सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/वात्सप्रम्

विकिस्रोतः तः
वात्सप्रम्
वात्सप्रम्

१९
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।
जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥ ९४३ ॥ ऋ. ९.९६.५
ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषोमृगाणां ।
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ॥९४४ ॥
प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः ।
अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ॥९४५ ॥




१९ वात्सप्रम् ।। वत्सप्रिः । त्रिष्टुप् । पवमानस्सोमः ।
हाउहाउहाउ । ओ । होहोवा ( द्वे । त्रिः) सोमᳲपवा । तेजनि । तामतीनाम् । मतीनाम् । (द्विः) ।। जनितादाइ । वोजनि । तापृथिव्याः । पृथिव्याः (द्विः) ।। जनिताग्नाइः । जनिता । सूरियस्या । रियस्या (द्विः) ।।
जनितेन्द्रा । स्याजनि । तोतविष्णोः । तविष्णोः (द्विः) ।।श्रीः।। ब्रह्मादेवा । नाम्पद । वीᳲकवीनाम् । कवीनाम् (द्विः) ।। ऋषिर्विप्रा । णाम्महि । षोमृगाणाम् । मृगाणाम् (द्विः) ।। श्येनोगृध्रा । णाꣳस्वधि । तिर्वनानाम् । वनानाम् (द्विः) ।। सोमᳲपवाइ । त्रामति । एतिरेभन् । तिरेभन् । (द्विः) ।। श्रीः ।। प्रावीविपात् । वाचऊ । मिन्नसिन्धुः । नसिन्धुः ( द्विः) ।। गिरस्तोमान् । पवमा । नोमनीषाः । मनीषाः ( द्विः) ।। अन्तᳲपश्यान् ।
वृजने । मावराणी । वराणी (द्विः) ।। आतिष्ठताइ । वृषभः । गोषुजानन् । षुजानन् । (द्विः) ।। हाउहाउहाउ । ओ । होहोवा (द्वे । द्विः) ओ । हो। । होऽ२ । वाऽ२३४ । औहोवा ।। ईऽ२३४५ ।।
दी. ७०. उत्.२४. मा ४६. भू. ।।७९।।


[सम्पाद्यताम्]

टिप्पणी

वात्सप्र ( सामन्-)-

स्तोमेन वै देवा अस्मिँल्लोक आर्ध्नुवञ् छन्दोभिर् अमुष्मिन् । स्तोमस्येव खलु वा एतद् रूपं यद् वात्सप्रम् । यद् वात्सप्रेणोपतिष्ठते । इमम् एव तेन लोकम् अभि जयति - तैसं ५.२.१.६

१. तद्धैक आहुः । स्वयं वा एष वनीवाहितो विष्णुक्रमैर्वा एष प्रयाति वात्सप्रेणावस्यतीति न तथा विद्याद्दैवं वा अस्य तत्प्रयाणं यद्विष्णुक्रमा दैवमवसानं यद्वात्सप्रम । माश ६,८, १,३

२. प्रतितिष्ठति वात्सप्रेण तुष्टुवानः । तां १२,११ ,२४ ।

३. प्रतिष्ठा वै वात्सप्रम् । माश ६,७,४,१५ ।

४. अग्निहोत्रे अग्न्युपस्थानम् -- यद्वेव वत्सं स्पृशति तस्माद्वात्सप्रं सूक्तम् । कौ २,४

५. वात्सप्रं भवति एतस्मिन् वै वैराजं प्रतिष्ठितं प्रतितिष्ठति वात्सप्रेण तुष्टुवानः। वत्सप्रीर्भालन्दनः श्रद्धां नाविन्दत स तपोऽतप्यत स एतद्वात्सप्रमपश्यत् स श्रद्धामविन्दत श्रद्धा विन्दामहा इति वै सत्त्रमासते विन्दते श्रद्धाम्। ईनिधनं तथा ह्येतस्याह्नो रूपं निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै । तां १२,११,२५

६. स हैष दाक्षायणहस्तः । यद्वात्सप्रं तस्माद्यं जातं कामयेत सर्वमायुरियादिति वात्सप्रेणैनमभिमृशेत्तदस्मै जातायायुष्यं करोति । माश ६,७,५,२ ।।

७. अहोरात्रे वात्सप्रम् – माश ६.७.५.२०

८. रात्रिर्वात्सप्रम् – माश ६.७.४.१२

९. वत्सप्री मार्कण्डेय ११३.४०(भलन्दन - पुत्र, सुनन्दा - पति, कुजृम्भ का वधकर्त्ता )vatsapree

मुशलोपरि टिप्पणी