सामवेदः/कौथुमीया/संहिता/ऊहगानम्/सत्रपर्व/विंशः ४/शैशवम्

विकिस्रोतः तः
शैशवम्

स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
इन्द्राय पातवे सुतः ॥ ६८९ ॥ ऋ. ९.१.१
रक्षोहा विश्वचर्षणिरभि योनिमयोहते ।
द्रोणे सधस्थमासदत् ॥६९० ॥
वरिवोधातमो भुवो मंहिष्ठो वृत्रहन्तमः ।
पर्षि राधो मघोनां ॥ ६९१ ॥

[सम्पाद्यताम्]

टिप्पणी

शैशवम्(यत्सोम चित्र इति)

शैशवानि (असाव्यंशु) (ग्रामगेयः)