वामनपुराणम्/चत्वारिंशत्तमोऽध्यायः
ऋषय ऊचुः ।
वसिष्ठस्यापवाहोऽसौ कथं वै संबभूव ह ।
किमर्थं सा सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् १ ।
लोमहर्षण उवाच।
विश्वामित्रस्य राजर्षेर्वसिष्ठस्य महात्मनः ।
भृशं वैरं बभूवेह तपःस्पर्द्धाकृते महत् २ ।
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थे बभूव ह ।
तस्य पश्चिमदिग्भागे विश्वामित्रस्य धीमतः ३ ।
यत्रेष्ट्वा भगवान् स्थाणुः पूजयित्वा सरस्वतीम् ।
स्थापयामास देवेशो लिङ्गाकारां सरस्वतीम् ४ ।
वसिष्ठस्तत्र तपसा घोररूपेण संस्थितः ।
तस्येह तपसा हीनो विश्वामित्रो बभूव ह ५ ।
सरस्वतीं समाहूय इदं वचनमब्रवीत् ।
वसिष्ठं मुनिसार्दूलं स्वेन वेगेन आनय ६ ।
इहाहं तं द्विजश्रेष्ठं हनिष्यामि न संशयः ।
एतच्छ्रुत्वा तु वचनं व्यथिता सा महानदी ७ ।
तथा तां व्यथितां दृष्ट्वा वेपमानां महानदीम् ।
विश्वामित्रोऽब्रवीत् क्रुद्धो वसिष्ठं शीघ्रमानय ८ ।
ततो गत्वा सरिच्छ्रेष्ठा वसिष्ठं मुनिसत्तमम् ।
कथयामास रुदती विश्वामित्रस्य तद् वचः ९ ।
तपःक्रियाविशीर्णां च भृशं शोकसमन्विताम् ।
उवाच स सरिच्छ्रेष्ठां विश्वामित्राय मां वह १० ।
तस्य तद् वचनं श्रुत्वा कृपाशीलस्य सा सरित् ।
चालयामास तं स्थानात् प्रवाहेणाम्भसस्तदा ११ ।
स च कूलापहारेण मित्रावरुणयोः सुतः ।
उह्यमानश्च तुष्टाव तदा देवीं सरस्वतीम् १२ ।
पितामहस्य सरसः प्रवृत्तासि सरस्वति ।
व्याप्तं त्वया जगत् सर्वं तवैवाम्भोभिरुत्तमैः १३ ।
त्वमेवाकाशगा देवी मेघेषु सृजसे पयः ।
सर्वास्त्वापस्त्वमेवेति त्वत्तो वयमधीमहे १४ ।
पुष्टिर्धृतिस्तथा कीर्तिः सिद्धिः कान्तिः क्षमा तथा ।
स्वधा स्वाहा तथा वाणी तवायत्तमिदं जगत् १५ ।
त्वमेव सर्वभूतेषु वाणीरूपेण संस्थिता ।
एवं सरस्वती तेन स्तुता भगवती तदा १६ ।
सुखेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति ।
न्यवेदयत्तदा खिन्ना विश्वामित्राय तं मुनिम् १७ ।
तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः ।
अथान्विषत् प्रहरणं वसिष्ठान्तकरं तदा १८ ।
तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी ।
अपोवाह वसिष्ठं तं मध्ये चैवाम्भसस्तदा ।
उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम् १९ ।
ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् ।
अब्रवीत् क्रोधरक्ताक्षो विश्वामित्रो महातपाः २० ।
यस्मान्मां सरितां श्रेष्ठे वञ्चयित्वा विनिर्गता ।
शोणितं वह कल्याणि रक्षोग्रामणिसंयुता २१ ।
ततः सरस्वती शप्ता विश्वामित्रेण धीमता ।
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा २२ ।
अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तदा ।
सरस्वतीं तदा दृष्ट्वा बभूवुर्भृशदुःखिताः २३ ।
तस्मिन्तीर्थवरे पुण्ये शोणितं समुपावहत् ।
ततो भूतपिशाचाश्च राक्षसाश्च समागताः २४ ।
ततस्ते शोणितं सर्वे पिबन्तः सुखमासते ।
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः ।
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा २५ ।
कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः ।
तीर्थयात्रां समाजग्मुः सरस्वत्यां तपोधनाः २६ ।
तां दृष्ट्वा राक्षसैर्घोरैः पीयमानां महानदीम् ।
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे २७ ।
ते तु सर्वे महाभागाः समागम्य महाव्रताः ।
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् २८ ।
किं कारणं सरिच्छ्रेष्ठे शोणितेन ह्रदो ह्ययम् ।
एवमाकुलतां यातः श्रुत्वा वेत्स्यामहे वयम् २९ ।
ततः सा सर्वमाचष्ट विश्वामित्रविचेष्टितम् ।
ततस्ते मुनयः प्रीताः सरस्वत्यां समानयन् ।
अरुणां पुण्यतोयौघां सर्वदुष्कृतनाशनीम् ३० ।
दृष्ट्वा तोयं सरस्वत्या राक्षसा दुःखिता भृशम् ।
ऊचुस्तान् वै मुनीन् सर्वान् दैन्ययुक्ताः पुनः पुनः ३१ ।
वयं हि क्षुधिताः सर्वे धर्महीनाश्च शाश्वताः ।
न च नः कामकारोयं यद् वयं पापकारिणः ३२ ।
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा ।
पक्षोऽयं वर्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः ३३ ।
एवं वैश्याश्च शूद्रा श्च क्षत्रियाश्च विकर्मभिः ।
ये ब्राह्मणान् प्रद्विषन्ति ते भवन्तीह राक्षसाः ३४ ।
योषितां चैव पापानां योनिदोषेण वर्द्धते ।
इयं संततिरस्माकं गतिरेषा सनातनी ३५ ।
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे ।
तेषां ते मुनयः श्रुत्वा कृपाशीलाः पुनश्च ते ३६ ।
ऊचुः परस्परं सर्वे तप्यमानाश्च ते द्विजाः ।
क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत् ३७ ।
केशावपन्नमाधूतं मारुतश्वासदूषितम् ।
एभिः संसृष्टमन्नं च भागं वै रक्षसां भवेत् ३८ ।
तस्माज्ज्ञात्वा सदा विद्वान् अन्नान्येतानि वर्जयेत् ।
राक्षसानामसौ भुङ्क्ते यो भुङ्क्ते अन्नमीदृशम् ३९ ।
शोधयित्वा तु तत्तीर्थमृषयस्ते तपोधनाः ।
मोक्षार्थं रक्षसां तेषां संगमं तत्र कल्पयन् ४० ।
अरुणायाः सरस्वत्याः संगमे लोकविश्रुते ।
त्रिरात्रोपोषितः स्नातो मुच्यते सर्वकिल्बिषैः ४१ ।
प्राप्ते कलियुगे घोरे अधर्मे प्रत्युपस्थिते ।
अरुणासंगमे स्नात्वा मुक्तिमाप्नोति मानवः ४२ ।
ततस्ते राक्षसाः सर्वे स्नाताः पापविवर्जिताः ।
द्वियामाल्याम्बरधराः स्वर्गस्थितिसमन्विताः ४३ ।
इति श्रीवामनपुराणे सरोमाहात्म्ये चत्वारिंशत्तमोऽध्यायः।