सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/साम ५५५

विकिस्रोतः तः
उद्वद्भार्गवम्

५५५-१

उद्वद्भार्गवम्

अचोदसो नो धन्वन्त्विन्दवः प्र स्वानासो बृहद्देवेषु हरयः ।
वि चिदश्नाना इषयो अरातयोऽर्यो नः सन्तु सनिषन्तु नो धियः ॥ ५५५ || ऋ. ९.७९.१

सोमयागे उदयनीयेष्ट्यां औद्गात्रम्।

उद्वद्भार्गवम् साकौसं [ १.६.२.२.२] --
अचोदसो नो धन्वन्त्विन्दवः प्र स्वानासो बृहद्देवेषु हरयः।
वि चिदश्नाना इषयो अरातयोऽर्यो नः सन्तु सनिषन्तु नो धियः॥ (ऋग्वेदः ९.७९.१)

अचोदासो२३ । नोधनूवा२३ । तूइन्दवाः । प्रस्वानासो२३ । बृहद्दाइवे२३ । षूहरयाः।
विचिदाश्ना२३ । नाइषाया२३ः। आरातयाः। अर्योनाःसा२३ । तूसनाइषा२३ । तूनोधिया३१ उ । वा २३४५॥
---[ ग्राम १६.२.७]
सामराजं वा विशालं वा उद्वत्

टिप्पणी

उदयनीयेष्ट्यौद्गात्रम्। प्रधानयागकाले प्रस्तोतृसाम। प्रायणीये प्रवद्भार्गवं

उद्वतीषु स्रुवते , उद्वद्वा अनुष्टुभो रूपं, आनुष्टुभो राजन्य, स्तस्मादुद्वतीषु स्रुवते - मैसं ४.४.१०