सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/तैरश्च्यम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
तैरश्च्यम्
तैरश्च्यम्

श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति ।
सुवीर्यस्य गोमतो रायस्पूर्धि महां असि ॥ ८८३ ॥ ऋ. ८.९५.४
यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् ।
चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीं ॥ ८८४ ॥
तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः ।
पुरूण्यस्य पौंस्या सिषासन्तो वनामहे ॥ ८८५ ॥


७. तैरश्च्यम् ।। तिरश्चि । अनुष्टुप् । इन्द्रः ।
 श्रुधीहाऽ३वन्तिरश्चियाः । इन्द्रायस्त्वा । सपर्यताऽ२३४इ । सुवी । रिया । स्याऽ२३४गो । माता ऽ२ ।। रायास्पूर्धीऽ३ । हाऽ३हाइ ।। महꣳऽ५असी ।। श्रीः ।। यस्तआऽ३इन्द्रनवीयसाइम् ।। गिरामन्द्राम् ।अजी जनाऽ२३४त् । चिकि ।त्विन्मा । नाऽ२३४साम् । धायाऽ२म् ।। प्रत्नामार्त्ताऽ३ । हाऽ३हा ।। स्यपाऽ५इप्युषीम् ।। श्रीः ।। तमुष्टाऽ३वामयंगिराः ।। इन्द्रामुक्था । निवावृधूऽ२३४ः । पुरू । णिया। । स्याऽ२३४पौ । सायाऽ२ ।। सिषासान्ताऽ३ः । हाऽ३हाइ ।। वनाऽ५महाइ । होऽ५इ ।।डा।।
दी. ७. उत्. ३ मा. २१. ज. ।।६७।।

तैरश्च्यम् ( अच्छावाक शस्त्रम्)

श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति।
सुवीर्यस्य गोमतो रायस्पूर्धि महाँ असि॥ ८.०९५.०४
इन्द्र यस्ते नवीयसीं गिरं मन्द्रामजीजनत्।
चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम्॥ ८.०९५.०५
तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः।
पुरूण्यस्य पौंस्या सिषासन्तो वनामहे॥ ८.०९५.०६
आश्रुत्कर्ण श्रुधी हवं नू चिद्दधिष्व मे गिरः।
इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम्॥ १.०१०.०९
विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम्।
वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम्॥ १.०१०.१०
आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब।
नव्यमायुः प्र सू तिर कृधी सहस्रसामृषिम्॥ १.०१०.११

(अथाच्छावाकस्येन्द्रं विश्वा अवीवृधन्नुक्थ्यमिन्द्राय शंस्यं (१.१०.५-७) श्रुधीहवन्तिरश्च्या(८.९५.४-६) आश्रुत्कर्ण श्रुधीहवम्(१.१०.९-११) असावि सोम इन्द्र त(१.८४.१-३) इममिन्द्र सुतं पिब यदिन्द्र चित्रमेहना (५.३९.१-३) यस्ते साधिष्ठोऽवसे (५.३५.१-३) पुरां भिन्दुर्युवा कविः(१.११.४-६) वृषा ह्यसि राधसे (५.३५.४-६) गायन्ति त्वा गायत्रिण (१.१०.१-३) आ त्वा गिरो रथीरिवेति(८.९५.१-३) (आश्व.श्रौ.सू. ७.८.३)


[सम्पाद्यताम्]

टिप्पणी

तैरश्चे द्वे (ग्रामगेयः)


श्रुधी हवं तिरश्च्या इति तैरश्चम्। ऊर्ध्वान् वा अन्ये लोकान् देवाश् चर्षयश् चाजयन्। अथ तिरश्चिर् आंगिरसो ऽकामयत - तिरश्चो ऽहं लोकाञ् जयेयं, येनेमा आप स्यन्दन्ते, येनायं वायुः पवते, येनासाव् आदित्य एति, येन चन्द्रमा येन नक्षत्राणीति। स एतत् सामापश्यत्। तेनास्तुत। तेन तिरश्चो लोकान् अजयद्, येनेमा आप स्यन्दन्ते, येनायं वायुः पवते, येनासाव् आदित्य एति, येन चन्द्रमा येन नक्षत्राणि। ऊर्ध्वान् ह वा अन्यैः कर्मभिर् लोकाञ् जयन्ति। अथैतेन तिरश्च उभयान् लोकान् सध्रीचः। जयति तिरश्चश् चोर्ध्वांश् च य एवं वेद। तिरश्चिर् हांगिरसश् चकमे - ऽव वीरांश् च पशूंश् च रुन्धीयेति। स एतत् सामापश्यत्। तेनास्तुत। श्रुधी हवं तिरश्च्या इन्द्र यस् त्वा सर्पयति। सुवीर्यस्य गोमतो रायस् पूर्धि महं असि॥ इत्य् एव वीरांश् च पशूंश् चावरुन्द्धे। तद् उ वीराणां च पशूनां चावरुद्धिः। अव वीरांश् च पशूंश च रुन्द्धे य एवं वेद। यद् उ तिरश्चिर् आंगिरसो ऽपश्यत् तस्मात् तैरश्चम् इत्य् आख्यायते। देवान् वै स्वर्गं लोकं यतो रक्षांस्य् अन्वसचन्त। ते ऽकामयन्ताप रक्षांसि हनीमहीति। त एतत् सामापश्यन्। तद् देवपुराम् एव कृत्वा तिर्यक् पर्यौहन्। तेन रक्षांस्य् अपाघ्नत। तद् उ रक्षसाम् अपहतिः। अप रक्षः पाप्मानं हते य एवं वेद। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥जैब्रा. ३.५६