सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/बृहत्कम्

विकिस्रोतः तः
बृहत्कम्
बृहत्कम्

१७
त्वं ह्या३ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः ।
अमृतत्वाय घोषयन् ॥९३८ ॥ ऋ. ९.१०८.३
येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे ।
देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत ॥९३९ ॥

१६ बृहत्कम् ।। बृहत् । ककुप् । पवमानस्सोमः ।
तुवꣳही ।। अङ्गदैवाऽ२३या । पावमानजनिमानि । द्यूमत्तामाऽ२ः ।। अमार्ताऽ३त्वाऽ३ ।। यघोवा । षाऽ५योऽ६”हाइ। ।। श्रीः ।।
अमृता । त्वायघोषाऽ२३यान् । याइनानवग्वादध्यङ् । आपोऽ१र्णूताऽ२इ ।। येनावाऽ३इप्राऽ३ ।। सओवा । पाऽ५इरोऽ६”हाइ ।। श्रीः ।। येनवी ।।
प्रासआपाऽ२३इराइ । दाइवानासुम्नेअमृत । स्याचाऽ१रूणाऽ२ः ।।
येनाश्राऽ३वाऽ३ ।। सियोवा । शाऽतोऽ६”हाह ।।
दी. १५. उत्. ३. मा. १७. बे. ।।७६।।

[सम्पाद्यताम्]

टिप्पणी

शैतोष्माणि चत्वारि (ग्रामगेयः)

पृष्ठ्यषडहे चतुर्थमहः -- त्वं ह्यङ्ग दैव्येति त्वमिति बृहतो रूपं बार्हतं ह्येतदहः - तांब्रा १२.२.२

त्वं ह्य अंग दैव्येति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। पवमान जनिमानि द्युमत्तम इति जनद्वतीर् भवन्ति। षोडशिनम् एवैतत् तृतीयसवनात् प्रजनयन्ति॥ तासु बृहत्कं बृहताम् एकम्। एतेन ह वा एतद् अहर् बार्हतं क्रियते। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् बृहद् एव भूत्वा स्वर्गं लोकम् अवहत्। तेनाब्रुवन् स्वर्गं लोकं गत्वा - बृहद् वाव न इदं कम् अभूद् येन स्वर्गं लोकं व्यापामेति। तद् एव बृहत्कस्य बृहत्कत्वम्। तद् एतत स्वर्ग्यं साम। बृहद् अस्मै कं भवत्य्, अश्नुते स्वर्गं लोकं य एवं वेद। - जैब्रा ३.७८