सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/सोमसाम

विकिस्रोतः तः
सोमसाम
सोमसाम

सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः |
सोमा अर्षन्तु विष्णवे || ७६६ ||


१२ सोमसाम।। सोमः । गायत्री । पवमानः सोमः ।
सुताइन्द्रा ।। यवायवाइ । वारूणायाऽ३माऽ३ । रुद्भियाः ।। सोमाआर्षाऽ३४ । हाउ ।। तुवाऽ५इष्णवाइ । होऽ५इ ।। डा ।।
दी. न. उत्. न. मा. ८ . ऐ ।।३२।।

[सम्पाद्यताम्]

टिप्पणी

सोमसाम भवति यथा वा इमा अन्या ओषधयः एवं सोम आसीत् स तपोऽतप्यत स एतत् सोमसामापश्यत् तेन राज्यमाधिपत्यमगच्छद्यशोऽभवद्राज्यमाधिपत्यं गच्छति यशो भवति सोमसाम्ना तुष्टुवानः - पञ्चविंशब्रा. ११.३

ताण्ड्यब्राह्मणे ११.३ सोमसाम भवति इति उल्लेखः अस्ति। काठकसंहितायां २९.२ उल्लेखः अस्ति - सोमदेवत्यं वै साम। अरुणाशुक्लायाः शोधप्रबन्धे सोम और साम शीर्षके अस्य विवेचनमस्ति।