वामनपुराणम्/सप्तमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

पुलस्त्य उवाच
ततोऽनङ्गं विभुर्दृष्ट्वा ब्रह्मन् नारायणो मुनिः।
प्रहस्यैवं वचः प्राह कन्दर्प इह आस्यताम्।। ७.१

तदक्षुब्धत्वमीक्ष्यास्य कामो विस्मयमागतः।
वसन्तोऽपि महाचिन्तां जगामाशु महामुने।। ७.२

ततश्चाप्सरसो दृष्ट्वा स्वागतेनाभिपूज्य च।
वसन्तमाह भगवानेह्येहि स्थीयतामिति।। ७.३

ततो विहस्य भगवान् मञ्जरीं कुसुमावृताम्।
आदाय प्राक्सुवर्णाङ्गीमूर्वोर्बालां विनिर्ममे।। ७.४

ऊरूद्भवां स कन्दर्पो दृष्ट्वा सर्वाङ्गसुन्दरीम्।
अमन्यत तदाऽनङ्गः किमियं सा प्रिया रतिः।। ७.५

तदेव वदनं चारु स्वक्षिभ्रूकुटिलालकम्।
सुनासावंशाधरोष्ठमालोकनपरायणम्।। ७.६

तावेवाहार्य विरलौ पीवरौ मग्नचूचुकौ।
राजेतेऽस्यः कुचौ पीनौ सज्जनाविव संहतौ।। ७.७

तदेव तनु चार्वङ्ग्या वलित्रयविभूषितम्।
उदरं राजते श्लक्ष्णं रोमावलिविभूषितम्।। ७.८

रोमावलीच जघनाद् यान्ती स्तनतटं त्वियम्।
राजते भृङ्गमालेव पुलिनात् कमलाकरम्।। ७.९

जघनं त्वतिविस्तीर्ण भात्यस्या रशनावृतम्।
श्रीरोदमथने नद्धं भूजंगेनेव मन्दरम्।। ७.१०

कदलीस्तम्भसदृशैरूर्ध्वमूलैरथोरुभिः।
विभाति सा सुचार्वङ्गी पद्मकिञ्जल्कसन्निभा।। ७.११

जानुनी गूढगुल्फे च शुभे जङ्घे त्वरोमशे।
विभातोऽस्यास्तथा पादावलक्तकसमत्विषौ।। ७.१२

इति संचिन्तयन् कामस्तामनिन्दितलोचनाम्।
कामातुरोऽसौ संजातः किमुतान्यो जनो मुने।। ७.१३

माधवोऽप्युर्वशीं दृष्ट्वा संचिन्तयत नारद।
किंस्वित् कामनरेन्द्रस्य राजधानी स्वयं स्थिता।। ७.१४

आयाता शशिनो नूनमियं कान्तिर्निशाक्षये।
रविरश्मिप्रतापार्तिभीता शरणमागता।। ७.१५

इत्थं संचितयन्नेव अवष्टभ्याप्सरोगणम्।
तस्थौ मुनिरिव ध्यानमास्थितः स तु माधवः।। ७.१६

ततः स विस्मितान् सर्वान् कन्दर्पादीन् महामुने।
दृष्ट्वा प्रोवाच वचनं स्मितं कृत्वा शुभव्रतः।। ७.१७

इयं ममोरुसंभृता कामाप्सरस माधव।
नीयतां सुरलोकाय दीयतां वासवाय च।। ७.१८

इत्युक्ताः कम्पमानास्ते जग्मुर्गृह्योर्वशीं दिवम्।
सहस्राक्षाय तां प्रादाद् रूपयौवनशालिनीम्।। ७.१९

आचक्षुश्चरितं ताभ्यां धर्मजाभ्यां महामुने।
देवराजाय कामाद्यास्ततोऽभूद् विस्मयः परः।। ७.२०

एतादृशं हि चरितं ख्यातिमग्र्यां जगाम ह।
पातालेषु तथा मर्त्ये दिक्ष्वष्टासु जगाम च।। ७.२१

एकदा निहते रौद्रो हिरण्यकशिपौ मुने।
अभिषिक्तस्तदा राज्ये प्रह्लादे नाम दानवः।। ७.२२

तस्मिञ्शासति दैत्येन्द्रे देवब्राह्मणपूजके।
मखानि भुवि राजानो यजन्ते विधिवत्तदा।। ७.२३

ब्राह्मणाश्च तपो धर्मं तीर्थयात्राश्च कुर्वते।
वैश्याश्च पशुवृत्तिस्थाः शूद्राः शुश्रूषणे रताः।। ७.२४

चातुर्वर्ण्यं ततः स्वे स्वे आश्रमे धर्मकर्मणि।
आवर्त्तत ततो देवा वृत्त्या युक्ताभवन् मुने।। ७.२५

ततस्तु च्यवनो नाम भार्गवेन्द्रो महातपाः।
जगाम नर्मदां स्नातुं तीर्थं चैवाकुलीश्वरम्।। ७.२६

तत्र दृष्ट्वा महादेवं नदीं स्नातुमवातरत्।
अवतीर्णं प्रजग्राह नागः केकरलोहितः।। ७.२७

गृहीतस्तेन नागेन सस्मार मनसा हरिम्।
संस्मृते पुण्डरीकाक्षे निर्विषोऽभून्महोरगः।। ७.२८

नीतस्तेनातिरौद्रेण पन्नगेन रसातलम्।
निर्विषश्चापि तत्याज च्यवनं भुजगोत्तमः।। ७.२९

संत्यक्तमात्रो नागेन च्यवनो भार्गवोत्तमः।
चचार नागकन्याभिः पूज्यमानः समन्ततः।। ७.३०

विचरन् प्रविवेशाथ दानवानां महत् पुरम्।
संपूज्यमानो दैत्येन्द्रः प्रह्लादोऽथ ददर्श तम्।। ७.३१

भृगुपुत्रे महातेजाः पूजां चक्रे यथार्हतः।
संपूजितोपविष्टश्च पृष्टश्चागमनं प्रति।। ७.३२

स चोवाच महाराज महातीर्थं महाफलम्।
स्नातुमेवागतोऽस्म्यद्य द्रष्टुञ्चैवाकुलीश्वरम्।। ७.३३

नद्यामेवावतीर्णोऽस्मि गृहीतश्चाहिना बलान्।
समानीतोऽस्मि पाताले दृष्टश्चात्र भवानपि।। ७.३४

एतच्छ्रुत्वा तु वचनं च्यवनस्य दितीश्वरः।
प्रोवाच धर्मसंयुक्तं स वाक्यं वाक्यकोविदः।। ७.३५

प्रह्लाद उवाच
भगवन् कानि तीर्थानि पृथिव्यां कानि चाम्बरे।
रसातले च कानि स्युरेतद् वक्तुं ममार्हसि।। ७.३६

च्यवन उवाच
पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम्।
चक्रतीर्थं महाबाहो रसातलतले विदुः।। ७.३७

पुलस्त्य उवाच
श्रुत्वा तद्भार्गववचो दैत्यराजो महामुने।
नेमिषै गन्तुकामस्तु दानवानिदमब्रवीत्।। ७.३८

प्रह्लाद उवाच
उत्तिष्ठध्वं गमिष्यामः स्नातुं तीर्थं हि नैमिषम्।
द्रक्ष्यामः पुण्डरीकाक्षं पीतवाससमच्युतम्।। ७.३९

पुलस्त्य उवाच
इत्युक्ता दानवेन्द्रेण सर्वे ते दैत्यदानवाः।
चक्रुरुद्योगमतुलं निर्जग्मुश्च रसातलात्।। ७.४०

ते समभ्येत्य दैतेया दानवाश्च महाबलाः।
नेमिषारण्यमागत्य स्नानं चक्रुर्मुदान्विताः।। ७.४१

ततो दितीश्वरः श्रीमान् मृगव्यां स चचार ह।
चरन् सरस्वतीं पुण्यां ददर्श विमलोदकाम्।। ७.४२

तस्यादूरे महाशाखं शालवृक्षं शरैश्चितम्।
ददर्श बाणानपरान् मुखे लग्नान् परस्परम्।। ७.४३

ततस्तानद्भुताकारान् बाणान् नागोपवीतकान्।
दृष्ट्वाऽतुलं तदा चक्रे क्रोधं दैत्येश्वरः किल।। ७.४४

स ददर्श ततोऽदूरात्कृष्णाजिनधरौ मुनी।
समुन्नतजटाभारौ तपस्यासक्तमानसौ।। ७.४५

तयोश्च पार्श्वयोर्दिव्ये धनुषी लक्षणान्विते।
शार्ङ्गमाजगवं चैव अक्षय्यौ च महेषुधी।। ७.४६

तौ दृष्ट्वाऽमन्यत तदा दाम्बिकाविति दानवः।
ततः प्रोवाच वचनं तावुभौ पुरुषोत्तमौ।। ७.४७

किं भवद्भ्यां समारब्धं दम्भं धर्मविनाशनम्।
क्व तपः क्व जटाभारः क्व चेमौ प्रवरायुधौ।। ७.४८

अथोवाच नरो दैत्यं का ते चिन्ता दितीश्वर।
सामर्थ्ये सति यः कुर्यात् तत्संपद्येत तस्य हि।। ७.४९

अथोवाच दितीशस्तौ का शक्तिर्युवयोरिह।
मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके।। ७.५०

नरस्तं प्रत्युवाचाथ आवाभ्यां शक्तिरूर्जिता।
न कश्चिच्छक्नुयाद् योद्‌धुं नरनारायणौ युधि।। ७.५१

दैत्येश्वरस्ततः क्रुद्धः प्रतिज्ञामारुरोह च।
यथा कथंचिज्जेष्यामि नरनारायणौ रणे।। ७.५२

इत्येवमुक्त्वा वचनं महात्मा दितीश्वरः स्थाप्य बलं वनान्ते।
वितत्य चापं गुणमाविकृष्य तलध्वनिं घोरतरं चकार।। ७.५३

ततो नरस्त्वाजगवं हि चापमानम्य बाणान् सुबहूञ्शिताग्रान्।
मुमोच तानप्रतिमैः पृषत्कैश्चिच्छेद दैत्यस्तपनीयपुङ्खैः।। ७.५४

छिन्नान् समीक्ष्याथ नरः पृषत्कान् दैत्येश्वरेणाप्रतिमेव संख्ये।
क्रुद्धः समानम्य महाधनुस्ततो मुमोच चान्यान् विविधान् पृषत्कान्।। ७.५५

एकं नरो द्वौ दितिजेश्वरश्च त्रीन् धर्मसूनुश्चतुरो दितीशः।
नरस्तु बाणान् प्रमुमोच पञ्च षड् दैत्यनाथो निशितान् पृषत्कान्।। ७.५६

सप्तर्षिमुख्यो द्विचतुश्च दैत्यो नरस्तु षट् त्रीणि च दैत्यमुख्ये।
षट्त्रीणि चैकं च दितीश्वरेण मुक्तानि बाणानि नराय विप्र।। ७.५७

एकं च षट् पञ्च नरेण मुक्तास्त्वष्टौ शराः सप्त च दानवेन।
षट् सप्त चाष्टौ नव षण्नरेण द्विसप्ततिं दैत्यपतिः ससर्ज्ज।। ७.५८

शतं नरस्त्रीणि शतानि दैत्यः षड् धर्मपुत्रो दश दैत्यराजः।
ततोऽप्यसंख्येयतरान् हि बाणान् मुमोचतुस्तौ सुभृशं हि कोपात्।। ७.५९

ततो नरो बाणगणैरसख्यैरवास्तरद्भूमिमथो दिशः खम्।
स चापि दैत्यप्रवरः पृषत्कैश्चिच्छेद वेगात् तपनीयपुङ्खैः।। ७.६०

ततः पतत्त्रिभिर्वीरौ सुभृशं नरदानवौ।
युद्धे वरास्त्रैर्युध्येतां घोररूपैः परस्परम्।। ७.६१

ततस्तु दैत्येन वरास्त्रपाणिना चापे नियुक्तं तु पितामहास्त्रम्।
महेश्वरास्त्रं पुरुषोत्तमेव समं समाहत्य निपेततुस्तौ।। ७.६२

ब्रह्मास्त्रे तु प्रशमिते प्रह्लादः क्रोधमूर्छितः।
गदां प्रगृह्य तरसा प्रचस्कन्द रथोत्तमात्।। ७.६३

गदापाणिं समायान्तं दैत्यं नारायणस्तदा।
दृष्ट्वाऽथ पृष्ठतश्चक्रे नरं योद्धुमनाः स्वयम्।। ७.६४

ततो दितीशः सगदः समाद्रवत् सशार्ङ्गपाणिं तपसां निधानम्।
ख्यातं पुराणर्षिमुदारविक्रमं नारायणं नारद लोकपालम्।। ७.६५

इति श्रीवामनपुराणे सप्तमोऽध्यायः ।। ७ ।।