वायुपुराणम्/पूर्वार्धम्/अध्यायः २१

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः २० वायुपुराणम्
अध्यायः २१
वेदव्यासः
अध्यायः २२ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।। सूत उवाच ।।
ऋषीणामग्निकल्पानां नैमिषारण्यवासिनाम् ।
ऋषिः श्रुतिधरः प्राज्ञः सावर्णिर्न्नाम नामतः ।। २१.१ ।।

तेषां सोप्यग्रतो भूत्वा वायुं वाक्यविशारदः।
सातत्यं तत्र कुर्वन्तं प्रियार्थे सत्रयाजिनाम्।
विनयेनोपसंगम्य पप्रच्छ स महाद्युतिम् ।। २१.२ ।।

।।सावर्णिरुवाच ।।
विभो पुराणसं बद्धां कथां वै वेदसंमिताम्।
श्रोतुमिच्छामहे सम्यक् प्रसादात्सर्वदर्शिनः ।। २१.३ ।।

हिरण्यगर्भो भगवान् ललाटान्नीललोहितम्।
कथं तत्तेजसं देवं लब्धवान् पुत्रमात्मनः ।। २१.४ ।।

कथं च भगवान् जज्ञे ब्रह्मा कमलसंभवः।
रुद्रत्वं चैव सर्वस्य स्वात्मजस्य कथं पुनः ।। २१.५ ।।

कथं च विष्णो रुद्रेण सार्द्धं प्रीतिरनुत्तमा।
सर्वे विष्णुमया देवा सर्वे विष्णुमया गणाः ।। २१.६ ।।

न च विष्णुसमा काचिद्गतिरन्या विधीयते।
इत्येवं सततं देवा गायन्ते नात्र संशयः।
भवस्य सकथं नित्यं प्रणामं कुरुते हरिः ।। २१.७ ।।

।।सूत उवाच ।।
एवमुक्ते तु भगवान् वायुः सावर्णिमब्रवीत्।
अहो साधु त्वया साधो पृष्टः प्रश्नो ह्यनुत्तमः ।। २१.८ ।।

भवस्य पुत्रजन्मत्वं ब्रह्मणः सोऽभवद्यथा।
ब्रह्मणः पद्म योनित्वं रुद्रत्वं शंकरस्य च ।। २१.९ ।।

द्वाभ्यामपि च सम्प्रीतिर्
विष्णोश्चैव भवस्य च ।
यच्चापि कुरुते नित्यं प्रणामं शंकरस्य च।
विस्तरेणानुपूर्व्याच्च श्रृणुत ब्रुवतो मम ।। २१.१० ।।

मन्वन्तरस्य संहारे पश्चिमस्य महात्मनः।
आसीत्तु सप्तमः कल्पः पद्मो नाम द्विजोत्तम।
वाराहः साम्प्रतस्तेषां तस्य वक्ष्यामि विस्तरम् ।। २१.११ ।।

।।सावर्णिरुवाच।।
कियता चैव कालेन कल्पः सम्भवते कथम्।
किं च प्रमाणं कल्पस्य तत्र प्रब्रूहि पृच्छताम् ।। २१.१२ ।।

।।वायुरुवाच।।
मन्वन्तराणां सप्तानां कालसंख्या यथाक्रमम्।
प्रवक्ष्यामि समासेन ब्रुवतो मे निबोधत ।। २१.१३ ।।

कोटीनां द्वे सहस्रे वै अष्टौ कोटिशतानि च ।
द्विषष्टिश्च तथा कोट्यो नियुतानि च सप्ततिः।
कल्पार्द्धस्य तु संख्यायामेतत् सर्वमुदाहृतम् ।। २१.१४ ।।

पूर्वोक्तौ च गुणच्छेदौ वर्षाग्रं लब्दमादिशेत् ।
शतं चैव तु कोटीनां कोटीनामष्टसप्ततिः।
द्वे च शतसहस्रे तु नवतिर्नियुतानि च ।। २१.१५ ।।

मानुषेण प्रमाणेन यावद्वैवस्वतान्तरम्।
एष कल्पस्तु विज्ञेयः कल्पार्द्धद्विगुणीकृतः ।। २१.१६ ।।

अनागतानां सप्तानामेतदेव यथाक्रमम्।
प्रमाणं कालसंख्याया विज्ञेयं मतमैश्वरम् ।। २१.१७ ।।

नियुतान्यष्टपञ्चाशत्तथाऽशीतिशतानि च।
चतुरशीतिश्चवान्यानि प्रयुतानि प्रमाणतः ।। २१.१८ ।।

सप्तर्षयो मनुश्चैव देवाश्चेन्द्रपुरोगमाः।
एतत् कालस्य विज्ञेयं वर्षाग्रन्तु प्रमाणतः ।। २१.१९ ।।

एवं मन्वन्तरं तेषां मानुषान्तः प्रकीर्त्तितः।
प्रणवान्ताशचव ये देवाः साध्या देवगणाश्च ये।
विश्वेदेवाशचव ये नित्याः कल्पं जीवन्ति ते गणाः ।। २१.२० ।।

अयं यो वर्त्तते कल्पो वाराहः स तु कीर्त्त्यते।
यस्मिन् स्वायम्भुवाद्याश्च मनवश्च चतुर्द्दश ।। २१.२१ ।।

।।ऋषय ऊचुः।।
कस्माद्वाराहकल्पोयं नामतः परिकीर्तितः।
कस्माच्च कारणाद्देवो वराह इति कीर्त्त्यते ।। २१.२२ ।।

को वा वराहो भगवान् कस्य योनिः किमात्मकः।
वराहः कथमुत्पन्न एतदिच्छाम वेदितुम् ।। २१.२३ ।।

।।वायुरुवाच।।
वराहस्तु यथोत्पन्नो यस्मिन्नर्थे च कल्पितः।
वाराहश्च यथा कल्पः कल्पत्वं कल्पना च या ।। २१.२४ ।।

कल्पयोरन्तरं यच्च तस्य चास्य च कल्पितम्।
तत्सर्वं सम्प्रवक्ष्यामि यथादृष्टं यथाश्रुतम् ।। २१.२५ ।।

भवस्तु प्रथमः कल्पो लोकादौ प्रथितः पुरा।
ज्ञातव्यो भगवानत्र ह्यानन्दः साम्प्रतः स्वयम् ।। २१.२६ ।।

ब्रह्मस्थानमिदं दिव्यं प्राप्तं वा दिव्यसम्भवम्।
द्वितीयस्तु भुवः कल्पस्तृतीयस्तप उच्यते ।। २१.२७ ।।

भवश्चतुर्थो विज्ञेयः पंचमो रम्भ एव च।
ऋतुकल्पस्तथा षष्ठः सप्तमस्तु क्रतुः स्मृतः ।। २१.२८ ।।

अष्टमस्तु भवेद्वह्निर्नवमो हव्यवहनः।
सावित्रो दशमः कल्पो भुवस्त्वेकादशः स्मृतः ।। २१.२९ ।।

उशिको द्वादशस्तत्र कुशिकस्तु त्रयोदशः।
चतुर्द्दशस्तु गन्धर्वो गन्धर्वो यत्र वै स्वरः।
उत्पन्नस्तु यथा नादो गन्धर्वा यत्र चोत्थिताः ।। २१.३० ।।

ऋषभस्तु ततः कल्पो ज्ञेयः पंचदशो द्विजाः।
ऋषयो यत्र सम्भूताः स्वरो लोकमनोहरः ।। २१.३१ ।।

षड्जस्तु षोडशः कल्पः षड्जना यत्र चर्षयः।
शिशिरश्च वसन्तश्च निदाघो वर्ष एव च ।। २१.३२ ।।

शरद्धेमन्त इत्येते मानसा ब्रह्मणः सुताः।
उत्पन्नाः षड्ज संसिद्धाः पुत्राः कल्पे तु षोडशे ।। २१.३३ ।।

यस्माज्जातैश्च तैः षडभिः सद्यो जातो महेश्वरः।
तस्मात् समुत्थितः षड्जः स्वरस्तूदधिसन्निभः ।। २१.३४ ।।

ततः सप्तदशः कल्पो मार्जालीय इति स्मृतः।
मार्ज्जालीयं तु तत् कर्म यस्माद्ब्राह्मामकल्पयत् ।। २१.३५ ।।

ततस्तु मध्यमो नाम कल्पोऽष्टादश उच्यते।
यस्मिस्तु मध्यमो नाम स्वरो धैवतपूजितः ।
उत्पन्नः सर्वभूतेषु मध्यमो वै स्वयंभुवः ।। २१.३६ ।।

ततस्त्वेकोनविंशस्तु कल्पो वैराजकः स्मृतः।
वैराजो यत्र भगवान् मुनुर्वै ब्रह्मणः सुतः ।। २१.३७ ।।

तस्य पुत्रस्तु धर्मात्मा ददीचिर्न्नाम धार्मिकः।
प्रजापतिर्महातेजा बभूव त्रिदशेश्वरः ।। २१.३८ ।।

अकामयत गायत्री यजमानं प्रजापतिम्।
तस्माज्जज्ञे स्वरः स्रिग्धः पुत्रस्तस्य दधीचिनः ।। २१.३९ ।।

ततो विंशतिमः कल्पो निषादः परिकीर्त्तितः।
प्रजापतिस्तु तं दृष्ट्वा स्वयम्भूप्रभवं तदा।
विरराम प्रजाः स्रष्टुं निषादस्तु तपोऽतपत् ।। २१.४० ।।

दिव्यं वर्षसहस्रन्तु निराहारो जीतेन्द्रियः।
तमुवाच महांतेजा ब्रह्मा लोकपितामहः ।। २१.४१ ।।

ऊर्द्ध्वबाहुं तपोग्लानं दुःखितं क्षुत्पिपासितम्।
निषीदेत्यब्रवीदेनं पुत्रं शान्तं पितामहः।
तस्मान्निषादः सम्भूतः स्वरस्तु स निषादवान् ।। २१.४२ ।।

एकविंशतिमः कल्पो विज्ञेयः पञ्चमो द्विजाः।
प्राणोऽपानः समानश्च उदानो व्यान एव च ।। २१.४३ ।।

ब्रह्मणो मानासाः पुत्राः पञ्चैते ब्रह्मणः समाः।
तैस्त्वर्थवादिभिर्युक्तैर्वाग्भिरिष्टो महेश्वरः ।। २१.४४ ।।

यस्मात्परिगतैर्गीतः पञ्चभिस्तैर्महात्मभिः।
स्वरस्तु पञ्चमः स्निग्धः तस्मात्कल्पस्तु पञ्चमः ।। २१.४५ ।।

द्वाविंशस्तु तथा कल्पो विज्ञेयो मेघवाहनः।
यत्र विष्णुर्महाबाहुर्मेघो भूत्वा महेश्वरम्।
दिव्यं वर्षसहस्रन्तु अवहत् कृत्तिवाससम् ।। २१.४६ ।।

तस्य निःश्वसमानस्य भाराकान्तस्य वै मुखात्।
निर्जगाम महाकायः कालो लोकप्रकाशनः।
यस्त्वयं पठ्यते विप्रैर्विष्णुर्वै कश्यपात्मजः ।। २१.४७ ।।

त्रयोविंशतिमः कल्पो विज्ञेयश्चिन्तकस्तथा।
प्रजापतिसुतः श्रीमान् चितिश्च मिथुनञ्च तौ ।। २१.४८ ।।

ध्यायतो ब्रह्मणश्चैव यस्माच्चिन्ता समुत्थिता।
तस्मात्तु चिन्तकः सो वै कल्पः प्रोक्तः स्वयम्भुवा ।। २१.४९ ।।

चतुर्विंशतिमश्चापि ह्याकूतिः कल्प उच्यते।
आकूतिश्च तथा देवी मिथुनं सम्बभूव ह ।। २१.५० ।।

प्रजाः स्रष्टुं तथाकूतिं यस्मादाह प्रजापतिः।
तस्मात् स पुरुषो ज्ञेय आकूतिः कल्पसंज्ञितः ।। २१.५१ ।।

पञ्चविंशतिमः कल्पो विज्ञातिः परिकीर्त्तितः।
विज्ञातिशचव तथा देवी मिथुनं सम्प्रसूयते ।। २१.५२ ।।

ध्यायतः पुत्रकामस्य मनस्यध्यात्मसंज्ञितम्।
विज्ञातं वै समासेन विज्ञातिस्तु ततः स्मृतः ।। २१.५३ ।।

षड्‌विंशस्तु ततः कल्पो मन इत्यभिधीयते।
देवी च शाङ्करी नाम मिथुनं सम्प्रसूयते ।। २१.५४ ।।

प्रजा वै चिन्तमा नस्य स्रष्टुकामस्य वै तदा।
यस्मात् प्रजासम्भवनादुत्पन्नस्तु स्वयम्भुवा ।
तस्मात् प्रजासम्भवनाद्भावनासम्भवः स्मृतः ।। २१.५५ ।।

सप्तविंशतिमः कल्पो भावो वै कल्पसंज्ञितः।
पौर्णमासी तथा देवी मिथुनं समपद्यत ।। २१.५६ ।।

प्रजा वै स्रष्टुकामस्य ब्रह्मणः परमेष्ठिनः।
ध्यायतस्तु परं ध्यानं परमात्मानमीश्वरम् ।। २१.५७ ।।

अग्निस्तु मण्डलीभूत्वा रश्मिजालसमावृतः ।
भुवन्दिवञ्चविष्टभ्य दीप्यते स महावपुः ।। २१.५८ ।।

ततो वर्षसहस्रान्ते सम्पूर्णे ज्योतिमण्डले।
अविष्टया सहोत्पन्नमपस्यत् सूर्यमण्डलम् ।। २१.५९ ।।

यस्माददृश्यो भूतानां ब्रह्मणा परमेष्ठिना।
दृष्टस्तु भगवान् देवः सूर्य्यः सम्पूर्णमण्डलः ।। २१.६० ।।

सर्व्वे योगाश्च मन्त्राश्च मण्डलेन सहोत्थिताः।
यस्मात् कल्पो ह्ययं दृष्टस्तस्मात्तं दर्श मुच्यते ।। २१.६१ ।।

यस्मान्मनसि सम्पूर्णो ब्रहमणः परमेष्ठिनः।
पुरा वै भगवान् सोमः पौर्णमासी ततः स्मृता ।। २१.६२ ।।

तस्मात्तु पर्वदर्शे वै पौर्णमासञ्च योगिभिः।
उभयोः पक्षयोर्ज्येष्ठमात्मनो हितकाम्यया ।। २१.६३ ।।

दर्शञ्च पौर्णमासञ्च ये यजन्ति द्विजातयः।
न तेषां पुनरावृत्तिर्ब्रह्मलोकात् कदाचन ।। २१.६४ ।।

योऽनाहिताग्निः प्रयतो वीराध्वानं गतोपि वा ।
समाधाय मनस्तीव्रं मन्त्रमुच्चारयेच्छनैः ।। २१.६५ ।।

त्वमग्ने रुद्रो असुरो मही दिवस्त्वं शर्व्वो मारुतं पृष्ट ईशिषे।
त्वं पाशगन्धर्व्वशिषं पूषा विधत्तपासिना।
इत्येव मन्त्रं मनसा सम्यगुच्चारयेद्‌द्विजः।
अग्निं प्रविशते यस्तु रुद्रलोकं स गच्छति ।। २१.६६ ।।

सोमश्चाग्निस्तु भगवान् कालो रुद्र इति श्रुतिः।
तस्माद्यः प्रविशेदग्निं स रुद्रान्न निवर्त्तते ।। २१.६७ ।।

अष्टाविंशतिमः कल्पो बृहदित्यभिसंज्ञितः।
ब्रह्मणः पुत्रकामस्य स्रष्ठुकामस्य वै प्रजाः।
ध्यायमानस्य मनसा बृहत्साम रथन्तरम् ।। २१.६८ ।।

यस्मात्तत्र समुत्पन्नो बृहतः सर्व्वतोमुखः।
तस्मात्तु बृहतः कल्पो विज्ञेयस्तत्त्वचिन्तकैः ।। २१.६९ ।।

अष्टाशीतिसहस्राणां योजनानां प्रमाणतः ।
रथन्तरन्तुविज्ञेयं परमं सूर्य्यमण्डलम्।
तस्मादण्डन्तु विज्ञेयमभेद्यं सूर्यमण्डलम् ।। २१.७० ।।

युत्सूर्य्यमण्डलञ्चापि बृहत्साम तु भिद्यते।
भित्वा चैवं द्विजा यान्ति योगात्मानो दृढव्रताः।
सङ्घातमुपनीताश्च अन्ये कल्पा रथन्तरे ।। २१.७१ ।।

इत्येतत्तु मया प्रोक्तं चित्रमध्यात्मदर्शनम्।
अतः परं प्रवक्ष्यामि कल्पानां विस्तरं शुभम् ।। २१.७२ ।।

इति श्रीमहापुराणे वायुप्रोक्ते कल्पनिरूपणं नामैकविंशोध्यायः ।। २१ ।।