वायुपुराणम्/पूर्वार्धम्/अध्यायः ५१

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ५० वायुपुराणम्
अध्यायः ५१
वेदव्यासः
अध्यायः ५२ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।।सूत उवाच।।
स्वायम्भुवे निसर्गे तु व्याख्यातान्युत्तराणि तु।
भविष्याणि च सर्वाणि तेषां वक्ष्याम्यनुक्रमम् ।। ५१.१ ।।

एतच्छ्रुत्वा तु मुनयः पप्रच्छुर्लोमहर्षणम्।
सूर्याचन्द्रमसोश्चारं ग्रहाणाञ्चैव सर्वशः ।। ५१.२ ।।

।।ऋषय ऊचुः ।।
भ्रमन्ते कथमेतानि ज्योतींषि दिवि मण्डलम्।
तिर्यग्व्यूहेन सर्वाणि तथैवासङ्करेण च।
कश्च भ्रामयते तानि भ्रमन्ति यदि वा स्वयम् ।। ५१.३ ।।

एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम्।
भूतसम्मोहनन्त्वेतच्छ्रोतुमिच्छा प्रवर्त्तते ।। ५१.४ ।।

।।सूत उवाच।।
भूतसम्मोहनं ह्येतद् ब्रुवतो मे निबोधत।
प्रत्यक्षमपि दृस्यं यत्तत् संमोहयते प्रजाः ।। ५१.५ ।।

योऽसौ चतुर्दिशं पुच्छे शिशुमारे व्यवस्थितः।
उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ।। ५१.६ ।।

स हि भ्रमन् भ्रामयते चन्द्रादित्यौ ग्रहैः सह।
भ्रमन्तमनुगच्छन्ति नक्षत्राणि च चक्रवत् ।। ५१.७ ।।

ध्रुवस्य मनसा चासौ सर्पते भगणः स्वयम्।
सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ।। ५१.८ ।।

वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै।
तेषां योगस्व भेदाश्च कालचारस्तथैव च ।। ५१.९ ।।

अस्तोदयौ तथोत्पाता अयने दक्षिणोत्तरे।
विषुवद्‌ग्रहवर्णाश्च ध्रुवात्सर्वं प्रवर्त्तते ।। ५१.१० ।।

वर्षा धर्मो हिमं रात्रिः सन्ध्या चैव दिनं तथा ।
शुभाशुभं प्रजानाञ्च ध्रुवात्सर्वं प्रवर्त्तते ।। ५१.११ ।।

ध्रुवेणाधिकृतांश्चैव सूर्योऽपावृत्त्य तिष्ठति।
तदेष दीप्तकिरणः स कालाग्निर्द्दिवाकरः ।। ५१.१२ ।।

परिवर्त्त क्रमाद्विप्रा भाभिरालोकयन् दिशः।
सूर्यः किरणजालेन वायुयुक्तेन सर्वशः।
जगतो जलमादत्ते कृत्स्नस्य द्विजसत्तमाः ।। ५१.१३ ।।

आधित्यपीतं सूर्याग्नेः सोमं संक्रमते जलम्।
नाडीभिर्वायुयुक्ताभिर्लोकाधानं प्रवर्त्तते ।। ५१.१४ ।।

यत्सोमात् स्रवते सूर्यस्तदग्रेष्ववतिष्ठते।
मेघा वायुनिघातेन विसृजन्ति जलम्भुवि ।। ५१.१५ ।।

एकमुत्क्षिप्यते चैव पतते च पुनर्ज्जलम्।
नानाप्रकारमुदकन्तदेव परिवर्त्तते ।। ५१.१६ ।।

सन्धारणार्थं भूतानां मायैषा विश्वनिर्मिता।
अनया मायया व्याप्तं त्रैलोक्यं सचराचरम् ।। ५१.१७ ।।

विश्वेशो लोककृद्देवः सहस्रांशुः प्रजापतिः।
धाता कृत्स्नस्य लोकस्य प्रभु र्विष्णुर्दिवाकरः ।। ५१.१८ ।।

सर्वलौकिकमम्भो वै यत्सोमान्नभसः स्नुतम्।
सोमाधारं जगत्सर्वमेतत्तथ्यं प्रकीर्तितम् ।। ५१.१९ ।।

सूर्यादुष्णं निस्रवते सोमाच्छीतं प्रवर्त्तते।
शीतोष्णवीर्यौ द्वावेतौ युक्तौ धारयतो जगत् ।। ५१.२० ।।

सोमाधारा नदी गङ्गा पवित्रा विमलोदका।
सोमपुत्रपुरोगाश्च महानद्यो द्विजोत्तमाः ।। ५१.२१ ।।

सर्वभूतशरीरेषु आपो ह्यनुगताश्च याः ।
तेषु सन्दह्यमानेषु जङ्गमस्थावरेषु च।
धूमभूतास्तु ता आपो निष्क्रामन्तीह सर्वशः ।। ५१.२२ ।।

तेन चाभ्राणि जायन्ते स्थानमत्राम्भसां स्मृतम् ।
आर्कन्तेजो हि भूतेभ्यो ह्यादत्ते रश्मिभिर्जलम् ।। ५१.२३ ।।

समुद्राद्वायुसंयोगाद्वहन्त्यापो गभस्तयः।
यतस्त्वृतुवशात् काले परिवर्त्तो दिवाकारः।
यच्छत्यपो हि मेघेब्यः शुक्लाः शुक्लगभस्तिभिः ।। ५१.२४ ।।

अभ्रस्था प्रपतन्त्यापो वायुना समुदीरिताः।
सर्वभूतहितार्थाय वायुभिश्च समन्ततः ।। ५१.२५ ।।

ततो वर्षति षण्मासान् सर्वभूतविवृद्धये।
वायव्यं स्तनितञ्चैव वैद्युतञ्चाग्निसंभवम् ।। ५१.२६ ।।

मेहनाच्च मिहेर्द्धातोर्मेघत्वं व्यञ्जयन्ति च।
न भ्रश्यन्ति यतस्त्वापस्तदभ्रं कवयो विदुः ।। ५१.२७ ।।

मेघानां पुनरुत्पत्तिस्त्रिविधा योनिरुच्यते।
आग्नेया ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः।
त्रिधा घनाः समाख्यातास्तेषां वक्ष्यामि सम्भवम् ।। ५१.२८ ।।

आग्नेयास्त्वर्णजाः प्रोक्तास्तेषां तस्मात् प्रवर्त्तनम्।
शीतदुर्दिनवाता ये स्वगुणास्ते व्यवस्थिताः ।। ५१.२९ ।।

महिषाश्च वराहाश्च मत्तमातङ्गगामिनः।
भूत्वा धरणिमभ्येत्य विचरन्ति रमन्ति च ।। ५१.३० ।।

जीमूता नाम ते मेघा एतेब्यो जीवसम्भवाः।
विद्युद्गुणविहीनाश्च जलधारावलम्बिनः ।। ५१.३१ ।।

मूका घना महाकाया प्रवाहस्य वशानुगाः।
क्रोशमात्राच्च वर्षन्ति क्रोशार्द्धादपि वा पुनः ।। ५१.३२ ।।

पर्वताग्रनितम्बेषु वर्षन्ति च रमन्ति च।
बलाकागर्भदाश्चैव बलाकागर्भधारिणः ।। ५१.३३ ।।

ब्रह्मजानाम ते मेघा ब्रह्मनिःश्वाससम्भवाः।
ते हि विद्युद्गुणोपेताः स्तनयन्ति स्वनप्रियाः ।। ५१.३४ ।।

तेषां शब्दप्रणादेन भूमिः स्वाङ्गरुहोद्घमा।
राज्ञी राज्ञाभिषिक्तेव पुनर्यौवनमश्रुते।
तेष्वियं प्रीतिमासक्ता भूतानां जीवितोद्भवा ।। ५१.३५ ।।

जीमूता नाम ते मेघास्तेभ्यो जीवस्य सम्भवः।
द्वितीयं प्रवहं वायुं मेघास्ते तु समाश्रिताः ।। ५१.३६ ।।

एते योजनमात्राच्च सार्द्धार्द्धान्निष्कृतादपि।
वृष्टिसर्गस्तथा तेषां धारासाराः प्रकीर्त्तिताः।
पुष्करावर्त्तका नाम ये मेघाः पक्षसम्भवाः ।। ५१.३७ ।।

शक्रेण पक्षाश्छिन्ना ये पर्वतानां महोजसाम्।
कामगानां प्रवृद्धानां भूतानां शिवमिच्छता ।। ५१.३८ ।।

पुष्करा नाम ते मेघा बृहन्तस्तोय मत्सराः।
पुष्करावर्त्तकास्तेन कारणेनेह शब्दिताः ।। ५१.३९ ।।

नानारूपधराश्चैव महाघोरतराश्च ते।
कल्पान्तवृष्टेः स्रष्टारः संवर्त्ताग्नेर्नियामकाः ।। ५१.४० ।।

वर्षन्त्येते युगान्तेषु तृतीयास्ते प्रकीर्त्तिताः।
अनेकरूपसंस्थानाः पूरयन्तो महीतलम् ।
वायुं परं वहन्तः स्युराश्रिताः कल्पसाधकाः ।। ५१.४१ ।।

यान्यस्याण्डकपालस्य प्राकृतस्याभवंस्तदा।
तस्माद्ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयम्भुवः।
तान्येवाण्डकपालस्य सर्वे मेघाः प्रकीर्त्तिताः ।। ५१.४२ ।।

तेषामाप्यायनं धूमः सर्वेषामविशेषतः ।
तेषां श्रेष्ठस्तु पर्ज्जन्यश्चत्वारश्चैव दिग्गजाः ।। ५१.४३ ।।

गजानां पर्वतानाञ्च मेगानां भोगिभिः सह।
कुलमेकं पृथग्भूतं योनिरेका जलं स्मृतम् ।। ५१.४४ ।।

पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवाः।
तुषारवृष्टिं वर्षन्ति सर्वसस्यविवृद्धये ।। ५१.४५ ।।

श्रेष्ठः परिवहो नाम तेषां वायुरपाश्रयः।
योऽसौ बिभर्त्ति भगवान् गङ्गामाकाशगोचराम्।
दिव्यामतिजलां पुण्यां विद्यां स्वर्गपथिस्थिताम् ।। ५१.४६ ।।

तस्याविष्पन्दजन्तोयं दिग्गजाः पृथुभिः करैः।
शीकरं सम्प्रमुञ्चन्ति नीहार इति स स्मृतः ।। ५१.४७ ।।

दक्षिणेन गिरिर्योऽसौ हेमकूट इति स्मृतः।
उदग् हिमवतः शैलादुत्तरस्य च दक्षिणे।
पुण्ड्रं नाम समाख्यातं नगरं तत्र वै स्मृतम् ।। ५१.४८ ।।

तस्मिन्निपतितं वर्षं यत्तुषारसमुद्भवम् ।
ततस्तदावहो वायुर्हिमशैलात् समुद्वहन्।
आनयत्यात्मयोगेन सिञ्चमानो महागिरिम् ।। ५१.४९ ।।

हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम्।
इहाभ्येति ततः पश्चादपरान्तविवृद्धये ।। ५१.५० ।।

मेघावाप्यायतश्चैव सर्वमेतत् प्रकीर्त्तितम् ।
सूर्य एव तु वृष्टिनां स्रष्टा समुपदिश्यते ।। ५१.५१ ।।

ध्रुवेणा वेष्टितः सूर्यस्ताब्यां वृष्टिः प्रवर्त्तते।
ध्रुवेणावेष्टितो वायुर्वृष्टिं संहरते पुनः ।। ५१.५२ ।।

ग्रहान्निःसृत्य सूर्यात्तु कृत्स्ने नक्षत्रमण्डले ।
वारस्यान्ते विशत्यर्कं ध्रुवेण परिवेष्टितम् ।। ५१.५३ ।।

अतः सूर्यरथस्याथ सन्निवेशं निबोधत।
संस्थितैनैकचक्रेण पञ्चारेण त्रिनाभिना ।। ५१.५४ ।।

हिरण्मयेन भगवान् पर्वणा तु महौजसा।
नष्टवर्त्मान्धकारेण षट्‌प्रकारैकनेमिना।
चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्प्पति ।। ५१.५५ ।।

दश योजनसाहस्रो विस्तारायामतः स्मृतः।
द्विगुणोऽस्य रथोपस्थादीषादण्डप्रमाणतः ।। ५१.५६ ।।

स तस्य ब्रह्मणा सृष्टो रथो ह्यर्थवशेन तु।
असङ्गः काञ्चनो दिव्यो युक्तः परमगैर्हयैः ।। ५१.५७ ।।

छन्दोभिर्वाजिरूपैस्तु यतः शुक्रस्ततः स्थितः।
वरुणस्यन्दनस्तेह लक्षणैः सदृशस्तु सः।
ते नाऽसौ सर्पतिव्योम्नि भास्वता तु दिवाकरः ।। ५१.५८ ।।

अथेमानि तु सूर्यस्य प्रत्यङ्गानि रथस्य तु।
संवत्सरस्यावयवैः कल्पितानि यथा क्रमम् ।। ५१.५९ ।।

अहस्तु नाभिः सूर्यस्य एकचक्रः स वै स्मृतः।
आराः पञ्चर्त्तवस्तस्य नेमिः षढृतवः स्मृताः ।। ५१.६० ।।

रथनीडः स्मृतो ह्यब्दस्त्वयने कूबरावुभौ ।
मुहूर्ता बन्धुरास्तस्य शम्या तस्य कलाः स्मृताः ।। ५१.६१ ।।

तस्य काष्ठाः स्मृता घोणा ईषादण्डः क्षणांस्तु वै।
निमेषाश्चानुकर्षोऽस्य ईषा चास्य लवाः स्मृताः ।। ५१.६२ ।।

रात्रिर्वरूथो घर्मोऽस्य ध्वज ऊर्द्ध्वसमुच्छ्रितः।
युगाक्षकोटी ते तस्य अर्थकामावुभौ स्मृतौ ।। ५१.६३ ।।

सप्ताश्वरूपाश्छन्दांसि वहन्ते वामतो धुराम्।
गायत्री चैव त्रिष्टुपू च अनुष्टुब् जगती तथा ।। ५१.६४ ।।

पङ्क्तिश्च बृहती चैव उष्णिक् चैव तु सप्तमम्।
अक्षे चक्रं निबद्धन्तु ध्रुवे त्वक्षः समर्पितः ।। ५१.६५ ।।

सहचक्रो भ्रमत्यक्षः सहाक्षो भ्रमति ध्रुवः।
अक्षः सहैव चक्रेण भ्रमतेऽसौ ध्रुवेरितः ।। ५१.६६ ।।

एवमर्थ वशात्तस्य सन्निवेशो रथस्य तु।
तथा संयोगभागेन संसिद्धो बास्वरो रथः ।। ५१.६७ ।।

तेनाऽसौ तरणिर्देवस्तरसा सर्पते दिवि।
युगाक्षकोटिसम्बद्धौ रश्मी द्वौ स्यन्दनस्य हि ।। ५१.६८ ।।

ध्रुवेण भ्रमतो रश्मी विचक्रयुगयोस्तु वै।
भ्रमतो मण्डलानि स्युः खेचरस्य रथस्य तु ।। ५१.६९ ।।

युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु।
ध्रुवेण संगृहीते वै द्विचक्रश्वेतरज्जुवत् ।। ५१.७० ।।

भ्रमन्तमनुगच्छेतां ध्रुवं रश्मी तु तावुभौ ।
युगाक्ष कोटी ते तस्य वातोर्मी स्यन्दनस्य तु ।। ५१.७१ ।।

कीलासक्तो यथा रज्जुर्भ्रमते सर्वतो दिशम्।
ह्रसतस्तस्य रश्मी तौ मण्डलेषूत्तरायणे ।। ५१.७२ ।।

वर्द्धेते दक्षिणे चैव भ्रमतो मण्डलानि तु।
ध्रुवेण संगृहीतौ तु रस्मी वै नयतो रविम् ।। ५१.७३ ।।

आकृष्येते यदा तौ वै ध्रुवेण समधिष्ठितौ।
तदा सोऽभ्यन्तरं सूर्यो भ्रमते मण्डलानि तु ।। ५१.७४ ।।

अशीतिमण्डलशतं काष्ठयोरुभयोश्चरन् ।
ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु ।। ५१.७५ ।।

तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु।
उद्वेष्टयन् स वेगेन मण्डलानि तु गच्छति ।। ५१.७६ ।।

इति श्रीमहापुराणे वायुप्रेक्ते ज्योतिष्प्रचारो नामैकपञ्चा शोऽध्यायः ।। ५१ ।।