सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २

विकिस्रोतः तः

1.2

श्रौतकक्षम् इन्द्राय मद्वने)

इहवद्दैवोदासम् (अयं त इन्द्र)

और्ध्वसद्मनम्** (अयं ते इन्द्र)

आकूपारम् (आ तू न इन्द्र)

आर्षभम् (अभि त्वा वृष)

गारम् (इदं वसो सुत)

घृतश्चुन्निधनम् (इदं ह्यनु)

दैवातिथम् (आ तु एतानि)

सौमेधम् (योगेयोगे तव)

१० कौत्सम् (इन्द्र सुतेषु)

११ आश्वम् (अभि द्रोणानि)

१२ सोमसाम (सुता इन्द्राय)

१३ यौधाजयम् (प्र सोमा देव)

१४ सꣳहितम् (प्र सोमा देव)

१५ सफम् (अया पवस्व)

१६ आक्षारम् (पवते हर्य)

१७ गौरीवितम् (प्रसुन्वानाय)

१८ गौतमम् (प्र सुन्वानाय)

१९ यौक्ताश्वाद्यम् (वृषा पवस्व) (यौक्ताश्वम्)

२० ऐडमायास्यम् (पुनानस्सोम) (आयास्यम्)



साम १६४

८. दैवातिथम् ॥ देवातिथिः। गायत्री। इन्द्रः।
आतूऽ३४ । एतानि । षीदाऽ६ता ॥ इन्द्रमभाइ । प्रगायता। साखायस्तोम । वा । औऽ३ हो । ववाऽर हाऽ२३४साः ॥ हयाइ । साखायस्तोम । वा । औऽ३हो । हुम्माऽ२३ । हाऽ३४५सोऽ६"हाइ ॥ श्रीः । पुरूऽ३४ । तमंपु । रूऽ६णाम् ।। ईशानंवा । रियाणाम् । इन्द्रꣳ सोमेस । चा। औऽ३हो । ववाऽ२ सूऽ२३४ताइ । हयाइ । इन्द्रꣳ सोमेस । चा । औऽऽहो । हुम्माऽ२३ । सूऽ३४५तोऽ६"हाइ ॥ श्रीः ॥ सघाऽ३४ । नोयोगे । आभू६वात् ॥ सरायेसाः । पुरन्धिया। गमद्वाजेभिः । आ। औऽ३हो । ववाऽरसाऽ२३४नाः ।। हयाइ । गमद्वाजेभिः । आ । औऽ३हो हुम्माऽ२३ । साऽ३४५नोऽ६"हाइ ॥ दी. २६. उत्. ६. मा. १६. घू ॥२८॥

टिप्पणी

साम १६४ आ त्वेता नि षीदतेति--

मैत्रावरुणसामविधानं --- आ त्वेता निषीदतेति दैवातिथम्। देवातिथिः सपुत्रोऽशनायंश्चरन्नरण्य उर्वारूण्यविन्दत्तान्येतेन साम्नोपासीदत्ता अस्मै गावः पृश्नयो भूत्वोदतिष्ठन्यदेतत्साम भवति पशूनां पुष्ट्यै- तां.ब्रा. ९.२.१९। जैमिनीयं ब्राह्मणं १.२२६ अपि द्रष्टव्यम् अस्ति।

अयं प्रतीयते यत् संयोगवशात्, दैववशात् यत्किंचित् प्राप्यते, तस्य प्रतिनिधिः देवातिथिः अस्ति। अस्य द्यूतस्य रूपान्तरणं, स्थिरीकरणं केन प्रकारेण भवेत्, अयं अस्य सामस्य उद्देश्यं प्रतीयते। या पृश्नि गौः अस्ति, सा मरुतानां माता अस्ति। ऋग्वेदस्य सूक्ते १.५ कामना व्यक्ता अस्ति यत् मरुतः इन्द्रस्य सख्यस्थानाः भवन्तु एवं इन्द्रः तेषु ज्येष्ठः अस्तु। आ तु एता निषीदतेति - एता मरुत्प्राणाः उपद्रवकारिणः न सन्तु, अपितु शान्ताः भूत्वा सीदन्तु। नायमावश्यकं यत् उर्वारुकशब्दः कर्कटीअर्थतः एव सीमितः अस्ति। मत्स्य पुराणे १७५.२३ एकः उर्वऋषिः अस्ति यः स्वऊरुभ्यः अग्निं उत्पादयति। यास्कानुसारेण( ५.१३ ) उर्वशीशब्दस्य निरुक्तिः एवं प्रकारेण अस्ति -- या ऊरुभ्यां अश्नोति।