महाभारतम्-15-आश्रमवासिकपर्व-006

विकिस्रोतः तः
← आश्रमवासिकपर्व-005 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-006
वेदव्यासः
आश्रमवासिकपर्व-007 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041

वनं यियासुना धृतराष्ट्रेण युधिष्ठिराय राजनीत्युपदेशः।। 1 ।।

वैशम्पायन उवाच। 15-6-1x
ततो राज्ञाऽभ्यनुज्ञातो धृतराष्ट्रो महामनाः।
ययौ स्वभवनं राजा गान्धार्याऽनुगतस्तदा।।
15-6-1a
15-6-1b
मन्दप्राणगतिर्धामान्कृच्छ्रादिव समुद्वहन्।
पदानि स महीपालो जीर्णो गजपतिर्यथा।।
15-6-2a
15-6-2b
तमन्वगच्छद्विदुरो विद्वान्सूतश्च संजयः।
स चापि परमेष्वासः कृपः सारद्वतस्तथा।।
15-6-3a
15-6-3b
स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः।
तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा।।
15-6-4a
15-6-4b
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी।
वधूभिरुपचारेणि पूजिताऽभुङ्क्त भारत।।
15-6-5a
15-6-5b
कृताहारं कृताहाराः सर्वे ते विदुरादयः।
पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम्।।
15-6-6a
15-6-6b
ततोऽब्रवीन्महाराजः कुन्तीपुत्रमुपह्वरे।
निषण्णं पाणिना पृष्ठे संस्पृशन्नंबिकासुतः।।
15-6-7a
15-6-7b
अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन।
अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते।।
15-6-8a
15-6-8b
तत्तु शक्यं महाराज रक्षितुं पाण्डुनन्दन।
राज्यं धर्मेण कौन्तेय विद्वानसि निबोध तत्।।
15-6-9a
15-6-9b
विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर।
शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन्।।
15-6-10a
15-6-10b
प्रातरुस्थाय तान्राजन्पूजयित्वा यथाविधि।
कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः।।
15-6-11a
15-6-11b
ते तु सम्मानिता राजंस्त्वया लोकहितार्थिना।
प्रवक्ष्यन्ति हितं तात सर्वथा तव भारत।।
15-6-12a
15-6-12b
इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय।
हितायैव भविष्यन्ति रक्षितं द्रविणं यथा।।
15-6-13a
15-6-13b
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन्।
दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः।।
15-6-14a
15-6-14b
चारयेथाश्च सततं चारैरविदितः परैः।
परीक्षितैर्बहुविधैः स्वराष्ट्रेषु परेषु च।।
15-6-15a
15-6-15b
पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम्।
अट्टाट्टालकसम्बाधं षट्पदं सर्वतो दिशम्।।
15-6-16a
15-6-16b
तस्य द्वाराणि सर्वाणि पर्याप्तानि बृहन्ति च।
सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च।।
15-6-17a
15-6-17b
पुरुषैरलमर्थस्ते विदितैः कुलशीलतः।
आत्मा च रक्ष्यः सततं भोजनादिषु भारत।
विहाराहारकालेषु माल्यशय्यासनेषु च।।
15-6-18a
15-6-18b
15-6-18c
स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः।
शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर।।
15-6-19a
15-6-19b
मन्त्रिणिश्चैव कुर्वीथा द्विजान्विद्याविशारदान्।
विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून्।।
15-6-20a
15-6-20b
तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिःक सह।
समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित्।।
15-6-21a
15-6-21b
सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः।
अरण्ये निःशलाके वा न च रात्रौ कथञ्चन।।
15-6-22a
15-6-22b
वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः।
सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गवः।।
15-6-23a
15-6-23b
मन्त्रभेदे हि ये दोषा भन्ति पृथिवीक्षिताम्।
न ते शक्याः समाधातुं कथञ्चिदिति मे मतिः।।
15-6-24a
15-6-24b
दोषांश्च मन्त्रभेदस्य ब्रूयास्त्वं मन्त्रिमण्डले।
अभेदे च गुणा राजन्पुनःपुनररिंदम।।
15-6-25a
15-6-25b
पौरजानपदानां च शौचशौचे युधिष्ठिर।
यथा स्याद्विदितं राजंस्तथा कार्यं कुरूद्वह।।
15-6-26a
15-6-26b
व्यवहारश्च ते राजन्नित्यमाप्तैरधिष्ठितः।
योज्यस्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठितः।।
15-6-27a
15-6-27b
परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत।
प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर।।
15-6-28a
15-6-28b
आदानरुचयश्चैव परदाराभिमर्शिनः।
उग्रदण्डिप्रधानाश्च मिथ्याव्याहारिणस्तथा।।
15-6-29a
15-6-29b
आक्रोष्टारश्च लुब्धाश्च हर्तारः साहसप्रियाः।
सभाविहारभेत्तारो वर्णानां च प्रदूषकाः।
हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः।।
15-6-30a
15-6-30b
15-6-30c
`अवरोधभूमौ भृत्यैश्च पानं सह विवर्जयेत्।
आक्रोशन्त्यनुमत्तास्ते कलत्रं वाऽपि गृह्णते।।
15-6-31a
15-6-31b
जिघांसन्त्यपि शस्त्रेण नष्टाः क्रीडन्ति चोत्कटाः।
नानाक्षेपा व्याहरन्ति गम्यागम्यं न जानते।।
15-6-32a
15-6-32b
अतिपानेनि राजाऽपि सर्वं कोशं विनाशयेत्।
वितरेद्गायकेभ्यश्च वृथा च द्रव्यसञ्चयम्।।
15-6-33a
15-6-33b
शब्दमात्मनि दोषांश्च पिबेदेकश्च जायया।
युक्त्या प्रकाशमयति सुवीर्यस्यि विवृद्धये।।'
15-6-34a
15-6-34b
प्रातरेव हि पश्यथा ये कुर्युः प्रियकर्म ते।
अलङ्कारमथो भोज्यमत ऊर्ध्वं समाचरेः।।
15-6-35a
15-6-35b
पश्येथाश्चि ततो योधान्सदा त्वं प्रतिहर्षयन्।
दूतानां च चराणां च प्रदोषस्ते सदा भवेत्।।
15-6-36a
15-6-36b
सदा चापररात्रान्ते भवेत्कार्यार्थनिर्णयः।
मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत्।।
15-6-37a
15-6-37b
सर्वे त्वौपयिकाः कालाः कार्याणां भरतर्षभ।
तथैवालङ्कृतः काले तिष्ठिथा भूरिदक्षिणः।।
15-6-38a
15-6-38b
`न विद्राव्य च तिष्ठेत परिहार्य विभूषणम्।
प्रयोज्यं सर्वदैवेह मङ्गल्यं पापनाशनम्।।'
15-6-39a
15-6-39b
चक्रवत्तात कार्याणां पर्यायो दृश्यते सदा।
कोशस्य निचये यत्नं कुर्वीथा न्यायतः सदा।
विविधस्य महाराज विपरीतं विवर्जयेः।।
15-6-40a
15-6-40b
15-6-40c
चारैर्विदित्वा शत्रूंश्च ये राज्ञामन्तरैषिणः।
तानाप्तैः पुरुषैर्दूराद्धातयेथा नराधिप।।
15-6-41a
15-6-41b
कर्म दृष्ट्वाऽथ भृत्यांस्त्वं वरयेथाः कुरूद्वह।
कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः।।
15-6-42a
15-6-42b
सेनाप्राणेता च भवेत्तव तात दृढव्रतः।
शूरः क्लेशसहश्चैव हितो भक्तश्च पूरुषः।।
15-6-43a
15-6-43b
सर्वे जनपदाश्चैव तव कर्माणि पाण्डव।
गोवद्रासभवच्चैव कुर्युर्ये व्यवहारिणः।।
15-6-44a
15-6-44b
स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च।
उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर।।
15-6-45a
15-6-45b
देशजाश्चैव पुरुषा विक्रान्ताः स्वेषु कर्मसु।
यात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया।।
15-6-46a
15-6-46b
गुणार्थिनां गुणः कार्यो विदुषा वै जनाधिप।
अविचार्याश्च ते ते स्युरचला इव नित्यशः।।
15-6-47a
15-6-47b
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि षष्ठोऽध्यायः।। 6 ।।

[सम्पाद्यताम्]

15-6-5 अभुङ्क्त भुक्तवती।। 15-6-8 अष्टाङ्गे स्वाम्यमात्यादियुते।। 15-6-13 राज्यवत्परिपालयेति क.थ.पाठः।। 15-6-16 अष्टा दुर्गोपरिभागे सञ्चारस्थानानि। षट्पदं षड्भिः पदैः पदनीयैः स्थानैर्युक्तम्। तेन सप्तप्राकारमिति गम्यते। तत्र सप्तमस्यान्तःपुरत्वात् षडेवान्येषां पदनीयानि स्थानानि।। 15-6-22 निःशलाके अतृणे। सतृणे ह्यासन्नः परचारो ज्ञातुमशक्य इति।। 15-6-29 आदानरुचयः उत्कोचोपजीविनः।। 15-6-36 प्रदोषो रजनीमुखं दूतादीनां दर्शनकालः। प्रदेयस्ते सदा भवेदिति क.थ.पाठः।। 15-6-44 गवादिवत् आहारमात्रवेतनाः। व्यवहारिणः कारुशिल्पिप्रभृतयः।।

आश्रमवासिकपर्व-005 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-007