सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/गारम्

विकिस्रोतः तः
गारम्
गारम्


इदं वसो सुतमन्धः पिबा सुपूर्णमुदरं ।
अनाभयिन्ररिमा ते ॥ ७३४ ॥ ऋ. ८.२.१
नृभिर्धौतः सुतो अश्नैरव्या वारैः परिपूतः ।
अश्वो न निक्तो नदीषु ॥ ७३५ ॥
तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः ।
इन्द्र त्वास्मिंत्सधमादे ॥ ७३६ ॥



६. गारम् ।। गरः । गायत्री । इन्द्रः ।

इदंवसोसुतमन्धाऽ३ए ।। पिबासुपूऽ३र्णामुदरौ । होऽ३वा । पिबासुपूर्णामुदरौ । होऽ३वा ।। आनाभाऽ३यीन् ।। ररिमाता । औऽ३होवा ।। श्रीः ।। नृभिर्धौतस्सुतोअश्नाऽ३इरे । अव्यावारैऽ३ᳲपारिपूतौ । होऽ३वा । अव्यावारैᳲपारिपूतौ । होऽ३वा ।। आश्वोनाऽ३नी ।। क्तोनदीषू । औऽ३होवा ।। श्रीः ।। तन्तेयवंयथागोभीऽ३रे ।। स्वादुमक- ऽ३र्माश्रीणन्तौ । होऽ३वा । स्वादुमकर्माश्रीणन्तौ । होऽ३वा । । आइन्द्रात्वाऽ३स्मीन् ।। सधमादा । औऽ३होवा । होऽ५इ ।। डा । ।

दी. ३२ उत्. न. मा. ७ ये. ।। २६ ।।

अच्छावाकशस्त्रम्

अतिरात्रे मध्यमे पर्याये अच्छावाकशस्त्रम् (श्रौतकोशः)


हिं भूर्भुवः स्वरो३म् शोसावो३म् '
इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् ।
पिबा सुपूर्णमुदरमनाभयिन् ररिमा तो३म्
नृभिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः।
अव्यो वारैः परिपूतोऽश्वो न निक्तो नदीषो३म्
तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः ।
स्वादुमकर्म श्रीणन्त इन्द्र त्वास्मिन्त्सधमादो३म् ( ८.२.१-३)
शोंसावो३म् इन्द्रे हि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
विश्वेभिः सोमपर्वभिर्महाँ अभिष्टिरोजसो३म्
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने।
मन्दिमिन्द्राय मन्दिने चक्रिं विश्वानि चक्रयो३म्
मत्स्वा सुशिप्र मन्दिभिः स्तोमेभिर्विश्वचर्षणे ।
स्तोमेभिर्विश्वचर्षणे सचैषु सवनेष्वो३म् (१.९.१-३ )
शोंसावो३म् प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः ।
नरं नृषाहं मंहिष्ठो३म्
यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या ।
अपामवो न समुद्रो३म्
तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् ।
महो वाजिनं सनिभ्यो३म्
यस्यानूना गभीरा मदा उरवस्तरुत्राः ।
हर्षुमन्तः शूरसातो३म्
तमिद् धनेषु हितेष्वधिवाकाय हवन्ते ।
येषामिन्द्रस्ते जयन्तो३म्
तमिच्च्यौत्नैरार्यन्ति तं कृतेभिश्चर्षणयः।
एष इन्द्रो वरिवस्को३म्
इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः पुरू पुरुहूतः ।
महान् महीभिः शचीभो३म्
स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः ।
एकश्चित् सन्नभिभूतो३म्
तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः ।
इन्द्रं वर्धन्ति क्षितयो३म्
प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु ।
सासह्वांसं युधामित्रो३म्
स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।
इन्द्रो विश्वा अति द्विषो३म्
स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च ।
अच्छा च नः सुम्नं नेषो३म् (८.१६.१-९)
उप क्रमस्वा भर धृषता धृष्णो जनानाम् ।
अदाशूष्टरस्य वेदो३म्
इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः ।
अस्माभिः सुतं सनुहो३म्
सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः।
वशैश्च मक्षू जरन्तो३म् (८.८१.७-९)
तदस्मै नव्यमङ्गिरस्वदर्चत ।
शुष्मा यदस्य प्रत्नथोदीरतो३म्
विश्वा यद् गोत्रा सहसा परीवृता।
मदे सोमस्य दृंहितान्यैरयो३म्
स भूतु यो ह प्रथमाय धायसे ।
ओजो मिमानो महिमानमातिरो३म्
शूरो यो युत्सु तन्वं परिव्यत ।
शीर्षणि द्यां महिना प्रत्यमुञ्चतो३म्
अधाकृणोः प्रथमं वीर्यं महत् ।
यदस्याग्रे ब्रह्मणा शुष्ममैरयो३म्
रथेष्ठेन हर्यश्वेन विच्युताः ।
प्र जीरयः सिस्रते सध्र्यक् पृथो३म्
अधा यो विश्वा भुवनाभि मज्मना ।
ईशानकृत् प्रवया अभ्यवर्धतो३म्
आद् रोदसी ज्योतिषा वह्निरातनोत् ।
सीव्यन् तमांसि दुधिता समव्ययो३म्
स प्राचीनान् पर्वतान् दृंहदोजसा ।
अधराचीनमकृणोदपामपो३म्
अधारयत् पृथिवीं विश्वधायसम् ।
अस्तभ्नान्मायया द्यामवस्रसो३म्
सास्मा अरं बाहुभ्यां यं पिताकृणोत् ।
विश्वस्मादा जनुषो वेदसस्परो३म्
येना पृथिव्यां नि क्रिविं शयध्यै ।
वज्रेण हत्व्यवृणक् तुविष्वणो३म्
अमाजूरिव पित्रोः सचा सती ।
समानादा सदसस्त्वामिये भगो३म्
कृधि प्रकेतमुप मास्या भर ।
दद्धि भागं तन्वो येन मामहो३म्
भोजं त्वामिन्द्र वयं हुवेम ।
ददिष्ट्वमिन्द्रापांसि वाजो३म् ।
अविड्ढीन्द्र चित्रया न ऊती।
कृधि वृषनिन्द्र वस्यसो नो३म् (२.१७.१-८)
शोंसावो३म् नूनं सा ते प्रति वरं जरित्रे ।
दुहीयदिन्द्र दक्षिणा मघोनो३म्
शिक्षा स्तोतृभ्यो माति धग्भगो नः ।
बृहद् वदेम विदथे सुवीरो३म् (२.१७.९)


[सम्पाद्यताम्]

टिप्पणी

देवेभ्यो वा असुरा गरान् प्राकिरन्। तान् अविद्वांसो ऽगिरन्न् अन्नम् एव मन्यमानाः। ते गरगिरो ऽमन्यन्त। ते ऽकामयन्तापेमान् गरान् गीर्णान् हनीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। तेनेमान् गरान् गीर्णान् अपाघ्नत। त एवेमे गिरयो ऽभवन्। तद् यद् गरान् गीर्णान् अपाघ्नत तद् एव गारस्य गारत्वम्। स यो गरगीर् मन्येताप्रतिगृह्यस्य प्रतिगृह्य, अनाश्यान्नस्यान्नम् अशित्वा स एतेन स्तुवीत। अप हैव तं गरं गीर्णं(गार्णं?) हते। यद् अनेन किं च पापं कृतं भवति तद् अपहते॥ तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठति॥ - जैब्रा १.२२३