वायुपुराणम्/पूर्वार्धम्/अध्यायः ४५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४४ वायुपुराणम्
अध्यायः ४५
वेदव्यासः
अध्यायः ४६ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।।शांशपायन उवाच ।।
पूर्वापरौ समाख्यातौ द्वौ देशौ नस्त्वया प्रभो।
उत्तराणाञ्च वर्षाणां दक्षिणानाञ्च सर्वशः।
आचक्ष्व नो यथातथ्यं ये च पर्वतवासिनः ।। ४५.१ ।।

।।सूत उवाच।।
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु।
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ।। ४५.२ ।।

सर्वर्तुकामदाः सत्त्वा जरादुर्गन्धवर्जिताः।
शुक्राभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः ।। ४५.३ ।।

तत्रापि सुमहान् दिव्यो न्यग्रोधो रोहिणो महान्।
तस्य पीत्वा फलरसं पिबन्तो वर्त्तयन्त्युत ।। ४५.४ ।।

दशवर्षसहस्राणि शतानि दशपञ्च च।
जीवन्ति ते महाभागा सदा हृष्टा नरोत्तमाः ।। ४५.५ ।।

उत्तरेण तु श्वेतस्य श्रृङ्गसाह्वस्य दक्षिणे।
वर्षं हिरण्यतं नाम यत्र हैरण्यती नदी ।। ४५.६ ।।

महाबलाः सुतेजस्काजायन्तेतत्र मानवाः।
सर्वर्तुकामदाः सत्वा धनिनः प्रिय दर्शनाः ।। ४५.७ ।।

एकादश सहस्राणि वर्षाणां तेऽमितौजसः।
आयुष्प्रमाणं जीवन्ति शतानि दशपञ्च च ।। ४५.८ ।।

तस्मिन् वर्षे महावृक्षो लकुचः षड्रसाश्रयः।
तस्यपीत्वा फलरसं तत्र जीवन्ति मानवाः ।। ४५.९ ।।

त्रीणि श्रृङ्गवतः श्रृङ्गाण्युच्छ्रितानि महान्ति च ।
एकं मणिमयं तेषामेकञ्चैव हिरण्ययम्।
सर्वरत्न मयं चैकं भवनैरुपशोभितम् ।। ४५.१० ।।

उत्तरस्य समुद्रस्य समुद्रान्ते च दक्षिणे।
कुरवस्तत्र तद्वर्षं पुण्यं सिद्धनिषेवितम् ।। ४५.११ ।।

तत्र वृक्षा मधुफला नित्यं पुष्पफलोपगाः।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ।। ४५.१२ ।।

सर्वकामफलास्तत्र व्कचिद्वृक्षा मनोरमाः।
गन्धर्वाप्सरसोपेतं प्रक्षरन्ति मधूत्तमम् ।। ४५.१३ ।।

अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः।
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ।। ४५.१४ ।।

सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चन वालुका।
सर्वातः सुखसंस्पर्शा निष्पङ्का नीरुजा शुभा ।। ४५.१५ ।।

देवलोकाच्च्युतास्तत्र जायन्ते मानवाः शुभाः।
शुक्लाभिजनसम्पन्नाः सर्वे च स्थिर यौवनाः ।। ४५.१६ ।।

मिथुनानि प्रसूयन्ते स्त्रियश्चातिमनोहराः।
ते च तं क्षीरिणं वृक्षं पिबन्ति ह्यमृतोपमम् ।। ४५.१७ ।।

मिथुनं जायते सद्यः समञ्चैव विवर्द्धते।
समं शीलञ्च रूपं च म्रियन्ते चैव ते समम् ।। ४५.१८ ।।

अन्योन्यमनुरक्ताश्च चक्रवाकसधर्मिणः।
अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः ।। ४५.१९ ।।

त्रयोदश सहस्राणि शतानि दशपञ्च च।
जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः ।। ४५.२० ।।

कुरूणामपि चैतेषां श्रृणुध्वं विस्तरेण तु।
जारुधेः शैलराजस्याप्युत्तरेणोत्तरस्य हि।
दिक्षु सर्वासु यद्यत्र कीर्त्यमानं निबोधत ।। ४५.२१ ।।

अनेककन्दरदरीगुहानिर्झरमण्डितौ।
नैककुञ्जवनोपेतौ चित्रधातुविभूषितौ ।। ४५.२२ ।।

अनेकधातुकलिलौ सर्वधातुविभूषितौ।
पुष्पमूलफलोपेतौ सिद्धचारणसेवितौ ।। ४५.२३ ।।

द्वावप्येतौ सुमहतावुच्छ्रितौ कुल पर्वतौ।
ताभ्यां कूटशतैर्नैकैस्तद्द्वीपमुपसेवितम् ।। ४५.२४ ।।

चन्द्रकान्तश्च शैलश्च सूर्यकान्तश्च सानुमान् ।
ययोर्मध्ये न सा याता भद्रसोमा महानदी ।। ४५.२५ ।।

सहस्रशश्च नद्योऽन्याः प्रसन्नसुरसोदकाः।
पर्याप्तोदाः कुरूणां हि स्नानपानावगाहनैः ।। ४५.२६ ।।

तथाऽन्याः क्षीरवाहिन्यो महानद्यः सहस्रशः।
मधुमैरेयवाहिन्यो घृतवाहिन्य एव च ।। ४५.२७ ।।

दध्नः शतह्रदाश्चान्यास्ततः स्वाद्वन्नपर्वतः।
अमृतस्वादुकल्पानि फलानि विविधानि च ।। ४५.२८ ।।

गन्धवर्णरसाढ्यानि मूलानि च फलानि च।
पञ्चयोजनमानानि महागन्धानि सर्वशः ।। ४५.२९ ।।

नानावर्णप्रकाराणि पुष्पाणि च सहस्रशः।
उप भोगसहस्राणि भद्राणि च महान्ति च ।। ४५.३० ।।

गन्धवर्णरसाढ्यानि स्पर्शोपेतानि सर्वशः।
तमालागुरुगन्धानां चन्दनानां वनानि च ।। ४५.३१ ।।

भ्रमरैरुपगीतानि प्रफुल्लानि सदैव च।
वृक्षगुल्मलताढयानि वनानि सुसुखानि च ।। ४५.३२ ।।

षट्पदैरुपगीतानि द्विजैश्चान्यैर्द्विजोत्तमाः।
पझोत्पलवनाढ्यानि सरांसि च सहस्रशः ।। ४५.३३ ।।

भक्ष्यमाल्यसमृद्धाश्च बहुमाल्यानुलेपनाः।
मनोहरमुखैश्चित्रैः पक्षिसङ्घैर्निकूजिताः ।। ४५.३४ ।।

शयनासनोपभोगाश्च अनेकगुणविस्तराः।
विहारभूमयो रम्याः सर्वर्तुषु सुखप्रदाः ।। ४५.३५ ।।

आक्रीडाः सर्वतः स्फीताः मणिहेमपरिष्कृताः।
शिलागृहा वृक्षगृहा वरेण्याः कदली गृहाः ।। ४५.३६ ।।

लतागृहसहस्राणि सुसुखानि समन्ततः।
शुद्धशङ्खदलाभानि भूमिवेश्मशतानि च ।। ४५.३७ ।।

तपनीयगवाक्षाणि माणिजालान्तराणि च।
सुवर्णमणिचित्राणि सर्वत्र विपुलानि च ।। ४५.३८ ।।

महावृक्षसहस्राणि वरेण्यानि च सर्वशः।
नानाकाराणि वासांसि सूक्ष्माणि सुसुखानि च ।। ४५.३९ ।।

मृदङ्ग वेणुपणववीणाद्या बहुविस्तराः।
फलन्ति कल्पवृक्षाणां सहस्राणि शतानि च ।। ४५.४० ।।

सर्वत्रैव तथोद्यानं सर्वत्रैव हि तत्पुरम्।
सर्वद्वीपप्रमुदितं नरनारी समाकुलम्।
प्रवाति चानिलस्तत्र नानापुष्पाधिवासितः ।। ४५.४२ ।।

नित्यमङ्गसुखाह्लादस्तस्मिन् द्वीपे श्रमापहे ।
तत्र स्वर्गपरिभ्रष्टा जायन्ते हि नराः सदा।
भौमं तदपि हि स्वर्गं तत्रापि च गुणोत्तमम् ।। ४५.४२ ।।

चन्द्रकान्ता नरवराः श्यामाङ्काः पूर्वकूलजाः।
श्यामावदाताः सुखिनः सूर्यकान्ता वराः प्रजाः ।। ४५.४३ ।।

तस्मिन् देशे नराः श्रेष्ठा देवसत्त्वपराक्रमाः।
सदा विहारिणः सर्वे कामवृत्त्या सुवर्चसः ।। ४५.४४ ।।

वलयाङ्गदकेयूरहारकुण्डलभूषिताः ।
स्रग्विणश्चित्र मुकुटाश्चित्राच्छादनवाससः ।। ४५.४५ ।।

अजीर्णयौवनधराः सुप्रियाः प्रियदर्शनाः।
प्रजा वर्षसहस्राणि जीवन्ति सुबहून्युत ।। ४५.४६ ।।

न ताः प्रसवधर्मिण्यो न वंशप्रक्षयो विधिः।
मिथुनं जायते वृक्षादुपक्षममनीदृशम् ।। ४५.४७ ।।

सामान्यविभवाः सर्वे ममत्वपरिवर्जिताः।
न तत्र विद्यते धर्मो नाधर्मः सम्प्रवर्त्तते ।। ४५.४८ ।।

न व्यधिर्न जरा तत्र न दुर्मेधा न च क्लमः।
पूर्णे काले विनश्यन्ति जलबुद्बुदवच्च ते ।। ४५.४९ ।।

एवमत्यन्तसुखिनः सर्वदुःखविवर्जिताः।
रक्ता धर्मं न पश्यन्ति दुःखाद्धर्मोऽभिजायते ।। ४५.५० ।।

उत्तराणां कुरूणान्तु पार्श्वे ज्ञेयन्तु दक्षिणे।
समुद्रमूर्मिमालाढ्यं नानास्वरविभूषितम् ।। ४५.५१ ।।

पञ्चयोजनसाहस्रमतिक्रम्य सुरालयम्।
चन्द्रद्वीपमिति ख्यातं चद्रमण्डलसंस्थितम् ।। ४५.५२ ।।

सहस्रयोजनानान्तु सर्वतः परिमण्डलम्।
नाना पुष्पफलोपेतं समृद्ध्या परया युतम्।
शतयोजनविस्तीर्णमुच्छ्रितं तावदेव तु ।। ४५.५३ ।।

तस्य मध्ये गिरिवरः सिद्धचारणसेवितः।
चन्द्र तुल्यप्रभैः कान्तैश्चन्द्राकारैः सुलक्षणैः ।। ४५.५४ ।।

श्वेतवैढूर्यकुमुदैश्चित्रोऽसौ कुमुदप्रभः।
अनेकचित्रकोद्यानो नैकनिर्झरकन्दरः।
महासानुदरीकुञ्जैर्विविधैः समलंकृतः ।। ४५.५५ ।।

तस्माच्छैलान्महापुण्या चन्द्रांशुविमलोदका।
प्रवहत्युत्तमनदी चन्द्रावर्त्ता तरङ्गिणी ।। ४५.५६ ।।

तत्र चन्द्रमसः स्थानं नक्षत्राधिपतेर्वरम्।
सदाऽवतरते तत्र चन्द्रमा ग्रहनायकः ।। ४५.५७ ।।

तत्र चन्द्रमसो नाम्ना शैलः स तु परिश्रुतः।
चन्द्रद्वीपं महाद्वीपं प्रकाशं दिवि चेह च ।। ४५.५८ ।।

तत्र चन्द्रप्रतीकाशाः पूर्णचन्द्रनिभाननाः।
चन्द्रकान्ताः प्रजाः सर्वा विमलाश्चन्द्रदैवताः ।। ४५.५९ ।।

अत्यन्तधार्मिकाः सौम्याः सत्यसन्धाः सुतेजसः।
प्रजास्तत्र सदाचारा दशवर्षशतायुषः ।। ४५.६० ।।

पश्चिमेन तु द्वीपस्य पश्चिमस्य प्रकीर्त्तितम्।
चतुर्योजनसाहस्रं समतीत्य महोदधिम् ।। ४५.६१ ।।

दशयोजनसाहस्रं समन्तात् परिमण्डलम्।
द्वीपं भद्राकरं नाम नानापुष्पोपशोभितम् ।। ४५.६२ ।।

प्रभूतधनधान्याढ्यमनेकनृपपालितम् ।
नित्यं प्रमुदितं स्फीतं महाशैलैश्च शोभितम् ।। ४५.६३ ।।

तत्र भद्रासनं वायोर्नानारत्नैश्च मण्डितम्।
तत्र विग्रहवान् वायुः सदा पर्वसु पूज्यते ।। ४५.६४ ।।

तपनीयसुवर्णाभास्तपनीयविभूषिताः।
विराजन्तेऽमर प्रख्यास्तत्र चित्राम्बरस्रजः ।। ४५.६५ ।।

वीर्यवन्तो महाभागाः पञ्चवर्षशतायुषः।
सत्यसन्धा मुदा युक्ताः प्रजास्ता वायुदैवताः ।। ४५.६६ ।।

।।सूत उवाच।।
एवमेव निसर्गोऽयं वर्षाणां भारते युगे।
दृष्टः परमतत्त्वज्ञैर्भूयः किं कीर्त्तयामि ते ।। ४५.६७ ।।

आख्याते त्वेवमृषयः सूतपुत्रेण धीमता।
उत्तरश्रवणे भूयः पप्रच्छुस्तदनन्तरम् ।। ४५.६८ ।।

।।ऋषय ऊचुः।
यदिदं भारतं वर्ष यस्मिन् स्वायम्भुवादयः।
चतुर्दशैते मनवः प्रजासर्गे भवन्त्युत ।। ४५.६९ ।।

एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम।
एतत् श्रुत्वा वचस्तेषामब्रवील्लोमहर्षणः ।। ४५.७० ।।

पौराणिकस्तदा सूत ऋषीणां भावितात्मनाम् ।
एत द्विस्तरतो भूयस्तानुवाच समाहितः ।। ४५.७१ ।।

।।सूत उवाच।।
निसर्ग एष विख्यातः कुरूणान्तु यथार्थवत्।
भारतस्य तु वक्ष्यामि निसर्गं तं निबोधत ।। ४५.७२ ।।

पुण्यतीर्थे हिमवतो दक्षिणस्याचलस्य हि।
पूर्वपश्चायतस्यास्य दक्षिणेन द्विजोत्तमाः ।। ४५.७३ ।।

तथा जनपदानां च विस्तरं श्रोतुमर्हथ।
अत्र वो वर्णयिष्यामि वर्षेऽस्मिन् भारते प्रजाः ।। ४५.७४ ।।

इदं तु मध्यमं चित्रं शुभाशुभफलोदयम्।
उत्तरं यत्समुद्रस्य हिमवद्दक्षिणं च यत् ।। ४५.७५ ।।

वर्षं यद्भारतं नाम यत्रेयं भारती प्रजा।
भरणाञ्च प्रजानां वै मनुर्भरत उच्यते।
निरुक्तवचनाच्चैव वर्षं तद्भारतं स्मृतम् ।। ४५.७६ ।।

ततः स्वर्गश्च मोक्षश्च मध्यश्रान्तश्च गम्यते।
न खल्वन्यत्र मर्त्त्यानां भूमौ कर्म विधीयते ।। ४५.७७ ।।

भारतस्यास्य वर्षस्य नव भेदाः प्रकीर्तिताः।
समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ।। ४५.७८ ।।

इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान्।
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ।। ४५.७९ ।।

अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः।
योजनांनां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरम् ।। ४५.८० ।।

आयतो ह्याकुमारिक्यादाङ्गाप्रभवाच्च वै।
तिर्यगुत्तरविस्तीर्णः सहस्राणि नवैव तु ।। ४५.८१ ।।

द्वीपो ह्युपनिविष्टोऽयं म्लेच्छैरन्तेषु नित्यशः।
पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः ।। ४५.८२ ।।

ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः।
इज्यायुद्धवणिज्याभिर्वर्त्तयन्तो व्यवस्थिताः ।। ४५.८३ ।।

तेषां संव्यवहारोऽयं वर्त्तते तु परस्परम्।
धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ।। ४५.८४ ।।

सङ्कल्पपञ्चमानां तु आश्रमाणां यथाविधि।
इह स्वर्गापवर्गार्थं प्रवृत्तिर्येषु मानुषी ।। ४५.८५ ।।

यस्त्वयं नवमो द्वीपस्तिर्यगायत उच्यते।
कृत्स्नं जयति यो ह्येनं स सम्राडिह कीर्त्त्यते ।। ४५.८६ ।।

अयं लोकस्तु वै सम्राडन्तरिक्षो विराट् स्मृतः।
स्वराडन्यः स्मृतो लोकः पुनर्वक्ष्यामि विस्तरम् ।। ४५.८७ ।।

सप्त चास्मिन् सुपर्वाणो विश्रुताः कुलपर्वताः।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।। ४५.८८ ।।

तेषां सहस्रशश्चान्ये पर्वतास्तु समीपगाः।
अभिजाताः सर्वगुणा विपुलाश्चित्रसानवः ।। ४५.८९ ।।

मन्दरः पर्वत श्रेष्ठो वैहारो दर्दुरस्तथा।
कोलाहलः ससुरसः मैनाको वैद्युतस्तथा ।। ४५.९० ।।

पातन्धमो नाम गिरिस्तथा पाण्डुरपर्वतः।
गन्तुप्रस्थः कृष्णगिरिर्गोधनो गिरिरेव च ।। ४५.९१ ।।

पुष्पगिर्युज्जयन्तौ च शैलो रैवतकस्तथा।
श्रीपर्वतश्च कारुश्च कूटशैलो गिरिस्तथा ।। ४५.९२ ।।

अन्ये तेभ्यः परिज्ञाता ह्रस्वाः स्वल्पोपजीविनः।
तैर्विमिश्रा जतपदा आर्यम्लेच्छाश्च नित्यशः ।। ४५.९३ ।।

पीयन्ते यैरिमा नद्यो गङ्गा सिन्धुः सरस्वती।
शतद्रुश्चन्द्रभागा च यमुना सरयूस्तथा ।। ४५.९४ ।।

इरावती वितस्ता च विपाशा देविका कुहूः ।
गोमती धुतपापा च बाहुदा च दृषद्वती ।। ४५.९५ ।।

कौशिकी च तृतीया तु निश्चीरा गण्डकी तथा।
इक्षु र्लोहित इत्येता हिमवत्पादनिःसृताः ।। ४५.९६ ।।

वेदस्मृतिर्वेदवती वृत्रघ्नी सिन्धुरेव च।
वर्णाशा चन्दना चैव सतीरा महती तथा ।। ४५.९७ ।।

परा चर्म्मण्वती चैव विदिशा वेत्रवत्यपि।
शिप्रा ह्यवन्ती च तथा पारियात्राश्रयाः स्मृताः ।। ४५.९८ ।
शोणो महानदश्चैव नर्मदा सुमहाद्रुमा।
मन्दाकिनी दशार्णा च चित्रकूटा तथैव च ।। ४५.९९ ।।

तमसा पिप्पला श्रोणी करतोया पिशाचिका।
नीलोत्पला विपाशा च जम्बुला वालुवाहिनी ।। ४५.१०० ।।

सितेरजा शुक्तिमती मकुणा त्रिदिवा क्रमात् ।
ऋक्षपादात् प्रसूतास्ता नद्यो मणिनिभोदकाः ।। ४५.१०१ ।।

तापी पयोष्णी निर्विन्ध्या मद्रा च निषधा नदी।
वेन्वा वैतरणी चैव शितिबाहुः कुमुद्वती ।। ४५.१०२ ।।

तोया चैव महागौरी दुर्गा चान्तशिला तथा।
विन्ध्यपादप्रसूताश्च नद्यः पुण्यजलाः शुभाः ।। ४५.१०३ ।।

गोदावरी भीमरथी कृष्णा वैण्यथ वञ्जुला।
तुङ्गभद्रा सुप्रयोगा कावेरी च तथापगा।
दक्षिणापथनद्यस्तु सह्यपादाद्विनिःसृताः ।। ४५.१०४ ।।

कृतमाला ताम्रवर्णा पुष्पजात्युत्पलावती।
मलयाभिजातास्ता नद्यः सर्वाः शीतजलाः शुभाः ।। ४५.१०५ ।।

त्रिसामा ऋतुकुल्या च इक्षुला त्रिदिवा च या।
लाङ्गुलिनी वंशधरा महेन्द्रतनयाः स्मृताः ।। ४५.१०६ ।।

ऋषीका सुकुमारी च मन्दगा मन्दवाहिनी।
कूपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ।। ४५.१०७ ।।

सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ।
विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः ।। ४५.१०८ ।।

तासां नद्युपनद्योऽपि शतशोऽथ सहस्रशः।
तास्त्विमे कुरुपाञ्चालाः शाल्वाश्चैव सजाङ्गलाः ।। ४५.१०९ ।।

शूरसेना भद्रकारा बोधाः शतपथेश्वरैः।
वत्साः किसष्णाः कुल्याश् च कुन्तलाः काशिकोशलाः ।। ४५.११० ।।

अथ पार्श्वे तिलङ्गाश्च मगधाश्च वृकैः सह।
मध्यदेशा जनपदाः प्रायशोऽमी प्रकीर्तिताः ।। ४५.१११ ।।

सह्यस्य चोत्तरार्द्धे तु यत्र गोदावरी नदी।
पृथिव्यामिह कृत्स्नायां सप्रदेशो मनोरमः ।। ४५.११२ ।।

तत्र गोवर्द्धनो नाम सुरराजेन निर्मितः।
रामप्रियार्थं स्वर्गोऽयं वृक्षा ओषधयस्तथा ।। ४५.११३ ।।

भरद्वाजेन मुनिना तत्प्रियार्थेऽवतारिताः।
अन्तःपुरवनोद्देशस्तेन जज्ञे मनोरमः ।। ४५.११४ ।।

वाह्लीका वाढधानाश्च आभीराः कालतोयकाः।
अपरीताश्च शूद्राश्च पह्नवाश्चर्मखण्डिकाः ।। ४५.११५ ।।

गान्धारा यवनाश्चैव सिन्धुसौवीरभद्रकाः।
शका ह्रदाः कुलिन्दाश्च परिता हारपूरिकाः ।। ४५.११६ ।।

रमटा रद्धकटकाः केकया दशमानिकाः।
क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ।। ४५.११७ ।।

काम्बोजा दरदाश्चैव बर्बराः प्रियलौकिकाः।
पीनाश्चैव तुषाराश्च पह्लवा बाह्यतोदराः ।। ४५.११८ ।।

आत्रेयाश्च भरद्वाजाः प्रस्थलाश्च कसेरुकाः.
लम्पाका स्तनपाश्चैव पीडिका जुहुडैः सह ।। ४५.११९ ।।

अपगाश्चालिमद्राश्च किरातानाञ्च जातयः।
तोमरा हंसमार्गाश्च काश्मीरास्तङ्गणास्तथा ।। ४५.१२० ।।

चूलिकाश्चाहुकाश्चैव पूर्णदर्वास्तथैव च।
एते देशा ह्युदीच्याश्च प्राच्यान् देशान्निबोधत ।। ४५.१२१ ।।

अन्ध्रवाकाः सुजरका अन्तर्गिरिबहिर्गिराः।
तथा प्रवङ्गवङ्गेया मालदा मालवर्तिनः ।। ४५.१२२ ।।

ब्रह्मोत्तराः प्रविजया भार्गवा गेयमर्थकाः।
प्राग्ज्योतिषाश्च मुण्डाश्च विदेहास्तामलिप्तकाः।
माला मगधगोविन्दाः प्राच्यां जनपदाः स्मृताः ।। ४५.१२३ ।।

अथापरे जनपदा दक्षिणापथ वासिनः ।
पाण्ड्याश्च केरलाश्चैव चौल्याः कुल्यास्तथैव च ।। ४५.१२४ ।।

सेतुका मूषिकाश्चैव कुमना वनवासिकाः।
महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ।। ४५.१२५ ।।

अभीराः सह चैषीकाः आटव्याश्च वराश्च ये।
पुलिन्द्रा विन्ध्यमूलीका वैदर्बा दण्डकैः सह ।। ४५.१२६ ।।

पौनिका मौनिकाश्चैव अस्मका भोगवर्द्धनाः।
नैर्मिकाः कुन्तला आन्ध्रा उद्भिदा नलकालिकाः ।। ४५.१२७ ।।

दाक्षिणात्याश्च वै देशा अपरांस्तान्निबोधत।
शूर्पाकाराः कोलवनाः दुर्गाः कालीतकैः सह ।। ४५.१२८ ।।

पुलेयाश्च सुरालाश्च रूपसास्तापसैः सह।
तथा तुरसिताश्चैव सर्वे चैव परक्षराः ।। ४५.१२९ ।।

नासिक्याद्योश्च ये चान्ये ये चैवान्तरनर्मदाः।
भानुकच्छाः समा हेयाः सहसा शाश्वतैरपि ।। ४५.१३० ।।

कच्छीयाश्च सुराष्ट्राश्च अनर्त्ताश्चार्बुदैः सह।
इत्येते सम्परीताश्च श्रृणुध्वं विन्ध्यवासिनः ।। ४५.१३१ ।।

मालवाश्च करूषाश्च मेकलाश्चोत्कलैः सह।
उत्तमर्णा दशार्णाश्च भोजाः किष्किन्धकैः सह ।। ४५.१३२ ।।

तोसलाः कोसलाश्चैव त्रैपुरा वैदिकास्तथा।
तुमुरास्तुम्बुराश्चैव षट्सुरा निषधैः सह ।। ४५.१३३ ।।

अनुपास्तुण्डिकेराश्च वीतिहोत्रा ह्यवन्तयः।
एते जनपदाः सर्वे विन्ध्य पृष्ठनिवासिनः ।। ४५.१३४ ।।

अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश्च ये।
निगर्हरा हंसमार्गाः क्षुपणास्तङ्गणाः खसाः ।। ४५.१३५ ।।

कुशप्रावरणाश्चैव हूणा दर्वाः सहूदकाः।
त्रिगर्त्ता मालवाश्चैव किरातास्तामसैः सह ।। ४५.१३६ ।।

चत्वारि भारते वर्षे युगानि कवयो विदुः।
कृतं त्रेता द्वारपञ्च कलिश्चेति चतुष्टयम्।
तेषां निसर्गं वक्ष्यामि उपरिष्टान्निबोधत ।। ४५.१३७ ।।

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम पञ्चचत्वा रिंशोऽध्यायः ।। ४५ ।।