सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/कौत्सम्

विकिस्रोतः तः
कौत्सम्
कौत्सम्.

१० कौत्सम् ।। कुत्सः । उष्णिक् । इन्द्रः ।
इ꣢न्द्रसुते꣯षुसो꣯मे꣡षू꣢ ।। क्र꣡तूऽ᳒२᳒म्पु꣡नाइ । ष꣢उक्थि꣡याम् । वि꣢दे꣯वा꣡र्द्धा᳒ऽ᳒२᳒ । स्यदक्ष꣡स्या ।। म꣢हा꣯ꣳहा꣡इषा᳒ऽ᳒२᳒ः ।। म꣡हꣳऽ२३हिषा꣢ऽ३४३ः ।। श्रीः ।। स꣡प्रथमे꣯वियो꣯मा꣡नी꣢ ।। दे꣡꣯वा᳒ऽ᳒२᳒ना꣡꣯ꣳसा। द꣢ने꣯वृ꣡धाः । सु꣢पा꣯रा꣡स्सू᳒ऽ᳒२᳒ । श्रवस्त꣡माः ।। स꣢मप्सू꣡जी᳒ऽ᳒२᳒त् ।। स꣡माऽ२३प्सुजी꣢ऽ३४३त् ।। श्रीः ।। त꣢मुहुवे꣯वा꣯जसा꣯ता꣡या꣢इ ।। इ꣡न्द्रा᳒ऽ᳒२᳒म्भ꣡रा । य꣢शुष्मि꣡णाम् । भ꣢वा꣯ना꣡स्सू᳒ऽ᳒२᳒ । म्ने꣯अन्त꣡माः ।। स꣢खा꣯वा꣡र्धा᳒ऽ᳒२᳒इ ।। स꣡खाऽ२३वृधा꣢ऽ३४३इ । ओ꣡ऽ२३४५इ ।। डा ।।

दी. १६ उत् १५. मा १७ डे. ।। ३० ।।



१२
इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यं ।
विदे वृधस्य दक्षस्य महां हि षः ॥ ७४६ ॥ ऋ ८.१३.१
स प्रथमे व्योमनि देवानां सदने वृधः ।
सुपारः सुश्रवस्तमः समप्सुजित् ||७४७ ॥
तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणं ।
भवा नः सुम्ने अन्तमः सखा वृधे ॥ ७४८ ॥


१० कौत्सम् ।। कुत्सः । उष्णिक् । इन्द्रः ।
इन्द्रसुतेषुसोमेषू ।। क्रतू२म्पुनाइ । षउक्थियाम् । विदेवार्द्धाऽ२ । स्यदक्षस्या ।। महाꣳहाइषाऽ२ः ।। महꣳऽ२३हिषाऽ३४३ः ।। श्रीः ।। सप्रथमेवियोमानी ।। देवाऽ२नाꣳसा। दनेवृधाः । सुपारास्सूऽ२ । श्रवस्तमाः ।। समप्सूजीऽ२त् ।। समाऽ२३प्सुजीऽ३४३त् ।। श्रीः ।। तमुहुवेवाजसातायाइ ।। इन्द्राऽ२म्भरा । यशुष्मिणाम् । भवानास्सूऽ२ । म्नेअन्तमाः ।। सखावार्धाऽ२इ ।। सखाऽ२३वृधाऽ३४३इ । ओऽ२३४५इ ।। डा ।।

दी. १६ उत् १५. मा १७ डे. ।। ३० ।।


[सम्पाद्यताम्]

टिप्पणी

क्रोशम् (ग्रामगेयः)

इन्द्र सुतेषु सोमेषु इत्य् उष्णिहो भवन्ति। देवपुरा वा एषा यद् उष्णिहः। ता यद् अन्ततः क्रियन्ते देवपुराम् एवैतद् अन्ततः परिहरन्ति पशूनां गुप्त्या असुराणाम् अनभ्यवचाराय॥जै.ब्रा १.२२७॥ तासु कौत्सम्। कुत्सश् च लुशश् चेन्द्रं व्यह्वयेताम्। स कुत्सस्य हवम् आगच्छत्। तं शतेन वार्ध्रीभिर् आण्डयोर् अबध्नात्। तं लुशो ऽभ्यवदत् स्ववृजं हि त्वाम् अहम् इन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम्। प्र मुञ्चस्व परि कुत्साद् इहागहि किम् उ त्वावान् मुष्कयोर् बद्ध आसते॥ इति तास् सर्वास् संलुप्य लुशम् अभि प्राद्रवत्। तं कुत्सः इन्द्र सुतेषु सोमेषु इत्य् अन्वाह्वयत्। तम् अभ्यावर्तत। तं लुशः इन्द्रा होयी हावे होयी इति। ताव् अन्तरातिष्ठत्। ताव् अब्रवीद् अंशम् आहरेताम् आत्मना वाम् अन्यतरस्य पास्यामि महिम्नान्यतरस्येति। तथेति। ताव् अंशम् आहरेताम् आत्मानम् अन्यतर उदजयन् महिमानम् अन्यतरः। आत्मानं कुत्स उदजयन् महिमानं लुशः। आत्मनान्यतरस्यापिबन् महिम्नान्यतरस्य। आत्मना कुत्सस्यापिबन् महिम्ना लुशस्य। उभा उ ह त्वाव तस्य ताव् आत्मानौ यद् आत्मा च महिमा च। तद् एतत् सेन्द्रं साम। सेन्द्रो हास्य सदेवो यज्ञो भवत्य् अभ्य् अस्येन्द्रो यज्ञम् आवर्तते नास्येन्द्रो यज्ञाद् अपाक्रामति य एवं वेद। यद् उ कुत्सो अपश्यत् तस्मात् कौत्सम् इत्य् आख्यायते॥ - जै.ब्रा. १.२२८

रात्रिपर्याये अच्छावाकसामविधानं -- इन्द्र सुतेषु सोमेष्विति कौत्सम्। कुत्सश्च लुशश्चेन्द्रं व्यह्वयेतां स इन्द्रः कुत्समुपावर्तत तं शतेन वार्ध्रीभिराण्डयोरबध्नात् तं लुशोऽभ्यवदत् प्रमुच्यस्व परि कुत्सादिहागहि किमु त्वावानाण्डयोर्बद्ध आसाता इति तास्संच्छिद्य प्राद्रवत् स एतत् कुत्सः सामापश्यत् तेनैनमन्ववदत् स उपावर्तत। यदेतत् साम भवति सेन्द्रत्वाय- तां.ब्रा. ९.२.२१


अतिरात्रे उत्तमे पर्याये द्वितीयं स्तोत्रम्। ताण्ड्यब्राह्मणानुसारेण (१.१०.१०) एतेषां स्तोत्राणां लक्षणाः सन्ति - निरोहोऽसि निरोहाय त्वा संरोहोऽसि संरोहाय त्वा प्ररोहोऽसि प्ररोहाय त्वानुरोहोऽस्यनुरोहाय त्वा सवितृप्रसूता बृहस्पतये स्तुत ।

प्रथमं स्तोत्रम् (घृतश्चुन्निधनम्)

द्वितीयं स्तोत्रम् (दैवातिथम्)

तृतीयं स्तोत्रम् (सौमेधम्)

चतुर्थं स्तोत्रम् (कौत्सम्)