सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४

विकिस्रोतः तः

2.2

वाचस्साम (आ सोता परि)

शौक्तम् (सखाय आ)

गौरीवितम् (सुतासो मा)

त्र्यन्तं त्वाष्ट्रीसाम (सुतासो मा)

प्रमꣳहिष्ठीयम् (प्र मंहिष्ठाय)

हारिवर्णम् (तं ते मदा)

तैरश्च्यम् (श्रुधी हवं)

निधनकामम् (पवस्व दक्ष)

आष्टादꣳष्ट्रोत्तरम् (तवाहं सोम)

१० आभीशवोत्तरम् (तवाहं सोम)

११ स्वᳲपृष्ठम् (तवाहं सोम)

१२ सत्रासाहीयम् (पुनानो अक्र)

१३ त्रैशोकम् (विश्वापृतना)

१४ भरद्वाजस्य पृश्नि (यो राजा च)

१५ और्णायवोत्तरम् (परिप्रिया दिवः)

१६ बृहत्कम् (त्वं ह्या३ङ्ग)

१७ आतीषादीयम् (सोमः पुनान)

१८ नानदम् (पुरोजिती वो)

१९ वात्सप्रम् (सोमः पवते)

२० सैन्धुक्षितम् अग्निं वो वृ)

२१ वसिष्ठप्रियम् (इममिन्द्र सुतं)

२२ गौरीवितम् (इन्द्र जुषस्व)

२३ शाकलम् (अर्षा सोम)

२४ वार्शम् (अर्षा सोम)

२५ मानवोत्तरम् (सोम उष्वाण)

२६ आनूपं वाध्र्यश्वम् (सोमाः उष्वाण)



४.१.७

प्रवद्भार्गवम् Pravadbhargavam

साकौसं [ १.६.२.२.४, साम ५५७, २.४.२.७.१-३ साम ११५२ ]--

प्रवद्भार्गवम्

प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरम् ।
मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा ॥
प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः ॥
हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः ॥
आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा ।
या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवनमधुमत्सुवीर्यम् ।।

प्रोअयासाइत् । इन्दुरिन्द्रा । स्या२निष्कृताम् । सखासख्युः । नप्रमिना
ता२इसङ्गिराम् । मर्यइवा । युवतिभाइः। सा२मर्षताइ। सोमःकला । शेशतया । मा२नापथा३१३ ॥ [१]
प्रवोधियो। मन्द्रयुवो। वा२इपन्युवाः। पनस्युवाः । संवरणाइ । षू२वक्रमूः ।
हरिङ्क्रीडा । तमभ्यनू । षा२तस्तुभाः । अभिधेना । वःपयसाहत् । आ२शिश्रयू३राउ ॥ [२]
आनःसोमा । संयतम्पायि । प्यू२षीमिषाम् । इन्दोपवा। स्वपवमा । ना२ऊर्मिणा।
यानोदोहा। तेत्रिरहान् । आ२सश्चुषाइ । क्षुमद्वाजा। वन्मधुमात् । सू२वीरिया३माउ। वा२३४५॥ [३]

--[ग्राम १६.२.१६; ऊह ४.१.७] (ऋग्वेदः ९.८६.१६)

१. प्रधानयागकाले प्रस्तोतृसाम।

[सम्पाद्यताम्]

टिप्पणी

द्र. उदयनोपरि टिप्पणी

सोमयागस्य आरम्भं एवं भवति - दीक्षाग्रहणान्तरं प्रायणीयेष्टिः भवति यत्र प्रवद्भार्गवसामस्य गानादिकं भवति। अनन्तरं सोमक्रयं भवति यत्र सोमस्य क्रयणान्तरं सोमस्य प्रतिष्ठा अतिथिरूपे भवति। तदनन्तरं प्रवर्ग्यादीनि अन्यानि कृत्यानि भवन्ति। सोमयागस्य अवसानं अवभृथस्नानानन्तरं उदयनीयेष्ट्या भवति यत्र उद्वद्भार्गवसामस्य (ग्रामगेयः साम ५५५ ) गानं भवति। सोमः किं अस्ति, न निर्णीतः। हठयोगदृष्ट्या, केनापि प्रकारेण देहे ऊष्माशोषी (एण्डोथर्मिक) अभिक्रियायाः वर्चस्वं भवति, देहस्य शीतनस्य आरम्भणं भवति। किमयं सोमयागस्य प्रायणीयमस्ति, विचारणीयः। रजनीशमहोदयानुसारेण, अस्याः अभिक्रियायाः चरमपरिणतिः हिमवत्शीतने भवति। किमयं सोमयागस्य उदयनीयमस्ति, विचारणीयः। लक्ष्मीनारायणसंहितानुसारेण, अवभृथस्नानानन्तरं यजमानस्य आविर्भावं नवीनरूपेण, चन्द्रमारूपेण भवति।