सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/शौक्तम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
शौक्तम्
शौक्तम्
Gfp-pearl-nautilus-shell

२. शौक्तम् ।। शुक्तिः । उष्णिक् । पवमानः सोमः ।
स꣥खा꣯ । य꣣आ꣢ओ᳐꣣ऽ२३४वा꣥ ।। नि꣢षा꣡इ । दाता꣢ओ᳐꣣ऽ२३४वा꣥ । पु꣢ना꣯ना꣡꣯यप्रगाऽ२यता꣣ऽ२३꣡४꣡५꣡ ।। शा꣡इशा꣢ओ᳐꣣ऽ२३४वा꣥ ।। न꣡यज्ञैः꣯परिभू꣣ऽ२३꣡४꣡५꣡। षा꣡ता꣢ओ᳐꣣ऽ२३४वा꣥।। श्रि꣢येऽ१ ।।
दी. ४ उत्. ३. मा. ७. दे. ।।६२।।

(९)
सखाय आ नि षीदत पुनानाय प्र गायत ।
शिशुं न यज्ञैः परि भूषत श्रिये ॥ ११५७ ॥ ऋ. ९.१०४.१



२. शौक्तम् ।। शुक्तिः । उष्णिक् । पवमानः सोमः ।
सखा । यआओऽ२३४वा ।। निषाइ । दाताओऽ२३४वा । पुनानायप्रगाऽ२यताऽ२३४५ ।। शाइशाऔऽ२३४वा ।। नयज्ञैःपरिभूऽ२३४५। षाताओऽ२३४वा।। श्रियेऽ१ ।।

दी. ४ उत्. ३. मा. ७. दे. ।।६२।।


टिप्पणी

शौक्तानि (ग्रामगेयः)

दशरात्रे तृतीयमहः -- सखाय आ नि षीदत पुनानाय प्र गायतेति प्रवतीः परिवतीर् भवन्ति। तद् यत् प्रवतीर् भवन्ति चतुर्थस्यैवाह्नः प्रजात्यै। अथ यत् परिवतीर् अन्तस्य रूपम् - अन्तो ह्य् एतद् अहर् - यो ऽन्तस् सो ऽन्तो ऽसद् इति। परि परीति वा अन्तं पर्यन्ति॥जैब्रा ३.५२

तासु शौक्तम्। अङ्गिरसो वै तपस् तेपाना अशोचन्। ते ऽकामयन्ताप शुचं हनीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। तेन शुचम् अपाघ्नत। तद् यच् छुचम् अपाघ्नत तच् छौक्तस्य शौक्तत्वम्। अप शुचं हते य एवं वेद। शुक्तिर् आंगिरस स्वर्गकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स स्वर्गं लोकम् आश्नुत। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् उ शुक्तिर् आङ्गिरसो ऽपश्यत् तस्माच् छौक्तम् इत्य् आख्यायते। जैब्रा ३.५३

सखाय आनिषीदत"इत्युद्धत्तमिव वै तृतीयमहर्यदाह निषीदतेत्यहरेवैतेन प्रतिष्ठापयति - पञ्च.ब्रा. १२.५.५