महाभारतम्-15-आश्रमवासिकपर्व-039

विकिस्रोतः तः
Jump to navigation Jump to search
← आश्रमवासिकपर्व-038 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-039
वेदव्यासः
आश्रमवासिकपर्व-040 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041

कदाचन हास्तिनपुरमुपागतेन नारदेन पाण्डवान्प्रति धृतराष्ट्रादीनां स्वर्गप्राप्तिनिवेदनम्।। 1 ||

	धृतराष्ट्रे गान्धारीकुन्तीसञ्जयैः सह गङ्गायामाप्लुत्य स्वाश्रममागच्छति सति मध्येमार्गं दावाग्निना तत्परीवेष्टनम्।। 2 ||

धृरराष्ट्रेण सञ्जय प्रत्यप्नितो दूरापसरणप्रेरणापूर्वकं कुन्तीगान्धारीभ्यां सह वन्हौ प्रवेशनम्।। 3 ।। ततः सञ्जयेन हिमवत्पर्वतंप्रति गमनम्।। 4 ।।

वैशम्पायन उवाच। 7-39-1x
तेषु चोपनिवृत्तेषु पाण्डवेषु यदृच्छया।
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्।।
7-39-1a
7-39-1b
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः।
आसीनं परिविश्वस्तं प्रोवाच वदतांवरः।।
7-39-2a
7-39-2b
चिरात्तु नानुपश्यामि भगवन्तमुपस्थितम्।
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम्।।
7-39-3a
7-39-3b
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते।
तद्ब्रूहि द्विजमुख्यस्त्वं ह्यस्माकं च प्रियोऽतिथिः।
7-39-4a
7-39-4b
नारद उवाच। 7-39-5x
चिरदृष्टोसि मेऽत्येवमागतोऽहं तपोवनात्।
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप।।
7-39-5a
7-39-5b
युधिष्ठिर उवाच। 7-39-6x
वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः।
धृतराष्ट्रं महात्मानमास्थितं परमं तपः।।
7-39-6a
7-39-6b
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः।
गान्धारी च पृथा चैव सूतपुत्रश्च संजयः।।
7-39-7a
7-39-7b
कथं च वर्तते चाद्य पिता मम स पार्थिवः।
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः।।
7-39-8a
7-39-8b
नारद उवाच। 7-39-9x
स्थिरीभूय महाराज शृणु वृत्तं यथातथम्।
यथाश्रुतं च दृष्टं च मया तस्मिंस्तपोवने।।
7-39-9a
7-39-9b
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन।
कुरुक्षेत्रात्पिता तुभ्य गङ्गाद्वारं ययौ नृप।।
7-39-10a
7-39-10b
गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः।
संजयेन च सूतेन साग्निहोत्रः सयाजकः।।
7-39-11a
7-39-11b
आतस्थे स तपस्तीव्रं पिता तव तपोधनः।
अग्निं मुखे समाधाय वायुभक्षोऽभवन्मुनिः।।
7-39-12a
7-39-12c
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः।
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः।।
7-39-13a
7-39-13b
गान्धारी तु जलाहारी कुन्ती मासोपवासिनी।
संजयः षष्ठभुक्तेन वर्तयामास भारत।।
7-39-14a
7-39-14b
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो।
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य वै।।
7-39-15a
7-39-15b
अनिकेतोथ राजा स बभूव वनगोचरः।
ते चापि सहिते देव्यौ संजयश्च तमन्वयुः।।
7-39-16a
7-39-16b
संजयो नृपतेर्नेता समेषु विषमेषु च।
गान्धार्याश्च पृथा चैव चक्षुरासीदनिन्दिता।।
7-39-17a
7-39-17b
ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः।
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखो ययौ।।
7-39-18a
7-39-18b
अथ वायुः समुद्भुतो दावाग्निरभवन्महान्।
ददाह तद्वनं सर्वं परिगृह्य समन्ततः।।
7-39-19a
7-39-19b
दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः।
वराहाणां च यूथेषु संश्रयत्सु जलाशयान्।।
7-39-20a
7-39-20b
सम्प्रदीप्ते वने तस्मिन्प्राप्ते व्यसन उत्तमे।
निराहारतया राजा मन्दप्राणविचेष्टितः।
असमर्थोऽपसरणे सुकृशे मातरौ च ते।।
7-39-21a
7-39-21b
7-39-21c
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात्।
इदमाह ततः सूतं संजयं जयतांवरः।।
7-39-22a
7-39-22b
गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित्।
वयमत्राग्निना युक्ता गमिष्यामः परां गतिम्।।
7-39-23a
7-39-23b
तमुवाच किलोद्विग्नः संजयो वदतांवरः।
राजन्मृत्युरनिष्टोऽयं भविता ते वृथाऽग्निना।।
7-39-24a
7-39-24b
न चोपायं प्रपश्यामि मोक्षणे जातवेदसः।
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति।।
7-39-25a
7-39-25b
इत्युक्तः संजयेनेदं पुनराह स पार्थिवः।
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम्।।
7-39-26a
7-39-26b
जलमग्निस्तथा वायुरथवाऽपि विकर्षणम्।
तापसानां प्रशस्यं ते गच्च संजय माचिरम्।।
7-39-27a
7-39-27b
इत्युक्त्वा संजयं राजा समाधाय मनस्तथा।
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा।।
7-39-28a
7-39-28b
संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत्।
उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो।।
7-39-29a
7-39-29b
ऋषिपुत्रो मनीषी स राज चक्रेऽस्य तद्वचः।
सन्निरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा।।
7-39-30a
7-39-30b
गान्धारी च महाभागा जननी च पृथा तव।
दावाग्निना समायुक्ते स च राजा पिता तव।।
7-39-31a
7-39-31b
संजयस्तु महाप्राज्ञस्तस्माद्दावादमुच्यत।
गङ्गाकूले मया दृष्टस्तापसैः परिवारितः।।
7-39-32a
7-39-32b
स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः।
प्रययौ संजयो धीमान्हिमवन्तं महीधरम्।।
7-39-33a
7-39-33b
एवं स निधनं प्राप्तः कुरुराजो महामनाः।
गान्धारी च पृथा चैव जनन्यौ ते विशाम्पते।।
7-39-34a
7-39-34b
यदृच्छयाऽनुव्रजता मया राज्ञः कलेवरम्।
तयोश्च देव्योरुभयोर्मया दृष्टानि भारत।।
7-39-35a
7-39-35b
ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः।
श्रुत्वा राज्ञस्तदा निष्ठां न त्वशोचन्गतीश्च ते।।
7-39-36a
7-39-36b
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम।
यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव।।
7-39-37a
7-39-37b
न शोचितव्यं राजेन्द्र स्वर्गस्थः पृथिवीपतिः।
प्राप्तवानग्निसंयोगं गान्धारी जननी च ते।।
7-39-38a
7-39-38b
वैशम्पायन उवाच। 7-39-39x
एतच्छ्रुत्वा च सर्वेषां पाण्डवानां महात्मनाम्।
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान्।।
7-39-39a
7-39-39b
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत्।
पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम्।।
7-39-40a
7-39-40b
अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः।
ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः।।
7-39-41a
7-39-41b
भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते।
`रुरुदुर्दुःखसंतप्ता वर्णयन्तः पृथां तदा।।
7-39-42a
7-39-42b
अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः।
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम्।।
7-39-43a
7-39-43b
तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम्।
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम्।।
7-39-44a
7-39-44b
तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत।
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम्।।
7-39-45a
7-39-45b
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
नारदागमनपर्वणि एकोनचत्वारिंशोऽध्यायः।। 39 ।।

[सम्पाद्यताम्]

15-39-1 द्विवर्षोपनिवृत्तेष्विति झ.पाठः।। 15-39-5 मे मयाऽतिचिरं दृष्टोऽसीत्यर्थः।। 15-39-12 मुखे पिण्डान्समाधायेति क.ट.पाठः। वीटां मुखे समाधायेति झ.पाठः।। 15-39-15 दृश्यतोऽदृश्यत इति। पश्यन्तमपश्यन्तं चानादृत्येत्यर्थः। नियमेन सान्निध्या भावात्।। 15-39-27 विकर्षणं अनशनम्।। 15-39-30 ऋषिपुत्रो व्यासपुत्र इति योगसमार्थ्यं सूचितम्।।

आश्रमवासिकपर्व-038 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-040