सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/गौरीवितम्

विकिस्रोतः तः
गौरीवितम्
गौरीवितम्.

प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः ।
अप श्वानमराधसं हता मखं न भृगवः ॥ ७७४ ॥ ऋ. ९.१०१.१३


१७. गौरीवितम् ।। गौरीवितिः । अनुष्टुप् । पवमानः सोमः।

प्रसु । न्वानाऽ३ । यअन्धसाः ।। मर्तोनवष्टतद्वचाऽ२३ः । आपश्वानाऽ३१२३म् । अराऽ४धसाम् ।। हातामखाऽ३१२३म् ।। नभोवा । गाऽ५वोऽ६”हाइ ।।
दी ४. उत्. न. मा. ७. ले ।।३७।।



[सम्पाद्यताम्]

टिप्पणी

गौरीवितिर्वा एतच्छाक्त्यो ब्राह्मणोऽतिरिक्तमपश्यत् तद्गौरीवितमभवत्। अतिरिक्तं वा एतदतिरिक्तेन स्तुवन्ति यद्गौरीवितेनाहीनाञ्छवस्तनवद्भवत्यपि प्रजाया उपकॢप्तम्। वृषा वा एतद्वाजिसाम वृषभो रेतोधा अद्य स्तुवन्ति श्वः प्रजायते। अनुष्टुभि छन्दसां क्रियतेऽनुष्टुब्भि छन्दसां योनिः स्वायामेव तद्योनौ रेतो धत्ते प्रजात्यै - तांब्रा. ११.५.१४

प्र सुन्वानायान्धस इति प्रवतीर् अनुष्टुभो भवन्ति राथन्तरे ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति॥जैब्रा. 3.16॥ तासु गौरिवीतम्। यथा ह वा इदम् अवसानदर्शाववसानं विन्दत एवम् एतौ गौरिवीतस्योदासौ देवेभ्य श्वस्तनं विन्दतः। श्वस्तनं नो ऽसद् इति वै सत्रम् आसते। श्वस्तनं हैवैभ्यो भवति। एतद् ध वा अद्यश्वं देवानां यद् गौरिवीतम्। अक्षितम् अस्याद्यश्वं भवति य एवं वेद। अवसानदर्शो वा एतयोर् उदासो ऽन्यतरो ऽवसाययितान्यः। स यथा प्र स्पष्टं तृणोदकम् अन्ववस्येद् तादृक् तत्। यथा ह वा इदं सोमप्रवाकस् सोमं प्राहैवम् एतौ गौरिवीतस्योदासौ देवेभ्यस् सोमं प्राहतुः। प्रोक्तसोमो ह स तां रात्रिं वसति यस्मिन्न् अहनि गौरिवीतं भवति। अथो हैनं देवा ईक्षन्ते धावत श्वो यष्टेति। तद् यद् एकाहे गौरिवीतं न कुर्वन्ति नेद् देवान् लापयामहा इति। यथा ह वा इदं वृक्षस्याक्रमणानि कृतान्य् एवम् एतानि गौरिवीतस्याक्रमणानि कृतानि स्वर्गस्य लोकस्य समष्ट्यै। प्र स्वर्गं लोकम् आप्नोति य एवं वेद। यथा ह वा इदम् अभीयायम् उप विमोकं यायाद् एवम् एतद् यद् गौरिवीतम्। तत् तथैव गेयम्॥3.17॥ शाक्त्यास् तरसपुरोडाशास् सत्रम् आसत। स गौरिवीतिश् शाक्त्यो मृगम् अहन्। तम् तार्क्ष्यस् सुपर्ण उपरिष्टाद् अभ्यवापतत्। तस्मा उपप्रत्यधत्त। तम् अब्रवीद् - ऋषे, मा मे ऽस्थः। श्वस्तनं ते वक्ष्यामि। अद्य वाव त्वं वेत्थ न श्व इति। तस्मा एतद् गौरिवीतम् अब्रवीत्। ततो वै स श्वस्तनम् अपश्यत्। तत् प्रजा वै श्वस्तनं पशव श्वस्तनं स्वर्गो लोक श्वस्तनम्। तद् यद् गौरिवीतं भवत्य, एतस्यैव सर्वस्यावरुद्ध्या एतस्योपाप्त्यै। वाचो वै रसो ऽत्यक्षरत्। तद् गौरिवीतम् अभवत्। यद् अन्वहं गौरिवीतं भवत्य्, अन्वहम् एवैतद् वाचो रसं दधतो यन्ति। ये गौरिवीतम् अहीने ऽवसृजेयुस् तान् ब्रूयाद् - अश्वस्तना अप्रजसो भविष्यथेति। अश्वस्तना हैवाप्रजसो भवन्ति ॥जैब्रा 3.18

पृष्ठ्यषडहस्य प्रथममहः(पृ. आर्षेयकल्पः ६५), सर्वस्तोमोअतिरात्रः(आर्षेयकल्पः पृ. २९०), आङ्गिरसद्विरात्रः अहीनः(पृ. ३०७), पञ्चशारदीयः अहीनः(पृ. ३६९),

गौरी उपरि पौराणिकसंदर्भाः

गौरिवीति/गौरी उपरि टिप्पणी