वायुपुराणम्/पूर्वार्धम्/अध्यायः ३२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३१ वायुपुराणम्
अध्यायः ३२
वेदव्यासः
अध्यायः ३३ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१


।।वायु रुवाच।।
अत ऊर्द्ध्वं प्रवक्ष्यामि प्रणवस्य विनिश्वयम्।
ओङ्कारमक्षरं ब्रह्म त्रिवर्णञ्चादितः स्मृतम् ।। ३२.१ ।।

यो यो यस्य यथा वर्णो विहितो देवतास्तथा।
ऋचो यजूंषि सामानि वायुरग्निस्तथा जलम् ।। ३२.२ ।।

तस्मात्तु अक्षरादेव पुनरन्ये प्रजज्ञिरे।
चतुर्द्दश महात्मानो देवानां ये तु दैवताः ।। ३२.३ ।।

तेषु सर्वगतश्चैव सर्वगः सर्वयोगवित् ।
अनुग्रहाय लोकानामादिमध्यान्त उच्यते ।। ३२.४ ।।

सप्तर्षयस्तथेन्द्रा ये देवाश्च पितृभिः सह।
अक्षरान्निः सृताः सर्वे देवदेवान्महेश्वरात् ।। ३२.५ ।।

इहामुत्र हितार्थाय वदन्ति परमं पदम्।
पूर्वमेव मयोक्तस्ते कालस्तु युगसंज्ञितः ।। ३२.६ ।।

कृतं त्रेता द्वापरञ्च युगादिः कलिना सह।
परिवर्त्तमानैस्तैरेव भ्रममाणेषु चक्रवत् ।। ३२.७ ।।

देवतास्तु तदोद्विग्नाः कालस्य वशमागताः.
न शक्नुवन्ति तन्मानं संस्स्थापयितुमात्मना ।। ३२.८ ।।

तदा ते वाग्यता भूत्वा आदौ मन्वन्तरस्य वै।
ऋषयश्चैव देवाश्च इन्द्रश्चैव महातपाः ।। ३२.९ ।।

समाधाय मनस्तीव्रं सहस्रं परिवत्सरान्।
प्रपन्नास्ते महादेवं भीताः कालस्य वै तदा ।। ३२.१० ।।

अयं हि कालो देवेशश्चतुर्मूर्तिश्चतुर्मुखः ।
कोऽस्य विद्यान्महादेव अगाधस्य महेश्वर ।। ३२.११ ।।

अथ दृष्ट्वा महादेवस्तं तु कालञ्चतुर्मुखम्।
न भेतव्यमिति प्राह को वः कामः प्रदीयताम् ।। ३२.१२ ।।

तत्करिष्याम्यहं सर्वं न वृथायं परिश्रमः ।
उवाच देवो भगवान् स्वयङ्कालः सुदुर्जयः ।। ३२.१३ ।।

यदेतस्य मुखं श्वेतं चतुर्जिह्वं हि लक्ष्यते।
एतत् कृतयुगं नाम तस्य कालस्य वै मुखम्।
असौ देवः सुरश्रेष्ठो ब्रह्मा वैवस्वतो मुखः ।। ३२.१४ ।।

यदेतद्रक्तवर्णाभं तृतीयं वः स्मृतं मया ।
त्रिजिह्वं लेलिहानं तु एतत् त्रेतायुगं द्विजाः ।। ३२.१५ ।।

अत्र यज्ञप्रवृत्तिस्तु जायते हि महेश्वरात्।
ततोऽत्र इज्यते यज्ञस्तिस्रो जिह्वास्त्रयोऽग्नयः ।
इष्ट्वा चैवाग्नयो विप्राः कालजिह्वा प्रवर्त्तते ।। ३२.१६ ।।

यदेतद्वै मुखं भीमं द्विजिह्वं रक्तपिङ्गलम्।
द्विपादोऽत्र भविष्यामि द्वापरं नाम तद्युगम् ।। ३२.१७ ।।

यदेतत् कृष्णवर्णाभं तुरीयं रक्तलोचनम्।
एकजिह्वं पृथुश्यामं लेलिहानं पुनः पुनः ।। ३२.१८ ।।

ततः कलियुगं घोरं सर्वलोकभयङ्करम्।
कल्पस्य तु मुखं ह्येतच्चतुर्थं नाम भीषणम् ।। ३२.१९ ।।

न मुखं नापि निर्वाणं तस्मिन् भवति वै युगे।
कालग्रस्ता प्रजा चापि युगे तस्मिन् भविष्यति ।। ३२.२० ।।

ब्रह्मा कृतयुगे पूज्यस्त्रेतायां यज्ञ इच्यते।
द्वापरे पूज्यते विष्णुरहम्पूज्यश्चतुर्ष्वपि ।। ३२.२१ ।।

ब्रह्मा विष्णुश्च यज्ञश्च कालस्यैव कलास्त्रयः।
सर्वेष्वेव हि कालेषु चतुर्मूर्तिर्महेश्वरः ।। ३२.२२ ।।

अहं जनो जनयिता (वः) कालः कालप्रवर्त्तकः।
युगकर्ता तथा चैव परं परपरायणः ।। ३२.२३ ।।

तस्मात् कलियुगं प्राप्य लोकानां हितकारणात्।
अभयार्थञ्च देवानामुभयोर्लोकयोरपि ।। ३२.२४ ।।

तदा भव्यश्च पूज्यश्च भविष्यामि सुरोत्तमाः।
तस्माद्भयं न कार्यं च कलिं प्राप्य महौजसः ।। ३२.२५ ।।

एवमुक्ता स्ततः सर्वा देवता ऋषिभिः सह।
प्रणम्य शिरसा देवं पुनरूचुर्जगत्पतिम् ।। ३२.२६ ।।

।।देवर्षय ऊचुः।।
महातेजा महाकायो महावीर्यो महाद्युतिः।
भीषणः सर्वभूतानां कथं कालश्चतुर्मुखः ।। ३२.२७ ।।

।।महादेव उवाच।।
एष कालश्चतुर्मूर्तिश्चतुर्दंष्ट्रश्चतुर्मुखः।
लोकसंरक्षणार्थाय अतिक्रामति सर्वशः ।। ३२.२८ ।।

नासाध्यं विद्यते चास्य सर्वस्मिन् सचराचरे।
कालः सृजति भूतानि पुनःसंहरति क्रमात् ।। ३२.२९ ।।

सर्वे कालस्य वशगा न कालः कस्यचिद्वशे।
तस्मात्तु सर्वभूतानि कालः कलयते सदा ।। ३२.३० ।।

विक्रमस्य पदान्यस्य पूर्वोक्तान्येकसप्ततिः।
तानि मन्वन्तराणीह परिवृत्तयुगक्रमात् ।। ३२.३१ ।।

एकं पदं परिक्रम्य पदानामेकसप्ततिः।
यदा कालः प्रक्रमते तदा मन्वन्तरक्षयः ।। ३२.३२ ।।

एवमुक्त्वा तु भगवान् देवर्षिपितृदानवान्।
नमस्कृतश्च तैः सर्वैस्तत्रैवान्तरधीयत ।। ३२.३३ ।।

एवं स काले भगवान् देवर्षिपितृदानवान्।
पुनः पुनः संहरते सृजते च पुनः पुनः ।। ३२.३४ ।।

अतो मन्वन्तरे चैव देवर्षिपितृदानवैः।
पूज्यते भगवानीशो भयात् कालस्य तस्य वै ।। ३२.३५ ।।

तस्मात् सर्वप्रयत्नेन कलौ कुर्यात्तपो द्विजः।
प्रपन्नस्य महादेवं तस्य पुण्यफलं महत्।
तस्माद्देवा दिवं गत्वा अवतीर्य च भूतले ।। ३२.३६ ।।

ऋषयश्चैव देवाश्च कलिम्प्राप्य सुदारुणम्।
तप इच्छन्ति भूयिष्ठं कर्त्तुं धर्मपरायणाः।
अवतारान् कलिं प्राप्य करोति च पुनः पुनः ।। ३२.३७ ।।

एवं कालान्तरे सर्वे येऽतीता वै सहस्रशः।
वैवस्वतेऽन्तरे तस्मिन् देवराजर्षयस्तथा ।। ३२.३८ ।।

देवापिः पोरवो राजा मनुश्वेक्ष्वाकुवंशजाः।
महायोगबलोपेताः कालान्तरमुपासते ।।३२.३९ ।।

क्षीणे कलियुगे तस्मिस्तिष्ये त्रेतायुगे कृते।
सप्तर्षिभिश्चैव सार्द्धं भाव्ये त्रेतायुगे पुनः
गोत्राणां क्षत्रियाणाञ्च भविष्यास्ते प्रकीर्तिताः ।। ३२.४०।
द्वापरान्ते प्रतिष्ठन्ते क्षत्रिया ऋषिभिः सह।
कृते त्रेतायुगे चैव तथा क्षीणे च द्वापरे।
नराः पातकिनो ये वै वर्त्तन्ते ते कलौ स्मृताः ।। ३२.४१ ।।

मन्वन्तराणां सप्तानां सान्तानार्था श्रुतिः स्मृतिः।
एवमेतेषु सर्वेषु युगक्षयक्रमस्तथा ।। ३२.४२ ।।

परस्परं युगानाञ्च ब्रह्मक्षत्रस्य चोद्भवः।
यथा वै प्रकृतिस्तेभ्यः प्रवृत्तानां यथा क्षयम् ।। ३२.४३ ।।

जामदग्न्येन रामेण क्षत्रे निरवशोषिते।
क्रियन्ते कुलटाः सर्वाः क्षत्रियैर्वसुधाधिपैः।
दिवं गतानहं तुभ्यं कीर्त्तयिष्ये निबोधत ।। ३२.४४ ।।

ऐडमिक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते।
राजानः श्रेणिबन्धास्तु तक्षान्ये क्षत्रिया भुवि ।। ३२.४५ ।।

ऐडवंशेऽथ सम्भूता यथा चेक्ष्वाकवो नृपाः।
तेभ्य एव शतं पूर्णं कुलानामभिषेचितम् ।। ३२.४६ ।।

तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः ।
भोजन्तु त्रिशतं क्षत्रं चतुर्द्धा तद्यथादिशम् ।। ३२.४७ ।।

तेष्वतीतास्तु राजानो ब्रुवतस्तान्निबोधत।
शतं वै प्रतिविन्ध्यानां हैहयानां तथा शतम् ।। ३२.४८ ।।

धार्त्तराष्ट्रास्त्वेकशतं अशीतिर्जनमेजयाः।
शतं वै ब्रह्मदत्तानां कुलानां वीर्यिणां शतम् ।। ३२.४९ ।।

ततः शतन्तु पौलानां शतं काशिकुशादयः ।
तथापरं सहस्रन्तु येऽतीताः शशबिन्दवः।
इजानास्तेऽश्वमेधैस्तु सर्वे नियुतदक्षिणैः ।। ३२.५०।
एवं संक्षेपतः प्रोक्ता न शक्या विस्तरेण तु।
वक्तुं राजर्षयः कृत्स्ना येऽतीतास्तैर्युकैःसह ।। ३२.५१ ।।

एते ययातिवंशस्य बभूवुर्वंशवर्द्धनाः।
कीर्तिता द्युतिमन्तस्ते ये लोकान् धारयन्ति वै ।। ३२.५२ ।।

लभन्ते च वरान् पञ्च दुर्लभान् ब्रह्मलौकिकान् ।
आयुः पुत्रा धनं कीर्तिरैश्वर्यं भूतिरेव च ।। ३२.५३ ।।

धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य धीमताम्।
तथोक्ता लौकिकाश्चैव ब्रह्मलोकं व्रजन्ति वै ।। ३२.५४ ।।

चत्वार्याहुः सहस्राणि वर्षाणां च कृतं युगम् ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ।। ३२.५५ ।।

कृते वै प्रक्रियापादश्चतुःसाहस्र उच्यते।
तस्माच्चतुःशतं सन्ध्या सन्ध्यांशश्च यथाविधः ।। ३२.५६ ।।

त्रेतादीनि सहस्राणि संख्यया मुनिभिः सह।
तस्यापि त्रिशती सन्ध्या सन्ध्यांशस्त्रिशतः स्मृतः ।। ३२.५७ ।।

अनुषङ्गपादस्त्रेतायास्त्रिसाहस्रस्तु सङ्ख्यया।
द्वापरे द्वे सहस्रे तु वर्षाणां सम्प्रकीर्तितम् ।। ३२.५८ ।।

तस्यापि द्विशती सन्ध्या सन्ध्यांशो द्विशतस्तथा।
उपोद्वातस्तृतीयस्तु द्वापरे पाद उच्यते ।। ३२.५९ ।।

कलिं वर्षसहस्रन्तु प्राहुः सङ्ख्याविदो जनाः।
तस्यापि शतिका सन्ध्या सन्ध्यांशः शतमेव च ।। ३२.६० ।।

संहारपादः संख्यातश्वतुर्थो वै कलौ युगे।
ससन्ध्यानि सहांशानि चत्वारि तु युगानि वै ।। ३२.६१ ।।

एतद् द्वादशसाहस्रं चतुर्युगमिति स्मृतम्।
एवं पादैः सहस्राणि श्लोकानां पञ्च पञ्च च ।। ३२.६२ ।।

सन्ध्यासन्ध्यांशकैरेव द्वे सहस्रे तथाऽपरे।
एवं द्वादशसाहस्रं पुराणं कवयो विदुः ।। ३२.६३ ।।

यथा वेदश्चतुष्पादश्चतुष्पादं तथा युगम्।
यथा युगं चतुष्पादं विधात्रा विहितं स्वयम्।
छचतुष्पादं सुराणान्तु ब्रह्मणा विहितं पुरा ।। ३२.६४ ।।

इति श्रीमहापुराणे वायुप्रोक्ते युगधर्मनिरूपणं नाम द्वात्रिंशो ऽध्यायः ।। ३२ ।।