वामनपुराणम्/विंशतितमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

नारद उवाच
कथं कात्यायनी देवी सानुगं महिषासुरम्।
सवाहनं हतवती तथा विस्तरतो वद।। २०.१

एतच्च संशयं ब्रह्मन् हृदि मे परिवर्तते।
विद्यमानेषु शस्त्रेषु यत्पद्भ्यां तममर्दयत्।। २०.२

पुलस्त्य उवाच
श्रृणुष्वावहितो भूत्वा कथामेतां पुरातनीम्।
वृत्तां देवयुगस्यादौ पुण्यां पापभयापहाम्।। २०.३

एवं स नमरः क्रुद्धः समापतत वेगवान्।
सगजाश्वरथो ब्रह्मन् दृष्टो देव्या यथेच्छया।। २०.४

ततो बाणगणैर्दैत्यः समानम्याथ कार्मुकम्।
ववर्ष शैलं धारौघैर्द्यौरिवाम्बुदवृष्टिभिः।। २०.५

शरवर्षेण तेनाथ विलोक्याद्रिं समावृतम्।
क्रुद्धा भगवती वेगादाचकर्ष धनुर्वरम्।। २०.६

तद्धनुर्दानवे सैन्ये दुर्गया नामितं बलात्।
सुवर्णपृष्ठं विबभौ विद्युदम्बुधरेष्विव।। २०.७

बाणैः सुररिपूनन्यान् खड्गेनान्यान् शुभव्रत।
गदया मुसलेनान्यांश्चर्मणाऽन्यानपातयत्।। २०.८

एकोऽप्यसौ बहून् देव्याः केसरी कालसंनिभः।
विधुन्वन् केसरसटां निषूदयति दानवान्।। २०.९

कुलिशाभिहता दैत्याः शक्त्या निर्भिन्नवक्षसः।
लाङ्गलैर्दारितग्रीवा विनिकृत्ताः परश्वधैः।। २०.१०

दण्डनिर्भिंन्नशिरसश्चक्रविच्छिन्नबन्धनाः।
चेलुः पेतुश्च मम्लुश्च तत्यजुश्चापरे रणम्।। २०.११

ते वध्यमाना रौद्रया दुर्गया दैत्यदानवाः।
कालरात्रिं मन्यमाना दुद्रुवुर्भयपीडिताः।। २०.१२

सैन्याग्रं भग्नमालोक्य दुर्गामग्रे तथा स्थिताम्।
दृष्ट्वाजगाम नमरो मत्तकुञ्जरसंस्थितः।। २०.१३

समागम्य च वेगेन देव्याः शक्तिं मुमोच ह।
त्रिशूलमपि सिंहाय प्राहिणोद् दानवो रणे।। २०.१४

तावापतन्तौ देव्या तु हुंकारेणाथ भस्मसात्।
कृतावथ गजेन्द्रेण गृहीतो मध्यतो हरिः।। २०.१५

अथोत्पत्य च वेगेन तलेनाहत्य दानवम्।
गतासुः कुञ्जरस्कन्धात् क्षिप्य दैव्यै निवेदितः।। २०.१६

गृहीत्वा दानवं मध्ये ब्रह्मन् कात्यायनी रुषा।
सव्येन पाणिना भ्राम्य वादयत् पटहं यथा।। २०.१७

ततोऽट्टहासं मुमुचे तादृशे वाद्यतां गते।
हास्यात् समुद्भवंस्तस्या भूता नानाविधाऽद्भुताः।। २०.१८

केचिद् व्याघ्रमुखा रौद्रा वृकाकारास्तथा परे।
हयास्या महिषास्याश्च वराहवदनाः परे।। २०.१९

आखुकुक्कुटवक्त्राश्च गोऽजाविकमुखास्तथा।
नानावक्त्राक्षिचरणा नानायुधधरास्तथा।। २०.२०

गायन्त्यन्ये हसन्त्यन्ये रमन्त्यन्ये तु संघशः।
वादयन्त्यपरे तत्र स्तुवन्त्यन्ये तथाम्बिकाम्।। २०.२१

सा तैर्भूतगणैर्देवी सार्द्ध तद्दानवं बलम्।
शातयामास चाक्रम्य यथा सस्यं महाशनिः।। २०.२२

सेनाग्रे निहते तस्मिन् तथा सेनाग्रगामिनि।
चिक्षुरः सैन्यपालस्तु योधयामास देवताः।। २०.२३

कार्मुकं दृढमाकर्णमाकृष्य रथिनां वरः।
ववर्ष शरजालानि यथा मेघो वसुन्धराम्।। २०.२४

तान् दुर्गा स्वशरैश्छित्त्वा शरसंघान् सुपर्वभिः।
सौवर्णपुङ्खानपराञ्शरान् जग्राह षोडश।। २०.२५

ततश्चतुर्भिश्चतुरस्तुरङ्गानपि भामिनी।
हत्वा सारथिमेकेन ध्वजमेकेन चिच्छिदे।। २०.२६

ततस्तु सशरं चापं चिच्छेदैकेषुणाऽम्बिका।
छिन्ने धनुषु खङ्गं च चर्म चादत्तवान् बली।। २०.२७

तं खङ्गं चर्मणा सार्धं दैत्यस्याधुन्वतो बलात्।
शरैश्चतुर्भिश्चिच्छेद ततः शूलं समाददे।। २०.२८

समुद्भ्राम्य महच्छूलं संप्राद्रवदथाम्बिकाम्।
क्रोष्टुको मुदितोऽरण्ये मृगराजवधूं यथा।। २०.२९

तस्याभिपततः पादौ करौ शीर्ष च पञ्चभिः।
शरैश्चिच्छेद संक्रुद्धा न्यपतिन्निहतोऽसुरः।। २०.३०

तस्मिन् सेनापतौ क्षुण्णे तदोग्रास्यो महासुरः।
समाद्रवत वेगेन करालास्यश्च दानवः।। २०.३१

बाष्कलश्चोद्धतश्चैव उदग्राख्योग्रकार्मुकः।
दुर्द्धरो दुर्मुखश्चैव बिडालनयनोऽपरः।। २०.३२

एतेऽन्ये च महात्मानो दानवा बलिनां वराः।
कात्यायनीमाद्रवन्त नानाशस्त्रास्त्रपाणयः।। २०.३३

तान् दृष्ट्वा लीलया दुर्गा वीणां जग्राह पाणिना।
वादयामास हसती तथा डमरुकं वरम्।। २०.३४

यथा यथा वादयते देवी वाद्यानि तानि तु।
तथा तथा भूतगणा नृत्यन्ति च हसन्ति च।। २०.३५

ततोऽसुराः शस्त्रधराः समभ्येत्य सरस्वतीम्।
अभ्यघ्नंस्तांश्च जग्राह केशेषु परमेश्वरी।। २०.३६

प्रहृह्य केशेषु महासुरांस्तान् उत्पत्य सिंहात्तु नगस्य सानुम्।
ननर्त वीणां परिवादयन्ती पपौ च पानं जगतो जनित्री।। २०.३७

ततस्तु देव्या बलिनो महासुरा दोर्दण्डनिर्धूतविशीर्णदर्पाः।
विस्रस्तवस्त्रा व्यसवश्च जाताः ततस्तु तान् वीक्ष्य महासुरेन्द्रान्।। २०.३८

देव्या महौजा महिषासुरस्तु व्यद्रावयद् भूतगणान् खुराग्रैः।
तुण्डेन पुच्छेन तथोरसाऽन्यान् निःश्वासवातेन च भूतसंघान्।। २०.३९

नादेन चैवाशनिसन्निभेन विषाणकोट्या त्वपरान् प्रमथ्य।
दुद्राव सिंहं युधि हन्तुकामः ततोऽम्बिका क्रोधवशं जगाम।। २०.४०

ततः स कोपादथ तीक्ष्णश्रृङ्गः क्षिप्रं गिरीन् भूमिमशीर्णयच्च।
संक्षोभयंस्तोयनिधीन् घनांश्च विध्वंसयन् प्राद्रवताथ दुर्गाम्।। २०.४१

सा चाथ पाशेन बबन्ध दुष्टं स चाप्यभूत् क्लिन्नकटः करीन्द्रः।
करं प्रचिच्छेद च हस्तिनोऽग्रं स चापि भृयो महिषोऽभिजातः।। २०.४२

ततोऽस्य शूलं व्यसृजन्मृडानी स शीर्णमूलो न्यपतत् पृथिव्याम्।
शक्तिं प्रचिक्षेप हुताशदत्तां सा कुण्ठिताग्रा न्यपतन्महर्षे।। २०.४३

चक्रं हरेर्दानवचक्रहन्तुः क्षिप्तं त्वचक्रत्वमुपागतं हि।
गदां समाविध्य धनेश्वरस्य क्षिप्ता तु भग्ना न्यपतत् पृथिव्याम्।। २०.४४

जलेशपाशोऽपि महासुरेण विषाणतुण्डाग्रखुरप्रणुन्नः।
निरस्य तत्कोपितया च मुक्तो दण्डस्तु याम्यो बहुखण्डतां गतः।। २०.४५

वज्रं सुरेन्द्रस्य च विग्रहेऽस्य मुक्तं सुसूक्ष्मत्वमुपाजगाम।
संत्यज्य सिंहं महिषासुरस्य दुर्गाऽधिरूढा सहसैव पृष्ठम्।। २०.४६

पृष्ठस्थितायां महिषासुरोऽपि पोप्लूयते वीर्यमदान्मृडान्याम्।
सा चापि पद्भ्यां मृदुकोमलाभ्यां ममर्द तं क्लिन्नमिवाजिनं हि।। २०.४७

स मृद्यमानो धरणीधराभो देव्या बली हीनबलो बभूव।
ततोऽस्य शूलेन बिबेद कण्ठं तस्मात् पुमान् खङ्गधरो विनिर्गतः।। २०.४८

निष्क्रान्तमात्रं हृदये पदा तम् आहत्य संगृह्य कचेषु कोपात्।
शिरः प्रचिच्छेद वरासिनाऽस्य हाहा कृतं दैत्यबलं तदाऽभूत्।। २०.४९

सचण्डमुण्डाः समयाः सताराः सहासिलोम्ना भयकातराक्षाः।
संताड्यमानाः प्रमथैर्भवान्याः पातालमेवाविविशुर्भयार्ताः।। २०.५०

देव्या जयं देवगणा विलोक्य स्तुवन्ति देवीं स्तुतिभिर्महर्षे।
नारायणीं सर्वजगत्प्रतिष्ठां कात्यायनीं घोरमुखीं सुरूपाम्।। २०.५१

संस्तूयमाना सुरसिद्धसंघैर्न्निषण्णभूता हरपादमूले।
भूयो भविष्याम्यमरार्थमेवमुक्त्वा सुरांस्तान् प्रविवेश दुर्गा।। २०.५२

इति श्रीवामनपुराणे एकविंशोऽध्यायः ।। २० ।।