सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/शाकलम्

विकिस्रोतः तः
(शाकलम् इत्यस्मात् पुनर्निर्दिष्टम्)
शाकलम्.
शाकलम्.

११
अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।
सीदन्योनौ वनेष्वा ॥९९४ ॥ ऋ. ९.६५.१९
अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
सोमा अर्षन्तु विष्णवे ॥ ९९५ ॥
इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणं ॥ ९९६ ॥


३ शाकलम् ।। शकलः । गायत्री । पवमानस्सोमः ।

अर्षासोमाऽ२द्युमत्तमाः ।। अभिद्रोणानिरोरूऽ२३वात् ।। साइदाऽ२न् ।। योनौवनाऽ२३इ । हुम् । षूऽ३४५वोऽ६”हाइ ।। श्रीः ।। अप्साइन्द्राऽ२यवायवाइ ।। वरुणायमरुद्भाऽ२३याः ।। सोमाऽ२ः ।। आर्षन्तुवा ऽ२३इ । हुम् । ष्णाऽ३४५वोऽ६”हाइ ।। श्रीः ।। इषन्तोकाऽ२यनोदधात् ।। अस्मभ्यꣳसोमविश्वाऽ२३ताः ।। आपाऽ२ ।। वास्वसहाऽ२३ । हुम् । स्राऽ३४५इणोऽ६"हाह ।।

दी. १२ उत् २. मा १९ छो. ।।८३।।


[सम्पाद्यताम्]

टिप्पणी

शकलो वै पञ्चमम् अहर् अपश्यद् राथन्तरं रूपेण। तस्माद् राथन्तरे ऽहन् क्रियते। शकलो वा अन्नाद्यकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽन्नाद्यम् अवारुन्द्ध। तस्य वा एतस्यास्ति यथैव प्रयच्छेद् एवम्। तद् धिंकारवद् भवति। अन्नं वै हिंकारः। हुम् इति वा अन्नाद्यं प्रदीयते। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। अथो यद् एवैतस्मिन्न् अहन् प्राचीनं शक्वरीभ्यः क्रूरम् इव क्रियते, तद् एवैतेन हिंकारेण शमयन्ति। - जैब्रा. ३.९३