सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/त्र्यन्तं त्वाष्ट्रीसाम

विकिस्रोतः तः
Jump to navigation Jump to search
त्र्यन्तं त्वाष्ट्रीसाम
त्र्यन्तं त्वाष्ट्रीसाम

१५
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः |
पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः || ८७२ || ऋग्वेदः ९.१०१.४
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् |
वाचस्पतिर्मखस्यते विश्वस्येशान ओजसाः || ८७३ ||
सहस्रधारः पवते समुद्रो वाचमीङ्खयः |
सोमस्पती रयीणां सखेन्द्रस्य दिवेदिवे || ८७४ ||


४. त्र्यन्तं त्वाष्ट्रीसाम । त्वाष्ट्र्यः। अनुष्टुप्। पवमानः सोमः।
सुतासोमा ।। धुमाऽ३त्तमाः । सोमाइन्द्राऽ३यमाऽ३ । एऽ३ । दिनआ ।। पवाइत्रवाऽ३”न्तोऽ३ । एऽ३ । क्षरन्ना ।। दाइवान्गच्छाऽ३”न्तुवाऽ३ः ।। एऽ३। मदाआ ।।श्रीः ।। इन्दुरिन्द्रा ।। यपाऽ३वताइ । इताइदेवाऽ३सोऽ३ । एऽ३ । ब्रुवन्ना ।। वाचस्पताऽ३इ”र्मखाऽ३ । एऽ३ । स्यतआ ।। विश्वास्येशाऽ३”नओऽ३ ।। एऽ३ । जसआ ।।श्रीः।। सहस्रधा ।। रᳲपाऽ३वताइ । समूद्रोवाऽ३चमाऽ३इ । एऽ३ । खयआ ।। सोमास्पताऽ३इ”रयाऽ३इ । एऽ३ । णाऽ३मा ।। सखेन्द्रस्याऽ३”दिवाऽ३इ ।। एऽ३। दिवआ ।।

दी.९.उत्. न. मा२०. लौ.।।६४।।


द्र. त्वाष्ट्री सामनी (ग्रामगेयः)


[सम्पाद्यताम्]

टिप्पणी

त्वष्टा उपरि संदर्भाः


त्वाष्ट्रीसाम भवति। इन्द्रं वा अक्ष्यामयिणं भूतानि नास्वापयंस्तमेतेन त्वाष्ट्रयोऽस्वापयंस्तद्वाव तास्तर्ह्यकामयन्त कामसनि साम त्वाष्ट्रीसाम। काममेवैतेनावरुन्धे। इन्द्रो वृत्राद्बिभ्यद्गां प्राविशत् तं त्वाष्ट्रयोऽब्रुवं जनयामेति तमेतैः सामभिरजनयं जायामहा इति वै सत्त्रमासते जायन्त एव। तां १२,५,१९-२१

सार्वत्रिककथनमस्ति यत् प्राणः हृदि शेते। यदा प्राणः जाग्रति, तदा हृदयस्य परितः ये हितानाम नाड्यः सन्ति, तासु विचरति। तदा स्वप्नाः दृश्यन्ते। अथर्ववेदे सूक्तः ४.५ स्वप्नसूक्तः अस्ति। अत्र कथनमस्ति यत् सर्वं जगत् स्वपिति, केवलमहं इन्द्रः अक्षितः जागृयामि। अनुमानमस्ति यत् ताण्ड्यब्राह्मणे इन्द्रस्य अक्षिषु रोगस्य यः उल्लेखः अस्ति, तत् हृदयस्य परितः नाडीषु रोगस्य प्रतीकः अस्ति।


अथ त्वाष्ट्रीसाम मध्येनिधनं भवति प्रतिष्ठायै। समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। तस्य पुरस्तान् निधनस्य प्रतिहारम् उपयन्ति। प्रस्तावप्रतिहाराभ्यां वै यजमानो धृतः। प्रद्रुतम् इवैतद् अहर् यत् त्रिवृत्। तद् यत् पुरस्तान् निधनस्य प्रतिहारम् उपयन्त्य् अप्रस्रंसायैव। इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानो गाः प्राविशत्। ता अकामयन्तेन्द्रं जनयेमेति। ता एतानि सामान्य् अपश्यंस् त्वाष्ट्रीसामानि। तैर् इन्द्रम् अजनयन्। तानि वा एतानि वीरजननानि सामानि । आस्य वीरो जायते य एवं वेद। अथो पशवो वै त्वाष्ट्र्यः। तद् यद् एतानि सामानि भवन्ति पशूनाम एवावरुद्ध्यै। तद् ऐळं भवति - पशवो वा इळा - पशूनाम् एवावरुद्ध्यै। यद् उ त्वाष्ट्र्यो ऽपश्यंस् तस्मात् त्वाष्ट्रीसामेत्य् आख्यायते। । जै ३, १९ ।।

द्वादशाहे तृतीयमहः-- अथ त्वाष्ट्रीसाम वीरजननं साम। अस्य वीरो जायते य एवं वेद। अथो चतुर्थस्यैवाह्नः प्रजात्यै। प्रजननं ह्य् एतद् यत् त्वाष्ट्रीसाम। तन् मध्येनिधनं भवति प्रतिष्ठायै। जै ३, ५४