सामग्री पर जाएँ

महाभारतम्-15-आश्रमवासिकपर्व-007

विकिस्रोतः तः
← आश्रमवासिकपर्व-006 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-007
वेदव्यासः
आश्रमवासिकपर्व-008 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041

धृतराष्ट्रेण युधिष्ठिरंप्रति राजनीतिकथनम्।। 1 ।।

धृतराष्ट्र उवाच। 15-7-1x
मण्डलानि च बुध्येथाः परेषामात्मनस्तथा।
उदासीनगुणानां च मध्यस्थानां च भारत।।
15-7-1a
15-7-1b
चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम्।
मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन।।
15-7-2a
15-7-2b
अथ नानाजनपदा दुर्गाणि विविधानि च।
बलानि च कुरुश्रेष्ठ भवत्येषां यथेच्छकम्।।
15-7-3a
15-7-3b
ते च द्वादश कौन्तेय राजानो विविधात्मकाः।
मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो।।
15-7-4a
15-7-4b
एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः।
अत्र षाड्गुण्यमाचत्तं युधिष्ठिर निबोध तत्।।
15-7-5a
15-7-5b
वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुसत्तम।
द्विसप्तत्यां महाबाहो ततः षाड्गुण्यजा गुणाः।।
15-7-6a
15-7-6b
यथा स्वपक्षो बलवान्परपक्षस्तथा बलः।
विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा।।
15-7-7a
15-7-7b
यदा परे च बलिनः स्वपक्षश्चैव दुर्बलः।
सार्धं विद्वांस्तदा क्षीणः परैः सन्धिं मसाश्रयेत्।।
15-7-8a
15-7-8b
द्रव्याणां सञ्चयश्चैव कर्तव्यः सुमहांस्तथा।
यदा समर्था यानाय नचिरेणैव भारत।।
15-7-9a
15-7-9b
तदा सर्वं विधेयं स्यात्स्थानेन च विचारयेत्।
भूमिरल्पफला देया विपरीतस्य भारत।।
15-7-10a
15-7-10b
हिरण्यरूप्यभूयिष्ठं मित्रं क्षीणमकोशभृत्।
विपरीतं निगृह्णीयात्स्वयं सन्धिविशारदः।।
15-7-11a
15-7-11b
सन्ध्यर्थं राजपुत्रं वा लिप्सेथा भरतर्षभ।
विपरीतं न तच्छ्रेयः पुत्र कस्यांचिदापदि।।
15-7-12a
15-7-12b
तस्याः प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित्।
प्रकृतीनां च राजेन्द्र राजा दीनान्विभावयेत्।।
15-7-13a
15-7-13b
क्रमेणि युगपद्बुध्वा व्यसनानां बलाबलम्।
पीडनं स्तंभनं चैव कोशभङ्गस्तथैव च।।
15-7-14a
15-7-14b
कार्यं यत्नेन शत्रूणां स्वराज्यं रक्षता स्वयम्।
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता।।
15-7-15a
15-7-15b
कौन्तेय तद्धितं ते स्यात्पृथिवीं विजिगीषतः।
गुणानां भेदने योगमीप्सेथाः सह मन्त्रिभिः।।
15-7-16a
15-7-16b
साधुसङ्ग्रहणाच्चैव पापनिग्रहणात्तथा।
आत्मसात्करणे नित्यं पालनानि गृहे तथा।
दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा।।
15-7-17a
15-7-17b
15-7-17c
तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः।
यद्येनमभियायाच्च बलवान्दुर्बल नृपः।
15-7-18a
15-7-18b
सामादिभिरुपायैस्तं क्रमेणि विनिवर्तयेः।
अशक्नुवंश्च युद्धाय निष्पतेत्सह मन्त्रिभिः।।
15-7-19a
15-7-19b
कोशेन पौरैर्दण्डेन ये चास्य प्रियकारिणः।
असम्भवे तु सर्वस्य यथा मुख्येन निष्पतेत्।
क्रमेणानेन मोक्षः स्याच्छरीरं प्रति केवलम्।।
15-7-20a
15-7-20b
15-7-20c
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि सप्तमोऽध्यायः।। 7 ।।

15-7-1 मण्डलानि अरिर्मित्रमित्यादीनि।। 15-7-3 यथेच्छकं परैर्भेद्यत्वमभेद्यत्वं च भवति तस्मादवहितस्तिष्ठेत्। तथामात्या जनपदा इति झ.पाठः। भवत्येषां स्वकं परमिति थ.पाठः।। 15-7-4 द्वादश चत्वारः शत्रुजाताः। षट् आततायिनः। मित्रं अमित्रमित्रं चेति षष्टिर्गुणाः। कृष्यादीन्यष्टौ संधानकर्माणि। बालादयो विंशतिरसंधेया। नास्तिक्यादयश्चतुर्दश दोषाः। मन्त्रादीन्यष्टादश तीर्थानीति। एतेषु केचित् हानार्थं ज्ञातव्याः केचिदुपादानार्थम्।। 15-7-5 ततः षाङ्गुण्यचारिण इति क.थ.पाठः।। 15-7-6 द्रव्याणां सञ्चये चैव यत्नः कार्यः सदा भवेत् इति क.पाठः।। 15-7-9 दीनान् अन्धवधिरादीन् विभावयेत्पूजयेत्।। 15-7-13 एनं त्वाम्

आश्रमवासिकपर्व-006 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-008