सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.1 प्रथमप्रपाठकः/2.1.1 प्रथमोऽर्द्धः

विकिस्रोतः तः
Jump to navigation Jump to search


उपास्मै गायता नरः पवमानायेन्दवे ।
अभि देवां इयक्षते ॥ ६५१ ॥
अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः ।
देवं देवाय देवयु ॥ ६५२ ॥
स नः पवस्व शं गवे शं जनाय शमर्वते ।
शं राजन्नोषधीभ्यः ॥ ६५३ ॥


दविद्युतत्या रुचा परिष्टोभन्त्या कृपा ।
सोमाः शुक्रा गवाशिरः ॥ ६५४ ॥ ऋ. ९.६४.२८, द्र. पंचवि.ब्रा. १२.१
हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् ।
सीदन्तो वनुषो यथा ॥ ६५५ ॥
ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे ।
पवस्व सूर्यो दृशे ॥ ६५६ ॥



पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षते ।
अर्वन्तो न श्रवस्यवः ॥ ६५७ ॥ ऋ. ९.६६.१०
अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये ।
अवावशन्त धीतयः ॥ ६५८ ॥
अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः ।
अग्मन्नृतस्य योनिमा ॥ ६५९ ॥

टिप्पणी

पवमानस्य ते कवे वाजिन् सर्गा असृक्षत इति सर्गश एवासृजत। असृग्रं वारे अव्यये इति चासृजत। तासां सृष्टानां परावापाद् अबिभेत्। स एताम् उत्तमां समुद्रवतीम् अपश्यत्। तयैनाः अच्छा समुद्रम् इन्दवः इत्य् एव समुद्रेण समन्तं परिण्यदधात्। ता अस्य न परोप्यन्त। नास्य वित्तं परोप्यते य एवं वेद। - जै.ब्रा. १.१०४

पवित्राग्निष्टोमविधानम् - - पवमानस्य ते कव इति प्राणानां कॢप्त्यै - पञ्चविं.ब्रा. १८.८.१५

पवमानस्य ते कवे इति बहिष्पवमानम् - आर्षेयकल्पः


आज्यस्तोत्रम् (प्रथम) Aajya stotram (I)


अग्न आ याहि वीतये गृणानो हव्यदातये ।
नि होता सत्सि बर्हिषि ॥ ६६० ॥
तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि ।
बृहच्छोचा यविष्ठ्य ॥ ६६१ ॥
स नः पृथु श्रवाय्यमच्छा देव विवाससि ।
बृहदग्ने सुवीर्यं ॥ ६६२ ॥

आज्यस्तोत्रम् (द्वितीयम्) Aajya stotram (II)


आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतं ।
मध्वा रजांसि सुक्रतू ॥ ६६३ ॥
उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः ।
द्राघिष्ठाभिः शुचिव्रता ॥ ६६४ ॥
गृणाना जमदग्निना योनावृतस्य सीदतं ।
पातं सोममृतावृधा ॥ ६६५ ॥

आज्यस्तोत्रम् (तृतीयम्) Aajya stotram ( III)


आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमं ।
एदं बर्हिः सदो मम ॥ ६६६ ॥
आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
उप ब्रह्माणि नः शृणु ॥ ६६७ ॥
ब्रह्माणस्त्वा युजा वयं सोमपामिन्द्र सोमिनः ।
सुतावन्तो हवामहे ॥ ६६८ ॥

आज्यस्तोत्रम् (चतुर्थम्) Aajya stotra (IV)


इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यं ।
अस्य पातं धियेषिता ॥ ६६९ ॥
इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः ।
अया पातमिमं सुतं ॥ ६७० ॥
इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे ।
ता सोमस्येह तृम्पतां ॥ ६७१ ॥



उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे ।
उग्रं शर्म महि श्रवः ॥ ६७२ ॥
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
वरिवोवित्परि स्रव ॥ ६७३ ॥
एना विश्वान्यर्य आ द्युम्नानि मानुषाणां ।
सिषासन्तो वनामहे ॥ ६७४ ॥
आमहीयवम्
ऋषभः पवमानः
आभीकम्
आजिगम्


पुनानः सोम धारयापो वसानो अर्षसि ।
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥ ६७५ ॥
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।
आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥ ६७६ ॥
रौरवम्
यौधाजयम्
त्रिणिधनमायास्यम्
समन्तम्
कण्वरथन्तरम्
गौङ्गवम्
साप्तमिकमायास्यम्
निषेधः
यज्ञायज्ञीयम्
उत्सेधः

१०
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष ।
अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥ ६७७ ॥
स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः ।
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥ ६७८ ॥
ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन ।
स चिद्विवेद निहितं यदासामपीच्या३ं गुह्यं नाम गोनां ॥ ६७९ ॥
औशनं साम

११
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥ ६८० ॥
न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥ ६८१ ॥
रथन्तरम् साम

१२
कया नश्चित्र आ भुवदूती सदावृधः सखा ।
कया शचिष्ठया वृता ॥ ६८२ ॥
कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।
दृढा चिदारुजे वसु ॥ ६८३ ॥
अभी षु णः सखीनामविता जरितॄणाम् ।
शतं भवास्यूतये ॥ ६८४ ॥
वामदेव्यं साम


१३
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥ ६८५ ॥
द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसं ।
क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥ ६८६ ॥
नौधसम् साम


१४
तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।
बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणं ॥ ६८७ ॥
न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः ।
य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यं ॥ ६८८ ॥
कालेयम्
वारवन्तीयम्


१५
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
इन्द्राय पातवे सुतः ॥ ६८९ ॥
रक्षोहा विश्वचर्षणिरभि योनिमयोहते ।
द्रोणे सधस्थमासदत् ॥६९० ॥
वरिवोधातमो भुवो मंहिष्ठो वृत्रहन्तमः ।
पर्षि राधो मघोनां ॥ ६९१ ॥
सꣳहितम् साम
शैशवम्

१६
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।
महि द्युक्षतमो मदः ॥ ६९२ ॥
यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः ।
स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥ ६९३ ॥
सफम्
शङ्कु

१७
इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।
श्रुष्टे जातास इन्दवः स्वर्विदः ॥ ६९४ ॥
अयं भराय सानसिरिन्द्राय पवते सुतः ।
सोमो जैत्रस्य चेतति यथा विदे ॥ ६९५ ॥
अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिं ।
वज्रं च वृषणं भरत्समप्सुजित् ॥६९६ ॥
सुज्ञानम्
श्रुध्यम्
रोहितकूलीयम्
विशोविशीयम्

१८
पुरोजिती वो अन्धसः सुताय मादयित्नवे ।
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं ॥ ६९७ ॥
यो धारया पावकया परिप्रस्यन्दते सुतः ।
इन्दुरश्वो न कृत्व्यः ॥ ६९८ ॥
तं दुरोषमभी नरः सोमं विश्वाच्या धिया ।
यज्ञाय सन्त्वद्रयः ॥ ६९९ ॥
श्यावाश्वम्
आन्धीगवम्
नानदम्
गौरीवितम्
विकर्णम्
कार्तयशम्


१९
अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते ।
आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥७०० ॥
ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः ।
दधाति पुत्रः पित्रोरपीच्या३ं नाम तृतीयमधि रोचनं दिवः ॥ ७०१ ॥
अव द्युतानः कलशां अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये ।
अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि ॥ ७०२ ॥
कावम् साम

२०
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।
प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषं ॥ ७०३ ॥
ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये ।
भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनां ॥ ७०४ ॥
यज्ञायज्ञीयं साम

२१
एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः ।
एभिर्वर्धास इन्दुभिः ॥ ७०५ ॥
यत्र क्व च ते मनो दक्षं दधस उत्तरं ।
तत्रा योनिं कृणवसे ॥ ७०६ ॥
न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते ।
अथा दुवो वनवसे ॥ ७०७ ॥
साकमश्वम्


२२
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
वज्रिञ्चित्रं हवामहे ॥ ७०८ ॥
उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् ।
त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिं ॥ ७०९ ॥
सौभरम्

२३
अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे ।
उदेव ग्मन्त उदभिः ॥ ७१० ॥
वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।
ववृध्वांसं चिदद्रिवो दिवेदिवे ॥ ७११ ॥
युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा ।
इन्द्रवाहा स्वर्विदा ॥ ७१२ ॥
नार्मेधम् साम