महाभारतम्-15-आश्रमवासिकपर्व-011

विकिस्रोतः तः
Jump to navigation Jump to search
← आश्रमवासिकपर्व-010 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-011
वेदव्यासः
आश्रमवासिकपर्व-012 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041

पौरजनैर्ब्राह्मणमुखेन धृतराष्ट्रंप्रति समाश्वासनपूर्वकं कृच्छ्रेणि वनगमनाभ्यनुज्ञानम्।। 1 ।।

वैशम्पायन उवाच। 15-11-1x
एवमुक्तास्तु ते तेन पौरजानपदा जनाः।
वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन्।।
15-11-1a
15-11-1b
तूष्णींभूतांस्ततस्तांस्तु वाष्पकण्ठान्महीपतिः।
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत।।
15-11-2a
15-11-2b
वृद्धं च हतपुत्रं च धर्मपत्न्या सहानया।
विलपन्तं बहुविधं कृपणं चैव सत्तमाः।।
15-11-3a
15-11-3b
पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै।
वनवासाय धर्मज्ञा धर्मजेन नृपेण ह।।
15-11-4a
15-11-4b
सोहं पुनःपुनर्याचे शिरसाऽवनतोऽनघाः।
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ।।
15-11-5a
15-11-5b
वैशम्पायन उवाच। 15-11-6x
तच्छ्रुत्वा कुरुराजस्य वाक्यानि करुणानि ते।
रुरुदुः सर्वशो राजन्समेताः कुरुजाङ्गलाः।।
15-11-6a
15-11-6b
उत्तरीयैः करैश्चापि संछाद्य वदनानि ते।
रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत्।।
15-11-7a
15-11-7b
हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम्।
दुःखं संधारयन्तो हि नष्टसंज्ञा हवाभवन्।।
15-11-8a
15-11-8b
ते विनीय तमायासं धृतराष्ट्रवियोगजम्।
शनैः शनैस्तदाऽन्योन्यमब्रुवन्स्वमतान्युत।।
15-11-9a
15-11-9b
ततः सञ्चिन्त्य ते सर्वे वाक्यान्यथ समासतः।
एकस्मिन्ब्राह्मणे कार्यमावेस्योचुर्नराधिपम्।।
15-11-10a
15-11-10b
ततः स्वाचरणो विप्रः सम्मतोऽर्थविशारदः।
सम्भाव्यो बह्वृचो राजन्वक्तुं समुपचक्रमे।।
15-11-11a
15-11-11b
अनुमान्य महाराजं सदः समनुभाष्य च।
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह।।
15-11-12a
15-11-12b
राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम्।
वक्ष्यामि तदहं वीर तज्जुषस्व नपाधिप।।
15-11-13a
15-11-13b
यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो।
नात्र मिथ्या वचः किञ्चित्सुहृत्त्वं नः परस्परम्।।
15-11-14a
15-11-14b
न जात्वस्य च वंशस्य राज्ञां कश्चित्कदाचन।
राजाऽऽसीद्यः प्रजापालः प्रजानामप्रियोऽभवत्।।
15-11-15a
15-11-15b
पितृवन्मातृवच्चैव भवन्तः पालयन्ति नः।
न च दुर्योधनः किञ्चिदयुक्तं कृतवान्नृपः।।
15-11-16a
15-11-16b
`प्रियाणि कुर्वन्सर्वेषामनुवृत्त्यर्थमुद्यतः।'
यथा ब्रवीति धर्मात्मा मुनिः सत्यवतीसुतः।
तथा कुरु महाराज स हि नः परमो गुरुः।।
15-11-17a
15-11-17b
15-11-17c
त्यक्ता वयं तु भवता दुःखशोकपरायणाः।
भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः।।
15-11-18a
15-11-18b
यथा शन्तनुना गुप्ता राज्ञा चित्राङ्गदेन च।
भीष्मवीर्योपगूढेन पित्रा तव च पार्थिव।
भवद्बुद्धियुजा चैवि पाण्डुना पृथिवीक्षिता।।
15-11-19a
15-11-19b
15-11-19c
तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः।
न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप।
15-11-20a
15-11-20b
पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे।
वयसा स्म यथा सम्यग्भवतो विदितं तथा।।
15-11-21a
15-11-21b
तथा वर्षसहस्राणि कुन्तीपुत्रेण धीमता।
पाल्यमाना धृतिमता सुखं विन्दामहे नृप।।
15-11-22a
15-11-22b
राजर्षीणां पुराणानां भवतां पुण्यकर्मणाम्।
कुरुसंवरणादीनां भरतस्य च धीमतः।।
15-11-23a
15-11-23b
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः।
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते।।
15-11-24a
15-11-24b
उषिताः स्म सुखं नित्यं भवता परिपालिताः।
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते।।
15-11-25a
15-11-25b
यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति।
भन्तमनुनेष्यामि तत्रापि कुरुनन्दन।।
15-11-26a
15-11-26b
न तद्दुर्योधनकृतं न च तद्भवता कृतम्।
न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः।।
15-11-27a
15-11-27b
दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम्।
दैवं पुरुषकारेणि न शक्यमपि बाधितुम्।।
15-11-28a
15-11-28b
अक्षौहिण्यो महाराज दशाष्टौ च समागताः।
अष्टादशाहेन हताः कुरुभिर्योधपुङ्गवैः।।
15-11-29a
15-11-29b
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना।
युयुधानेन वीरेण धृष्टद्युम्नेन चाहवे।।
15-11-30a
15-11-30b
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैस्तथा।
न च क्षयोऽयं नृपते क्रते दैवबलादभूत्।।
15-11-31a
15-11-31b
अवश्यमेव सङ्ग्रामे क्षत्रियेण विशेषतः।
कर्तव्यं निधनं काले मर्तव्यं क्षत्रबन्धुना।।
15-11-32a
15-11-32b
तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः।
पृथिवी निहता सर्वा सहया सरथद्विपा।।
15-11-33a
15-11-33b
न स राज्ञां वधे सूनुः कारणं ते महात्मनाम्।
न भवान्न च ते भृत्या न कर्णो न च सौबलः।।
15-11-34a
15-11-34b
यद्विशस्ताः कुरुश्रेष्ठ राजानश्च सहस्रशः।
सर्वं दैवकृतं विद्धि कोत्र किं वक्तुमर्हति।।
15-11-35a
15-11-35b
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः।
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम्।।
15-11-36a
15-11-36b
लभतां वीरलोकं स ससहायो नराधिपः।
द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखम्।
15-11-37a
15-11-37b
प्राप्स्यते च भवान्पुण्यं धर्मे च सततं स्थितः।
वेद धर्मं महाबाहो लौक्यं वैदिकमेव च।।
15-11-38a
15-11-38b
दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः।
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः।।
15-11-39a
15-11-39b
अनुवर्त्स्यन्ति वा धीमन्समेषु विषमेषु च।
प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान्।।
15-11-40a
15-11-40b
ब्रह्मदेयाग्रहारांश्च पारिबर्हांश्च पार्थिवः।
पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः।।
15-11-41a
15-11-41b
दीर्घदर्शीं मृदुर्दान्तः सदा वैश्रवणो यथा।
अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः।।
15-11-42a
15-11-42b
अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभः।
ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा।।
15-11-43a
15-11-43b
विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै।
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः।।
15-11-44a
15-11-44b
मन्दा मृदुषु कौरव्य तीक्ष्णेष्वाशीविषोपमाः।
वीर्यवन्तो महात्मानः पौराणां च हिते रताः।।
15-11-45a
15-11-45b
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती।
अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित्।।
15-11-46a
15-11-46b
भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम्।
न पृष्ठतः करिष्यन्ति पौरा जानपदा जनाः।।
15-11-47a
15-11-47b
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः।
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः।।
15-11-48a
15-11-48b
स राजन्मानसं दुःखमपनीय युधिष्ठिरात्।
कुरु कार्याणि धर्म्याणि नमस्ते पुरुषर्षभ।।
15-11-49a
15-11-49b
वैशम्पायन उवाच। 15-11-50x
तस्य तद्वचनं धर्म्यमनुमान्य गुणोत्तरम्।
साधुसाध्विति सर्वः स जनः प्रतिगृहीतवान्।।
15-11-50a
15-11-50b
धृतराष्ट्राश्च तद्वाक्यमभिपूज्य पुनःपुनः।
विसर्जयामास तदा प्रकृतीस्तु शनैःशनैः।।
15-11-51a
15-11-51b
स तैः सम्पूजितो राजा शिवेनावेक्षितस्तथा।
प्राञ्जलिः पूजयामास तं जनं भरतर्षभ।।
15-11-52a
15-11-52b
ततो विवेश भवनं गान्धार्या सहितो निजम्।
आगतायां च शर्वर्यां सुखं शेते नराधिपः।।
15-11-53a
15-11-53b
।। इति श्रीमन्महाभारते आमश्रवासिकपर्वणि
आश्रमवासपर्वणि एकादशोऽध्यायः।। 11 ।।
आश्रमवासिकपर्व-010 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-012