्णुः सिद्धैश्च परमर्षिभिः।
प्रत्युवाच ततो देवान् सर्वांस्तान् पुरुषोत्तमः ।। ५५.८ ।।

श्रूयतामभिधास्यामि कारणं सुरसत्तमाः।
यः स्रष्टा सर्वभूतानां कालः कालकरः प्रभुः ।। ५५.९ ।।

येन हि ब्रह्मणा सार्द्धं सृष्टा लोकाश्च मायया।
तस्यैव च प्रसादेन आदौ सिद्धत्वमागतम् ।। ५५.१० ।।

पुरा तमसि चाव्यक्ते त्रैलोक्ये ग्रासिते मया।
उदरस्थेषु भूतेषु लोकेऽहं शयितस्तदा ।। ५५.११ ।।

सहस्रशीर्षा भूत्वा च सहस्राक्षः सहस्रपात्।
शङ्खचक्रगदा पाणिः शयितो विमलेऽम्भसि ।। ५५.१२ ।।

एतस्मिन्नन्तरे दूरात् पश्यामि ह्यमितप्रभम्।
शतसूर्यप्रतीकाशं ज्वलन्तं स्वेन तेजसा ।। ५५.१३ ।।

चतुर्वक्रं महा योगं पुरुषं काञ्चनप्रभम्।
कृष्णाजिनधरं देवं कमण्डलुविभूषितम्।
निमेषान्तरमात्रेण प्राप्तोऽसौ पुरुषोत्तमः ।। ५५.१४ ।।

ततो मामब्रवीद्ब्रह्मा सर्वलोक नमस्कृतः।
कस्त्वं कुतो वा किञ्चेह तिष्ठसे वद मे विभो ।। ५५.१५ ।।

अहं कर्त्ताऽस्मि लोकानां स्वयम्बूर्विश्वतोमुखः।
एवमुक्तस्तदा देन ब्रह्मणाहमुवाच तम् ।। ५५.१६ ।।

अहं कर्त्ता च लोकानां संहर्त्ता च पुनः पुनः।
एवं सम्भाषमाणाभ्यां परस्परजयैषिणाम्।
उत्तरां दिशमास्थाय ज्वाला दृष्टाप्यधिष्ठिता ।। ५५.१७ ।।

ज्वालान्ततस्तामालोक्य विस्मित्तौ च तदानयोः ।
तेजसा चैव तेनाथ सर्वं ज्योतिःकृतं जलम् ।। ५५.१८ ।।

वर्द्धमाने तदा वह्नावत्यन्तपरमाद्भुते।
अतिदुद्राव तां ज्वालां ब्रह्मा चाहञ्च सत्वरः ।। ५५.१९ ।।

दिवं भूमिञ्च विष्टभ्य तिष्ठन्तं ज्वालमण्डलम्।
तस्य ज्वालस्य मध्ये तु पश्यावो विपुलप्रभम् ।। ५५.२० ।।

प्रादेशमात्रमव्यक्तं लिङ्गं परमदीपितम्।
न च तत्काञ्चनं मध्ये न शैलं न च राजतम् ।। ५५.२१ ।।

अनिर्द्देश्यमचिन्त्यञ्च लक्ष्यालक्ष्यं पुनः पुनः।
महौजसं महाघोरं वर्द्धमानं भृशं तदा।
ज्वालामालायतं न्यस्तं सर्वभूतभयङ्करम् ।। ५५.२२ ।।

अस्य लिङ्गस्य योऽन्तं वै गच्छते मन्त्रकारणम्।
घोर रूपिणमत्यर्थं भिन्दन्तमिव रोदसी ।। ५५.२३ ।।

ततो मामब्रवीद्ब्रह्मा अधो गच्छ त्वतन्द्रितः।
अन्तमस्य विजानीमो लिङ्गस्य तु महात्मनः ।। ५५.२४ ।।

अहमूर्द्ध्वं गमिष्यामि यावदन्तोऽस्य दृश्यते।
तदा तौ समयं कृत्वा गतावूर्द्ध्वमधश्च ह ।। ५५.२५ ।।

ततो वर्षसहस्रन्तु अहं पुनरधो गतः।
न च पश्यामि तस्यान्तं भीतश्चाहं न संशयः ।। ५५.२६ ।।

तथा ब्रह्मा च श्रान्तश्च न चान्तन्तस्य पश्यति।
समागतो मया सार्द्धं तत्रैव च महाम्भसि ।। ५५.२७ ।।

ततो विस्मयमापन्नावुभौ तस्य महात्मनः ।।

मायया मोहितौ तेन नष्टसंज्ञौ व्यवस्थितौ ।। ५५.२८ ।।

ततो ध्यानगतन्तत्र ईश्वरं सर्वतोमुखम्।
प्रभवं निधऩञ्चैव लोकानां प्रभुमव्ययम् ।। ५५.२९ ।।

ब्रह्माञ्जलिपुटो भूत्वा तस्मै शर्वाय शूलिने।
महाभैरवनादाय भीमरूपाय दंष्ट्रिणे।
अव्यक्ताय महान्ताय नमस्कारं प्रकुर्महे ।। ५५.३० ।।

नमोऽस्तु ते लोकसुरेश देव नमोऽस्तु ते भूतपते महांश्च।
नमोऽस्तु ते शाश्वत सिद्धयोने नमोऽस्तु ते सर्वजगत्प्रतिष्ठ ।। ५५.३१ ।।

परमेष्ठी परं ब्रह्म अक्षरं परमं पदम्।
श्रेष्ठस्त्वं वामदेवश्च रुद्रः स्कन्दः शिवः प्रभुः ।। ५५.३२ ।।

त्वं यज्ञस्त्वं वषट्‌कारस्त्वमोङ्कारः परं पदम्।
स्वाहाकारो नमस्कारः संस्कारः सर्वकर्मणाम् ।। ५५.३३ ।।

स्वधाकारश्च जाप्यश्च व्रतानि नियमास्तथा।
वेदा लोकाश्च देवाश्च भगवानेव सर्वशः ।। ५५.३४ ।।

आकाशस्य च शब्दस्त्वं भूतानां प्रभवाव्ययम्।
भूमेर्गन्धो रसश्वापां तेजोरूपं महेश्वर ।। ५५.३५ ।।

वायोः रुपर्शश्च देवश्च वपुश्चन्द्रमसस्तथा ।
बुधो ज्ञानञ्च देवेश प्रकृतौ बीजमेव च ।। ५५.३६ ।।

त्वं कर्त्ता सर्वभूतानां कालो मृत्युर्यमोऽन्तकः।
त्वं धारयसि लोकास्त्रींस्त्वमेव सृजसि प्रभो ।। ५५.३७ ।।

पूर्वेण वदनेन त्वमिन्द्रत्वञ्च प्रकाशसे।
दक्षिणेन च वक्रेण लोकान् संक्षीयसे प्रभो ।। ५५.३८ ।।

पश्चिमेन तु वक्रेण वरुणत्वं करोषि वै।
उत्तरेण तु वक्रेण सौम्यत्वञ्च व्यवस्थितम् ।। ५५.३९ ।।

राजसे बहुधा देव लोकानां प्रभवाव्ययः।
आदित्या वसवो रुद्रा मरुतश्चाश्विनीसुतौ ।। ५५.४० ।।

साध्या विद्याधरा नागाश्वारणाश्च तपोधनाः.
वालखिल्या महात्मानस्तपः सिद्धाश्च सुव्रताः ।। ५५.४१ ।।

त्वत्तः प्रसूता देवेश ये चान्ये नियतव्रताः।
उमा सीता सिनी वाली कुहूर्गायत्रिरेव च ।। ५५.४२ ।।

लक्ष्मीः कीर्त्तिर्धृतिर्मेधा लज्जा क्षान्तिर्वपुः स्वधा।
तुष्टिः पुष्ठिः क्रिया चैव वाचां देवी सरस्वती।
त्वत्तः प्रसूता देवेश सन्ध्या रात्रिस्तथैव च ।। ५५.४३ ।।

सूर्यायुतानामयुतप्रभा च नमोऽस्तु ते चन्द्रसहस्रगोचर।
नमोऽस्तु ते पर्वतरूपधारिणे नमोऽस्तु ते सर्वगुणाकराय ।। ५५.४४ ।।

नमोऽस्तु ते पट्टिशरूपधारिणे नमोऽस्तु ते चर्मविभूतिधारिणे ।
नमोऽस्तु ते रुद्रपिनाकपाणये नमोऽस्तु ते सायकचक्रधारिणे ।। ५५.४५ ।।

नमोऽस्तु ते भस्मविभूषिताङ्ग नमोऽस्तु ते कामशरीरनाशन।
नमोऽस्तु ते देव हिरण्यवाससे नमोऽस्तु ते देव हिरण्यबाहवे ।। ५५.४६ ।।

नमोऽस्तु ते देव हिरण्यरूप नमोऽस्तु ते देव हिरण्यनाभ।
नमोऽस्तु ते नेत्रसहस्रचित्र नमोऽस्तु ते देव हिरण्यरेतः ।। ५५.४७ ।।

नमोऽस्तु ते देव हिरण्यवर्ण नमोऽस्तु ते देव हिरण्यगर्भ।
नमोऽस्तु ते देव हिरण्यचीर नमोऽस्तु ते देव हिरण्यदायिने ।। ५५.४८ ।।

नमोऽस्तु ते देव हिरण्यमालिने नमोऽस्तु ते देव हिरण्यवाहिने।
नमोऽस्तु ते देव हिरण्यचीर नमोऽस्तु ते भैरवनादनादिने ।। ५५.४९ ।।

नमोऽस्तु ते भैरववेगवेग नमोऽस्तु ते शङ्कर नीलकण्ठ।
मनोऽस्तु ते दिव्यसहस्रबाहो नमोऽस्तु ते नर्त्तनवादनप्रिय ।। ५५.५० ।।

एवं संस्तूयमानस्तु व्यक्तो भूत्वा महामतिः।
भाति देवो महायोगी सूर्यकोटिसमप्रभः ।। ५५.५१ ।।

अभिभाष्यस्तदा हृष्टो महादेवो महेश्वरः।
वक्रकोटिसहस्रेण ग्रसमान इवापरम् ।। ५५.५२ ।।

एकग्रीवस्त्वेकजटो नानाभूषण्भूषितः।
नानाचित्रविचित्राङ्गो नानामाल्यानुलेपनः ।। ५५.५३ ।।

पिनाकपाणिर्भगवान् वृषभासनशूलधृक् ।
दण्डकृष्णाजिनधरः कपाली घोररूपधृक् ।। ५५.५४ ।।

व्यालयज्ञोपवीती च सुराणामभयङ्करः।
दुन्दुभिस्वननिर्घोषपर्जन्यनिनदोपमः।
मुक्तो हासस्तदा तेन नभः सर्वमपूरयत् ।। ५५.५५ ।।

तेन शब्देन महता वयं भीता महात्मनः।
तदोवाच महायोगी प्रीतोऽहं सुरसत्तमौ ।। ५५.५६ ।।

पश्येताञ्च महामायां भयं सर्वं प्रमुच्यताम् ।
युवां प्रसूतौ गात्रेषु मम पूर्वसनातनौ ।। ५५.५७ ।।

अयं मे दक्षिणो बाहुर्ब्रह्मा लोकपितामहः।
वामो बाहुश्च मे विष्णुर्नित्यं युद्धेषु तिष्ठति।
प्रीतोऽहं युवयोः सम्यग्वरं दझि यथेप्सितम् ।। ५५.५८ ।।

ततः प्रहृष्टमनसौ प्रणतौ पादयोः पुनः ।
ऊचतुश्च महात्मानौ पुनरेव तदानघौ ।। ५५.५९ ।।

यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ।
भक्तिर्भवतु नौ नित्यं त्वयि देव सुरेश्वर ।। ५५.६० ।।

।।भगवानुवाच।।
एवमस्तु महाभागौ सृजतां विविधाः प्रजाः।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ।। ५५.६१ ।।

एवमेष मयोक्तो वः प्रभावस्तस्य योगिनः।
तेन सर्वमिदं सृष्टं हेतुमात्रा वयन्त्विह ।। ५५.६२ ।।

एतद्धि रूपमज्ञातमव्यक्तं शिवसंज्ञितम्।
अचिन्त्यं तददृश्यञ्च पश्यन्ति ज्ञानचक्षुषः ।। ५५.६३ ।।

तस्मै देवाधिपत्याय नमस्कारं प्रयुङ्क्त ह।
येन सूक्ष्ममचिन्त्यञ्च पश्यन्ति ज्ञानचक्षुषः ।। ५५.६४ ।।

महादेव नमस्तेऽस्तु महेश्वर नमोऽस्तु ते।
सुरासुरवर श्रेष्ठ मनोहंस नमोऽस्तु ते ।। ५५.६५ ।।

।।सूत उवाच।।
एतच्छ्रुत्वा गताः सर्वे सुराः स्वं स्वं निवेशनम्।
नमस्कारं प्रयुञ्जानाः शङ्कराय महात्मने ।। ५५.६६ ।।

इमं स्तवं पठेद्यस्तु ईश्वरस्य महात्मनः।
कामांश्च लभते सर्वान् पापेभ्यस्तु विमुच्यते ।। ५५.६७ ।।

एतत्सर्वं सदा तेन विष्णुना प्रभविष्णुना।
महादेवप्रसादेन उक्तं ब्रह्म सनातनम्।
एतद्वः सर्वमाख्यातं मया माहेश्वरं बलम् ।। ५५.६८ ।।

इति श्रीमहापुराणे वायुप्रोक्ते लिङ्गोद्भवस्तवो नाम पञ्चपञ्चाशोऽध्यायः ।। ५५ ।।