सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/आतीषादीयम्

विकिस्रोतः तः
आतीषादीयम्.
आतीषादीयम्.

१८
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति ।
अग्रे वाचः पवमानः कनिक्रदत् ॥९४० ॥ ऋ. ९.१०६.१०
धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविं ।
अभि त्रिपृष्ठं मतयः समस्वरन् ॥९४१ ॥
असर्जि कलशां अभि मीढ्वान्त्सप्तिर्न वाजयुः ।
पुनानो वाचं जनयन्नसिष्यदत् ॥९४२ ॥


१७ आतीषादीयम् ।। प्रजापतिः । उष्णिक् । पवमानस्सोमः ।
सोमᳲपुना । हो । नऊर्मिणाऽ६ए ।। अव्यंवारंविधाऽ१वाऽ३ती । अग्रेवाऽ२३४५ । चाऽ२३४५ः ।। पवमाऽ२३नाऽ३ः ।। काऽ२नाऽ२३४औहोवा ।। क्रददेऽ२३४५ ।। श्रीः ।। धीभिर्मृजा । हो । तिवाजिनाऽ६मे ।। वनेक्रीडन्तमाऽ१त्याऽ३वाइम् । अभित्राऽ२३४५इ । पाऽ२३४५ ।। ष्ठम्मताऽ२३याऽ३ः ।। साऽ२माऽ२३४औहोवा ।। स्वरन्नेऽ२३४५ ।। श्रीः ।। असर्जिका । हो । लशाꣳअभीऽ६ए ।। मीढ्वान्त्सप्तिर्नवाऽ१जाऽ३यूः । पुनानोऽ२३४५ । वाऽ२३४५ ।। चञ्जनाऽ२३याऽ३न् ।। आऽ२साऽ२३४औहोवा ।। ष्यददेऽ२३४५ ।।
दी. १९. उत्. ३. मा. १५. दु. ।।७७।


[सम्पाद्यताम्]

टिप्पणी

सोमः पुनान ऊर्मिणा अव्यं वारं वि धावति। अग्रे वाचः पवमानः कनिक्रदत्॥ इत्य् अग्रम् इव भवति। अग्रं ह्य् एतद् अहर् यद् बार्हतम्। धीभिर् मृजन्ति वाजिनम् इति मृजन्तीव वै जातम्। जायत उ एतेनाह्ना। असर्जि कलशं अभि मीढ्वान् सप्तिर् न वाजयुः। पुनानो वाचं जनयन्न् असिष्यदत्॥ इति जनद्वतीर् भवन्ति। षोडशिनम् एवैतत् तृतीयसवनात् प्रजनयन्ति। सवनात् सवनाद् ध वै षोडशिनं प्रजनयन्ति॥जैब्रा ३.७८

तास्व् आतीषादीयम्। प्रजापतिः प्रजा असृजत। ता अस्य सृष्टा अताम्यन्। सो ऽकामयत न म इमाः प्रजास् ताम्येयुर् इति। स एतत् सामापश्यत्। तेनैना अभ्यमृशत्। तास् समानम्। प्रेव मीयन्ते चतुर्थेनाह्नानुष्टुभं हि गच्छन्ति। अनुष्टुब् वै परा। परावत् सम् एवैतेनानन्ति। तस्माद् उ हैतस्य साम्न आतमितोर् निधनम् उपेयात् सर्वस्यायुषो ऽवरुद्ध्यै। तद् आहुर् अताम्यन्न् एवोपेयात्। यदा वै ताम्यत्य् अथ म्रियते। तस्माद् अताम्यन्न् एवोपेयाद् इति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् साद एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन्न् एति वै साद इति। यद् अब्रुवन्न् एति वै साद इति, तद् एतीषादीयस्येतीषादीयत्वम् । त उ स्वर्गं लोकं गत्वाब्रुवन्न् आत इव बत स्वर्गे लोके सदामेति। तद् व् एवातीषादीयस्यातीषादीयत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। - जैब्रा ३.७९