सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/सौमेधम्

विकिस्रोतः तः
सौमेधम्.
सौमेधम्.

११
योगेयोगे तवस्तरं वाजेवाजे हवामहे |
सखाय इन्द्रमूतये || ७४३ ||
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरं |
यं ते पूर्वं पिता हुवे || ७४४ ||
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः |
वाजेभिरुप नो हवं || ७४५ ||



९. सौमेधम् ।। सुमेधाः । गायत्री । इन्द्रः ।

योगेयोगेतवाहाउस्ताराम् ।। वाजेवाजे । हवाऽ२माहाइ । हूवाइ । औऽ३होऽ२३४वा । साखायइ । द्रमूऽ२तायाइ । हूवाइ । औ३ऽहो२३४वा ।। सखायआ ।। हूवाऽ२इ । औऽ३होऽ२३४५वाऽ६५६ ।। द्रमूऽ३तयेऽ२३४५ ।। श्रीः । । अनुप्रत्नस्यौहाउकासाः । । हुवेतुवि । प्रताऽ२इन्नाराम् । हूवाइ । औऽ३होऽ२३४वा । यान्तेपूर्वम् । पिताऽ२हूवाइ । हूवाइ । औऽ३होऽ३४५वा । यन्तेपूर्वाम् । हूवाऽ२इ । औऽहोऽ२३४५वाऽ६५६ ।। पिताऽ३हुवेऽ२३४५ । । श्रीः ।। आघागमद्यदीहाउश्रावात् । । साहस्रिणी । भिरूऽ२ताइभाइः । हूवाइ । औऽ३होऽ२३४वा । वाजेभिरु । पनोऽ२हावाम् । हूवाइ । औऽ३होऽ२३४वा । वाजेभिरू । हूवाऽ२इ । औऽ३होऽ२३४५वाऽ६५६ ।। पनोऽ३हवाऽ२३४५म् ।

दीर्घ. २६. इत्. ६. मा २९ को ।। २९ ।।


[सम्पाद्यताम्]

टिप्पणी

अतिरात्रे उत्तमे पर्याये द्वितीयं स्तोत्रम्। ताण्ड्यब्राह्मणानुसारेण (१.१०.१०) एतेषां स्तोत्राणां लक्षणाः सन्ति - निरोहोऽसि निरोहाय त्वा संरोहोऽसि संरोहाय त्वा प्ररोहोऽसि प्ररोहाय त्वानुरोहोऽस्यनुरोहाय त्वा सवितृप्रसूता बृहस्पतये स्तुत ।

प्रथमं स्तोत्रम् (घृतश्चुन्निधनम्)

द्वितीयं स्तोत्रम् (दैवातिथम्)

तृतीयं स्तोत्रम् (सौमेधम्)

चतुर्थं स्तोत्रम् (कौत्सम्)


अथाजम् । योगे योगे तवस्तरं वाजे वाजे हवामह इत्यन्नं वै वाजः कर्मणि कर्मणि तवस्तरमन्नेऽन्ने हवामह इत्येतत्सखाय इन्द्रमूतय इतीन्द्रियवन्तमूतय इत्येतत्तदजे वीर्यं दधाति - माश ६.३.२.४

ज्योतिष्टोमे रात्रिपर्यायशस्त्रप्रकरणम् -- योगेयोगे युञ्जन्ति ब्रध्नमिति ब्राह्मणाच्छंसिनः १। शेषः सूक्तस्योक्थमुखम् शांश्रौसू. ९.१७.१

उखासम्भरणमष्टम्याम्......अश्वप्रभृतींश्च प्रत्यृचं प्रतूर्तं युञ्जाथां योगे योग इति कात्या.श्रौ.सू. १६.२.९