सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/प्रमꣳहिष्ठीयम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
प्रमंहिष्ठीयम्
प्रमꣳहिष्ठीयम्
प्रमꣳहिष्ठीयम्

प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।
उपस्तुतासो अग्नये ॥ ८७८ ॥ ऋ. ८.१०३.८
आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः ।
कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत् ॥८७९ ॥



५. प्रमꣳहिष्ठीयम् ॥ इन्द्रः। ककुप् । अग्निः।
प्रमꣳहाऽ३इष्ठायगायता॥ ऋताव्नेऽ२। बृहतेशूक्राऽ३शोऽ३। चाऽ२३४इषाइ ॥ उपाऔऽ३ हो ॥ स्तोतासोऽऽआऽ३ । ग्नाऽ३४५योऽ६"हाइ ॥ श्रीः ॥ उपस्तूऽ३तासोअग्नयाइ ॥ आवꣳसाताऽ२इ । मघवाइराऽ३वी३त् । याऽ२३४शाः ॥ समाऔऽ३हो ॥ धोद्यूम्नीऽ३याऽ३ । हूऽ३४५तोऽ६"हाइ ॥ श्रीः ॥ समिद्धोऽ३द्युम्नियाहुताः॥ कुवाइन्नोऽ२ । अस्यसुमताइर्भाऽ३वीऽ३ । याऽ२३४साइ ॥ अच्छाऔऽ३हो ॥ वाजाइभीऽ३राऽ३ । गाऽ३४५मोऽ६"हाइ ॥

दी. ६. उत् . ७. मा. २१. थ. ॥६५॥

[सम्पाद्यताम्]

टिप्पणी

प्रमंहिष्ठीये (ग्रामगेयः)

अथ प्रमंहिष्ठीयम्। ऋषीणां वै सत्रम् आसीनानां पशव उपादस्यन्। ते ऽकामयन्ताव पशून् रुन्धीमहीति। ते होचुर् - एताग्निम् एव पशून् याचाम। स वाव पशूनाम् ईशे। स एव नः पशून् प्रदास्यतीति। त एतत् सामापश्यन्। तेनैनम् अस्तुवन् - प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे। उपस्तुतासो अग्नये॥ इति। तान् अब्रवीत् - किंकामा स्थेति। पशुकामा इत्य् अब्रुवन्। तेभ्य एतेनैव साम्ना पशून् प्रायच्छत्। ते ऽब्रुवन् - प्रमंहिष्ठो वै नो ऽभूद् इति। तद् एव प्रमंहिष्ठीयस्य प्रमंहिष्ठीयत्वम्। तद् एतत् पशव्यं साम। प्रमंहिष्ठो हास्मा एष भवत्य्, अव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। तत् पुनर्नितुन्नं छन्दो भवति। यत्र यत्र वै देवा छन्दसां रसम् अन्वविन्दंस् तत् पुनर्नितुन्नम् अकुर्वंस् तत् पुनर् अभ्याघ्नन्। धीता इवैते यच् छन्दोमास् तृतीयसवनायतनाः। धीतम् इव वै तृतीयसवनम्। तद् यत् पुनर्नितुन्नं छन्दो भवति रसम् एवैतच् छन्दोमेषु दधति। रसस्यैवैषाम् अनुवित्तिः॥जैब्रा ३.२२५