वामनपुराणम्/षट्सप्ततितमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

पुलस्त्य उवाच।।
गते त्रैलोक्यराज्ये तु दानवेषु पुरंदरः।
जगाम ब्रह्मसदनं सह देवैः शचीपतिः।। ७६.१

तत्रापश्यत् स देवेशं ब्रह्माणं कमलोद्भवम्।
ऋषिभिः सार्धमासीनं पितरं स्वं च कश्यपम्।। ७६.२

ततो ननाम शिरसा शक्रः सुरगणैः सह।
ब्रह्माणं कश्यपं चैव तांश्च सर्वांस्तपोधनान्।। ७६.३

प्रोवाचेन्द्रः सुरैः सार्धं देवनाथं पितामहम्।
पितामह हृतं राज्यं बलिना बलिना मम।। ७६.४

ब्रह्मा प्रोवाच शक्रैतद् भुज्यते स्वकृतं फलम्।
शक्रः पप्रच्छ भो ब्रूहि किं मया दुष्कृतं कृतम्।। ७६.५

कश्यपोऽप्याह देवेशं भ्रूणहत्या कृता त्वया।
दित्युदरात् त्वया गर्भः कृत्तो वै बहुधा बलात्।। ७६.६

पितरं प्राह देवेन्द्रः स मातुर्दोषतो विभो।
कृन्तनं प्राप्तवान् गर्भो यदशौचा हि सा भवत्।। ७६.७

ततोऽब्रवीत् कश्यपस्तु मातुर्दोषः स दासताम्।
गतस्ततो विनिहतो दासोऽपि कुलिशेन भो।। ७६.८

तच्छ्रुत्वा कश्यपवचः प्राह शक्रः पितामहम्।
विनाशं पाप्मनो ब्रूहि प्रायश्चित्तं विभो मम।। ७६.९

ब्रह्मा प्रोवाच देवेशं वशिष्ठः कश्यपस्तथा।
हितं सर्वस्य जगतः शक्रस्यापि विशेषतः।। ७६.१०

शङ्खचक्रगदापाणिर्माधवः पुरुषोत्तमः।
तं प्रपद्यस्व शरणं स ते श्रेयो विधास्यति।। ७६.११

सहस्राक्षोऽपि वचनं गुरूणां स निशम्य वै।
प्रोवाच स्वल्पकालेन कस्मिन् प्राप्यो बहूदयः।

तमूचुर्देवता मर्त्ये स्वल्पकाले महोदयः।। ७६.१२
इत्येवमुक्तः सुरराड् विरिञ्चिना मरीचिपुत्रेण च कश्यपेन।

तथैव मित्रावरुणात्मजेन वेगान्महीपृष्ठमवाप्य तस्थौ।। ७६.१३
कालिञ्जरस्योत्तरतः सुपुण्यस्तथा हिमाद्रेरपि दक्षिणस्थः।

सुशस्थलात् पूर्वत एव विश्रुतो वसोः पुरात् पश्चिमतोऽवतस्थे।। ७६.१४
पूर्वं गयेन नृवरेण यत्र यष्टोऽश्वमेधः शतकृत्सदक्षिणः।

मनुष्यमेधः शतकृत्सहस्रकृन्नरेन्द्रसूयश्च सहस्रकृद् वै।। ७६.१५
तथा पुरा दुर्यजनः सुरासुरैः ख्यातो महामेध इति प्रसिद्धः।

यत्रास्य चक्रे भगवान् मुरारिः वास्तव्यमव्यक्ततनुः खमूर्तिमत्।
ख्यातिं जगामाथ गदाधरेति महाघवृक्षस्य शितः कुठारः।। ७६.१६

यस्मिन् द्विजेन्द्राः श्रुतिशास्त्रवर्जिताः समत्वमायान्ति पितामहेन।
सकृत् पितृन् यत्र च संप्रपूज्य भक्त्या त्वनन्येन हि चेतसैव।
फलं महामेधमखस्य मानवा लभन्त्यनन्त्यं भगवत्प्रसादात्।। ७६.१७

महानदी यत्र सुरर्षिकन्या जलापदेशाद्धिमशैलमेत्य।
चक्रे जगत्पापविनष्टिमग्र्यां संदर्शनप्राशनमज्जनेन।। ७६.१८

तत्र शक्रः समभ्येत्य महानद्यास्तटेऽद्भुते।
आराधनाय देवस्य कृत्वाश्रममवस्थितः।। ७६.१९

प्रातःस्नायी त्वधःशायी एकभुक्तस्त्वयार्चितः।
तपस्तेपे सहस्राक्षः स्तुवन् देवं गदाधरम्।। ७६.२०

तस्यैवं तप्यतः सम्यग्जितसर्वेन्द्रियस्य हि।
कामक्रोधविहीनस्य साग्रः संवत्सरो गतः।। ७६.२१

ततो गदाधरः प्रीतो वासवं प्राह नारद।
गच्छ प्रीतोऽस्मि भवतो मुक्तपापोऽसि साम्प्रतम्।। ७६.२२

निजं राज्यं च देवेश प्राप्स्यसे न चिरादिव।
यतिष्यामि तथा शक्र भावि श्रेयो यता तव।। ७६.२३

इत्येवमुक्तोऽथ गदाधरेण विसर्जितः स्नाप्य मनोहरायाम्।
स्नातस्य देवस्य तदैनसो नरास्तं प्रोचुरस्माननुशासयस्व।। ७६.२४

प्रोवाच तान् भीषणकर्मकारान् नाम्ना पुलिन्दान् मम पापसंभवाः।
वसध्वमेवान्तरमद्रिमुख्ययोर्हिमाद्रिकालिञ्जरयोः पुलिन्दाः।। ७६.२५

इत्येवमुक्त्वा सुरराट् पुलिन्दान् विमुक्तपापोऽमरसिद्धयक्षैः।
संपूज्यमानोऽनुजगाम चाश्रमं मातुस्तदा धर्मनिवासमीड्यम्।। ७६.२६

दृष्ट्वाऽदितिं मूर्ध्नि कृताञ्जलिस्तु विनाम्रमौलिः समुपाजगाम।
प्रणम्य पादौ कमलोदराभौ निवेदयामास तपस्तदात्मनः।। ७६.२७

पप्रच्छ सा कारणमीश्वरं तम् आघ्राय चालिङ्ग्य सहाश्रुदृष्ट्या।
स चाचचक्षे बलिना रणे जयं तदात्मनो देवगणैश्च सार्धम्।। ७६.२८

श्रुत्वैव सा शोकपरिप्लुताङ्गी ज्ञात्वा जितं दैत्यसुतैः सुतं तम्।
दुःखान्विता देवमनाद्यमीड्यं जगाम विष्णुं शरणं वरेण्यम्।। ७६.२९

नारद उवाच।।
कस्मिन् जनित्री सुरसत्तमानां स्थाने हृषीकेशमनन्तमाद्यम्।
चराचरस्य प्रभवं पुराणमाराधयामास शुभे वद त्वम्।। ७६.३०

पुलस्त्य उवाच।।
सुरारणिः शक्रमवेक्ष्य दीनं पराजितं दानवनायकेन।
सितेऽथ पक्षे मकरर्क्षगेऽर्के घृतार्चिषः स्यादथ सप्तमेऽह्नि ।। ७६.३१

दृष्ट्वैव देवं त्रिदशाधिपं तं महोदये शक्रदिशाधिरूढम्।
निराशना संयतवाक् सुचित्ता तदोपतस्थे शरणं सुरेन्द्रम्।। ७६.३२

अदितिरुवाच।।
जयस्व दिव्याम्बुजकोशचौर जयस्व संसारतरोः कुठार।
जयस्व पापेन्धनजातवेदस्तमौघसंरोध नमो नमस्ते।। ७६.३३

नमोऽसु ते भास्कर दिव्यमूर्ते त्रैलोक्यलक्ष्मीतिलकाय ते नमः।
त्वं कारणं सर्वचराचरस्य नाथोऽसि मां पालय विश्वमूर्ते।। ७६.३४

त्वया जगन्नाथ जगन्मयेन नाथेन शक्रो निजराज्यहानिम्।
अवाप्तवान् शत्रुपराभवं च ततो भवन्तं शरणं प्रपन्ना।। ७६.३५

इत्येवमुक्त्वा सुरपूजितं सा आलिख्य रक्तेन हि चन्दनेन।
संपूजयित्वा करवीरपुष्पैः संधूप्य धूपैः कणमर्कभोज्यम्।। ७६.३६

निवेद्य चैवाज्ययुतं महार्हमन्नं महेन्द्रस्य हिताय देवी।
स्तवेन पुण्येन च संस्तुवन्ती स्थिता निराहारमथोपवासम्।। ७६.३७

ततो द्वितीयेऽह्नि कृतप्रणामा स्नात्वा विधानेन च पूजयित्वा।
दत्त्वा द्विजेभ्यः कणकं तिलाज्यं ततोऽग्रतः सा प्रयता बभूव।। ७६.३८

ततः प्रीतोऽभवद् भानुर्घृतार्चिः सूर्यमण्डलात्।
विनिःसृत्याग्रतः स्थित्वा इदं वचनमब्रवीत्।। ७६.३९

व्रतेतानेन सुप्रीतस्तवाहं दक्षनन्दिनि।
प्राप्स्यसे दुर्लभं कामं मत्प्रसादान्न संशयः।। ७६.४०

राज्यं त्वत्तनयानां वै दास्ये देवि सुरारणि।
दानवान् ध्वंसयिष्यामि संभूयैवोदरे तव।। ७६.४१

तद् वाक्यं वासुदेवस्य श्रुत्वा ब्रह्मन् सुरारणिः।
प्रोवाच जगतां योनिं वेपमाना पुनः पुनः।। ७६.४२

कथं त्वामुदरेणाहं वोढुं शक्ष्यामि दुर्धरम्।
यस्योदरे जगत्सर्वं वसते स्थाणुजङ्गमम्।। ७६.४३

कस्त्वां धारयितुं नाथ शक्तस्त्रैलोक्यधार्यसि।
यस्य सप्तार्णवाः कुक्षौ निवसन्ति सहाद्रिभिः।। ७६.४४

तस्माद् यथा सुरपतिः शक्रः स्यात् सुरराडिह।
यथा च न मम क्लेशस्तथा कुरु जनार्दन।। ७६.४५

विष्णुरुवाच।।
सत्यमेतन्महाभागे दुर्धरोऽस्मि सुरासुरैः।
तथापि संभविष्यामि अहं देव्युदरे तव।। ७६.४६

आत्मानं भुवनान् शैलांस्त्वाञ्च देवि सकश्यपाम्।
धारयिष्यामि योगेन मा विषादं कृथाऽम्बिके।। ७६.४७

तवोदरेऽहं दाक्षेयि संभविष्यामि वै यदा।
तदा निस्तेजसो दैत्याः सभविष्यन्त्यसंशयम्।। ७६.४८

इत्येवमुक्त्वा भगवान् विवेश तस्याश्च भूयोऽरिगणप्रमर्दी।
स्वतेजसोंऽशेन विवेश देव्याः तदोदरे शक्रहिताय विप्र।। ७६.४९

इति श्रीवामनपुराणे पञ्चाशोऽध्यायः ।।