सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/दैवातिथम्

विकिस्रोतः तः
दैवातिथम्.
दैवातिथम्

आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
सखाय स्तोमवाहसः ॥ ७४०
पुरूतमं पुरूणामीशानं वार्याणां ।
इन्द्रं सोमे सचा सुते ॥ ७४१ ॥
स घा नो योग आ भुवत्स राये स पुरन्ध्या ।
गमद्वाजेभिरा स नः ॥ ७४२ ॥

८. दैवातिथम् ॥ देवातिथिः। गायत्री। इन्द्रः।
आतूऽ३४ । एतानि । षीदाऽ६ता ॥ इन्द्रमभाइ । प्रगायता। साखायस्तोम । वा । औऽ३ हो । ववाऽर हाऽ२३४साः ॥ हयाइ । साखायस्तोम । वा । औऽ३हो । हुम्माऽ२३ । हाऽ३४५सोऽ६"हाइ ॥ श्रीः । पुरूऽ३४ । तमंपु । रूऽ६णाम् ।। ईशानंवा । रियाणाम् । इन्द्रꣳ सोमेस । चा। औऽ३हो । ववाऽ२ सूऽ२३४ताइ । हयाइ । इन्द्रꣳ सोमेस । चा । औऽऽहो । हुम्माऽ२३ । सूऽ३४५तोऽ६"हाइ ॥ श्रीः ॥ सघाऽ३४ । नोयोगे । आभू६वात् ॥ सरायेसाः । पुरन्धिया। गमद्वाजेभिः । आ। औऽ३हो । ववाऽरसाऽ२३४नाः ।। हयाइ । गमद्वाजेभिः । आ । औऽ३हो हुम्माऽ२३ । साऽ३४५नोऽ६"हाइ ॥ दी. २६. उत्. ६. मा. १६. घू ॥२८॥


[सम्पाद्यताम्]

टिप्पणी

अतिरात्रे उत्तमे पर्याये द्वितीयं स्तोत्रम्। ताण्ड्यब्राह्मणानुसारेण (१.१०.१०) एतेषां स्तोत्राणां लक्षणाः सन्ति - निरोहोऽसि निरोहाय त्वा संरोहोऽसि संरोहाय त्वा प्ररोहोऽसि प्ररोहाय त्वानुरोहोऽस्यनुरोहाय त्वा सवितृप्रसूता बृहस्पतये स्तुत ।

मैत्रावरुणसामविधानं - देवातिथिः सपुत्रोऽशनायंश्चरन्नरण्य उर्वारूण्यविन्दत्तान्येतेन साम्नोपासीदत्ता अस्मै गावः पृश्नयो भूत्वोदतिष्ठन्यदेतत्साम भवति पशूनां पुष्ट्यै - तांब्रा. ९.२.१९

प्रथमं स्तोत्रम् (घृतश्चुन्निधनम्)

द्वितीयं स्तोत्रम् (दैवातिथम्)

तृतीयं स्तोत्रम् (सौमेधम्)

चतुर्थं स्तोत्रम् (कौत्सम्)