वामनपुराणम्/द्व्यशीतितमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

नारद उवाच।।
भगवँल्लोकनाथाय विष्णवे विषमेक्षणः।
किमर्थमायुधं चक्रं दत्तवाँल्लोकपूजितम्।। ८२.१

पुलस्त्य उवाच।।
श्रृणुष्वावहितो भूत्वा कथामेतां पुरातनीम्।
चक्रप्रदानसंबद्धां शिवमाहात्म्यवर्धिनीम्।। ८२.२

आसीद् द्विजातिप्रवरो वेदवेदांङ्गपारगः।
गृहाश्रमी महाभागा वीतमन्युरिति स्मृतः।। ८२.३

तस्यात्रेयी महाभागो भार्यासीच्छीलसंमता।
पतिव्रता पतिप्राणा धर्मशीलेति विश्रुता।। ८२.४

तस्यामस्य महर्षेस्तु ऋतुकालाभिगामिनः।
संबभूव सुतः श्रीमान् उपमन्युरिति स्मृतः।। ८२.५

तं माता मुनिशार्दूल शालिपिष्टरसेन वै।
पोषयामास वदती क्षीरमेतत् सुदुर्गता।। ८२.६

सोऽजानानोऽथ क्षीरस्य स्वादुतां पय इत्यथ।
संभावनामप्यकरोच्छालिपिष्टरसेऽपि हि।। ८२.७

स त्वेकदा समं पित्रा कुत्रचिद् द्विजमेश्मनि।
क्षीरौदनं च बुभुजे सुस्वादु प्राणपुष्टिदम्।। ८२.८

स लब्ध्वानुपमं स्वादं क्षीरस्य ऋषिदारकः।
मात्रा दत्तं द्वितीयेऽह्नि नादत्ते पिष्टवारि तत्।। ८२.९

रुरोदाथ ततो बाल्यात् पयोऽर्थी चातको यथा।
तं माता रुदती प्राह बाष्पगद्गदया गिरा।। ८२.१0

उमापतौ पशुपतौ शूलधारिणि संकरे।
अप्रसन्ने विरूपाक्षे कुतः क्षीरेण भोजनम्।। ८२.११

यदीच्छसि पयो भोक्तुं सद्यः पुष्टिकरं सुत।
तदाराधय देवेशं विरूपाक्षं त्रिशूलिनम्।। ८२.१२

तस्मिंस्तुष्टे जगद्धाम्नि सर्वकल्याणदायिनि।
प्राप्यतेऽमृतपायित्वं किं पुनः क्षीरभोजनम्।। ८२.१३

तन्मातुर्वचनं श्रुत्वा वीतमन्युसुतोऽब्रवीत्।
कोऽयं विरुपाक्ष इति त्वयाराध्यस्तु कीर्तितः।। ८२.१४

ततः सुतं धर्मशीला धर्माढ्यं वाक्यमब्रवीत्।
योऽयं विरुपाक्ष इति श्रूयतां कथयामि ते।। ८२.१५

आसीन्महासुरपतिः श्रीदाम इति विश्रुतः।
तेनाक्रम्य जगत्सर्वं श्रीर्नीता स्ववशं पुरा।। ८२.१६

निःश्रीकास्तु त्रयो लोकाः कृतास्तेन दुरात्माना।
श्रीवत्सं वासुदेवस्य हर्तुमैच्छन्महाबलः।। ८२.१७

तमस्य दुष्टं भगवानभिप्रायं जनार्दनः।
ज्ञात्वा तस्य वधाकाङ्क्षी महेश्वरमुपागमत्।। ८२.१८

एतस्मिन्नन्तरे शंभुर्योगमूर्तिधरोऽव्ययः।
तस्थौ हिमाचलप्रस्थमाश्रित्य श्लक्ष्णभूतलम्।। ८२.१९

अथाभ्येत्य जगन्नाथं सहस्रशिरसं विभुम्।
आराधयामास हरिः स्वयमात्मानमात्मना।। ८२.२0

साग्रं वर्षसहस्रं तु पादाङ्गुष्ठेन तस्तिवान्।
गृणंस्तत्परमं ब्रह्म योगिज्ञेयमलक्षणम्।। ८२.२१

ततः प्रीतः प्रभुः प्रादाद् विष्णवे परमं वरम्।
प्रत्यक्षं तैजसं श्रीमान् दिव्यं चक्रं सुदर्शनम्।। ८२.२२

तद् दत्त्वा देवदेवाय सर्वभूतभयप्रदम्।
कालचक्रनिभं चक्रं शंकरो विष्णुमब्रवीत्।। ८२.२३

वरायुधोऽयं देवेश सर्वायुधनिबर्हणः।
सुदर्शनो द्वादशारः षण्णाभिर्द्वियुगो जवी।। ८२.२४

आरासंस्थास्त्वमी चास्य देवा मासाश्च राशयः।
शिष्टानां रक्षणार्थाय संस्थिता ऋतवश्च षट्।। ८२.२५

अग्निः सोमस्तथा मित्रो वरुणोऽथ शचीपतिः।
इन्द्राग्नी चाप्यथो विश्वे प्रजापतय एव च।। ८२.२६

हनूमांश्चाथ बलवान् देवो धन्वन्तरिस्तथा।
तपश्चैव तपस्यश्च द्वादशैते प्रतिष्ठिताः।।

चैत्राद्याः फाल्गुनान्ताश्च मासास्तत्र प्रतिष्ठताः।। ८२.२७
त्वमेवमाधाय विभो वरायुधं शत्रुं सुराणां जहि मा विशङ्किथाः।

अमोघ एषोऽमरराजपूजितो धृतो मया नेत्रगतस्तपोबलात्।। ८२.२८
इत्युक्तः शंभुना विष्णुः भवं वचनमब्रवीत्।

कथं शंभो विजानीयाममोघो मोघ एव वा।। ८२.२९
यद्यमोघो विभो चक्रः सर्वत्राप्रतिघस्तव।

जिज्ञासार्थं तवैवेह प्रक्षेप्स्यामि प्रतीच्छ भोः।। ८२.३0
तद्वाक्यं वासुदेवस्य निशम्याह पिनाकधृक्।

यद्येवं प्रक्षिपस्वेति निर्विशङ्केन चेतसा।। ८२.३१
तन्महेशानवचनं श्रुत्वा विष्णुः सुदर्शनम्।

मुमोच तेजो जिज्ञासुः शंकरं प्रति वेगवान्।। ८२.३२
मुरारिकरविभ्रष्टं चक्रमभ्येत्य शूलिनम्।

त्रिधा चकार विश्वेशं यज्ञेशं यज्ञयाजकम्।। ८२.३३
हरं हरिस्त्रिधाभूतं दृष्ट्वा कृत्तं महाभुजः।

व्रीडोपप्लुतदेहस्तु प्रणिपातपरोऽभवत्।। ८२.३४
पादप्रणामावनतं वीक्ष्य दामोदरं भवः।

प्राह प्रीतिपरः श्रीमानुत्तिष्ठति पुनः पुनः ।। ८२.३५
प्राकृतोऽयं महाबाहो विकारश्चक्रनेमिना।

निकृत्तो न स्वरभावो मे सोऽच्छेद्योऽदाह्य एव च।। ८२.३६
तद्यदेतानि चक्रेण त्रीणि भागानि केशव।

कृतानि तानि पुण्यनि भविष्यन्ति न संशयः।। ८२.३७
हिरण्याक्षः स्मृतो ह्येकः सुवर्णाक्षस्तथा परः।

तृतीयश्च विरूपाक्षस्त्रयोऽमी पुण्यदा नृणाम्।। ८२.३८
उत्तिष्ठ गच्छस्व विभो निहन्तुममरार्दनम्।

श्रीदाम्नि निहते विष्णो नन्दयिष्यन्ति देवताः।। ८२.३९
इत्येवमुक्तो भगवान् हरेण गरुडध्वजः।

गत्वा सुरगिरिप्रस्थं श्रीदामानं ददर्श ह।। ८२.४0
तं दृष्ट्वा देवदर्पघ्नं दैत्यं देववरो हरिः।

मुमोच चक्रं वेगाढ्यं हतोऽसीति ब्रुवन्मुहुः।। ८२.४१
ततस्तु तेनाप्रतिपौरुषेण चक्रेण दैत्यस्य शिरो निकृत्तम्।

संछिन्नसीर्षो निपपात शैलाद् वज्राहतं शैलशिरो यथैव।। ८२.४२
तस्मिन् हते देवरिपौ मुरारिरीशं समाराध्य विरूपनेत्रम्।

लब्ध्वा च चक्रं प्रवरं महायुधं जगाम देवो निलयं पयोनिधिम्।। ८२.४३
सोऽयं पुत्र विरूपाक्षो देवदेवो महेश्वरः।

तमाराधय चेत् साधो क्षीरेणेच्छसि भोजनम्।। ८२.४४
तन्मातुर्वचनं श्रुत्वा वीतमन्युसुतो बली।

तमाराध्य विरूपाक्षं प्राप्तः क्षीरेण भोजनम्।। ८२.४५
एवं तवोक्तं परमं पवित्रं संछेदनं शर्वतनोः पुरा वै।।

तत्तीर्थवर्यं स महासुरो वै समाससादाथ सुपुण्यहेतोः।। ८२.४६
इति श्रीवामनपुराणो षट्पञ्चाशोऽध्यायः ।। ८२ ।।