सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/आकूपारम्

विकिस्रोतः तः
आकूपारम्
आकूपारम्


आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय ।
महाहस्ती दक्षिणेन ॥ ७२८ ॥ ऋग्वेदः ८.८१.१
विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघं ।
तुविमात्रमवोभिः ॥ ७२९ ॥
न हि त्वा शूर देवा न मर्तासो दित्सन्तं ।
भीमं न गां वारयन्ते ॥ ७३० ॥


४. आकूपारम्।। आकूपारः । गायत्री । इन्द्रः ।

आतूनइ । द्रक्षुमाऽ३न्ताम् ।। चित्रंग्राभꣳसंगृभाऽ२या । चित्रंग्राभꣳसम् । गॄ । औऽ३होइ । भाऽ२३४या ।। ऐहोइ। । महाहस्तीदक्षाऽ२३होइ ।। औहो । वाहोऽ२३४वा । णाऽ५इनोऽ६”हाइ ।। श्रीः ।। विद्माहित्वातुवि । कूऽ३र्मीम् ।। तुविदेष्णंतुवीमाऽ२घाम् । तुविदेष्णन्तु । वा । औऽ३होइ । माऽ२३४घाम् ।। ऐहोइ । तुविमात्रमाऽ२३होइ ।। औहो । वाहोऽ२३४वा । वोऽ५भोऽ६”हाइ ।। श्रीः ।। नहित्वाशूर । दाऽ३इवाः ।। नमर्त्तासोदित्साऽ२न्ताम् । नमर्तासः । दा । औऽ३होइ । त्सा२३४न्ताम् ।। ऐहोइ । भीमन्नगांवाराऽ२३होइ ।। औहो । वाहोऽ२३४वा । याऽ५न्तोऽ६”हाह ।।

दी.२९. उत्. ११ मा.२४. ती. ।।२४।।



[सम्पाद्यताम्]

टिप्पणी