वामनपुराणम्/एकत्रिंशत्तमोऽध्यायः

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

लोमहर्षण उवाच
सपर्वतवनामुर्वीं दृष्ट्वा संक्षुभितां बलिः
पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः १
आचार्य क्षोभमायाति साब्धिभूमिधरा मही
कस्माच्च नासुरान् भागान् प्रतिगृह्णन्ति वह्नयः २
इति पृष्टोऽथ बलिना काव्यो वेदविदां वरः
उवाच दैत्याधिपतिं चिरं ध्यात्वा महामतिः ३
अवतीर्णो जगद्योनिः कश्यपस्य गृहे हरिः
वामनेनेह रूपेण परमात्मा सनातनः ४
स नूनं यज्ञमायाति तव दानवपुङ्गव
तत्पादन्यासविक्षोभादियं प्रचलिता मही ५
कम्पन्ते गिरयश्चेमे क्षुभिता मकरालयाः
नेयं भूतपतिं भूमिः समर्था वोढुमीश्वरम् ६
सदेवासुरगन्धर्वा यक्षराक्षसपन्नगा
अनेनैव धृता भूमिरापोऽग्निः पवनो नभः
धारयत्यखिलान् देवान् मनुष्यांश्च महासुरान् ७
इयमस्य जगद्धातुर्माया कृष्णस्य गह्वरी
धार्यधारकभावेन यया संपीडितं जगत् ८
तत्सन्निधानादसुरा न भागार्हाः सुरद्विषः
भुञ्जते नासुरान् भागानपि तेन त्रयोऽग्नयः ९
शुक्रस्य वचनं श्रुत्वा हृष्टरोमाब्रवीद् बलिः
धन्योऽहं कृतपुण्यश्च यन्मे यज्ञपतिः स्वयम्
यज्ञमभ्यागतो ब्रह्मन् मत्तः कोऽन्योऽधिकः पुमान् १०
यं योगिनः सदोद्युक्ताः परमात्मानमव्ययम्
द्र ष्टुमिच्छन्ति देवोऽसौ ममाध्वरमुपेष्यति
यन्मयाचार्य कर्तव्यं तन्ममादेष्टुमर्हसि ११
शुक्र उवाच
यज्ञभागभुजो देवा वेदप्रामाण्यतोऽसुर
त्वया तु दानवा दैत्य यज्ञभागभुजः कृताः १२
अयं च देवः सत्त्वस्थः करोति स्थितिपालनम्
विसृष्टं च तथायं च स्वयमत्ति प्रजाः प्रभुः १३
भवांस्तु वन्दी भविता नूनं विष्णुः स्थितौ स्थितः
विदित्वैवं महाभाग कुरु यत् ते मनोगतम् १४
त्वयास्य दैत्याधिपते क्वल्पकेऽपि हि वस्तुनि
प्रतिज्ञा नैव वोढव्या वाच्यं साम तथाफलम् १५
कृतकृत्यस्य देवस्य देवार्थं चैव कुर्वतः
अलं दद्यां धनं देवे त्वेतद्वाच्यं तु याचतः
कृष्णस्य देवभूत्यर्थं प्रवृत्तस्य महासुर १६
बलिरुवाच
ब्रह्मन् कथमहं ब्रूयामन्येनापि हि याचितः
नास्तीति किमु देवस्य संसारस्याघहारिणः १७
व्रतोपवासैर्विविधैर्यः प्रभुर्गृह्यते हरिः
स मे वक्ष्यति देहीति गोविन्दःकिमतोऽधिकम् १८
यदर्थं सुमहारम्भा दमशौचगुणान्वितैः
यज्ञाः क्रियन्ते यज्ञेशः स मे देहीति वक्ष्यति १९
तत्साधु सुकृतं कर्म तपः सुचरितं च नः
यन्मां देहीति विश्वेशः स्वयमेव वदिष्यति २०
नास्तीत्यहं गुरो वक्ष्ये तमभ्यागतमीश्वरम्
प्राणत्यागं करिष्येऽहं न तु नास्ति जने क्वचित् २१
नास्तीति यन्मया नोक्तमन्येषामपि याचताम्
वक्ष्यामि कथमायाते तदद्य चामरेऽच्युते २२
श्लाघ्य एव हि वीराणां दानाच्चापत्समागमः
न बाधाकारि यद्दानं तदङ्ग बलवत् स्मृतम् २३
मद्रा ज्ये नासुखी कश्चिन्न दरिद्रो न चातुरः
न दुःखितो न चोद्विग्नो न शमादिविवर्जितः २४
हृष्टस्तुष्टः सुगन्धी च तृप्तः सर्वसुखान्वितः
जनः सर्वो महाभाग किमुताहं सदा सुखी २५
एतद्विशिष्टमत्राहं दानबीजफलं लभे
विदितं मुनिशार्दूल मयैतत् त्वन्मुखाच्छ्रुतम् २६
मत्प्रसादपरो नूनं यज्ञेनाराधितो हिरः
मम दानमवाप्यासौ पुष्णाति यदि देवताः २७
एतद्बीजवरे दानबीजं पतति चेद् गुरौ
जनार्दने महापात्रे किं न प्राप्तं ततो मया २८
विशिष्टं मम तद्दानं परितुष्टाश्च देवताः
उपभोगाच्छतगुणं दानं सुखकरं स्मृतम् २९
मत्प्रसादपरो नूनं यज्ञेनाराधितो हरिः
तेनाभ्येति न संदेहो दर्शनादुपकारकृत् ३०
अथ कोपेन चाभ्येति देवभागोपरोधतः
मां निहन्तुं ततो हि स्याद् वधः श्लाघ्यतरोऽच्युतात् ३१
एतज्ज्ञात्वा मुनिश्रेष्ठ दानविघ्नकरेण मे
नैव भाव्यं जगन्नाथे गोविन्दे समुपस्थिते ३२
लोमहर्षण उवाच
इत्येवं वदतस्तस्य प्राप्तस्तत्र जनार्दनः
सर्वदेवमयोऽचिन्त्यो मायावामनरूपधृक् ३३
तं दृष्ट्वा यज्ञवाटं तु प्रविष्टमसुराः प्रभुम्
जग्मुः प्रभावतः क्षोभं तेजसा तस्य निष्प्रभाः ३४
जेषुश्च मुनयस्तत्र ये समेता महाध्वरे
वसिष्ठो गाधिजो गर्गो अन्ये च मुनिसत्तमाः ३५
बलिश्चैवाखिलं जन्म मेने सफलमात्मनः
ततः संक्षोभमापन्नो न कश्चित् किञ्चिदुक्तवान् ३६
प्रत्येकं देवदेवेशं पूजयामास तेजसा
अथासुरपतिं प्रह्वं दृष्ट्वा मुनिवरांश्च तान् ३७
देवदेवपतिः साक्षाद् विष्णुर्वामनरूपधृक्
तुष्टाव यज्ञं वह्निं च यजमानमथार्चितः
यज्ञकर्माधिकारस्थान् सदस्यान् द्र व्यसंपदम् ३८
सदस्याः पात्रमखिलं वामनं प्रति तत्क्षणात्
यज्ञवाटस्थितं विप्राः साधु साध्वित्युदीरयन् ३९
स चार्घमादाय बलिः प्रोद्भूतपुलकस्तदा
पूजयामास गोविन्दं प्राह चेदं महासुरः ४०
बलिरुवाच
सुवर्णरत्नसंघातो गजाश्वसमितिस्तथा
स्त्रियो वस्त्राण्यलङ्कारान् गावो ग्रामाश्च पुष्कलाः ४१
सर्वे च सकला पृथ्वी भवतो वा यदीप्सितम्
तद् ददामि वृणुष्वेष्टं ममार्थाः सन्ति ते प्रियाः ४२
इत्युक्तो दैत्यपतिना प्रीतिगर्भान्वितं वचः
प्राह सस्मितगम्भीरं भगवान् वामनाकृतिः ४३
ममाग्निशरणार्थाय देहि राजन् पदत्रयम्
सुवर्णग्रामरत्नादि तदर्थिभ्यः प्रदीयताम् ४४
बलिरुवाच
त्रिभिः प्रयोजनं किं ते पदैः पदवतां वर
शतं शतसहस्रं वा पदानां मार्गतां भवान् ४५
श्रीवामन उवाच
एतावता दैत्यपते कृतकृत्योऽस्मि मार्गणे
अन्येषामर्थिनां वित्तमिच्छया दास्यते भवान् ४६
एतच्छ्रुत्वा तु गदितं वामनस्य महात्मनः
वाचयामास वै तस्मै वामनाय महात्मने ४७
पाणौ तु पतिते तोये वामनोऽभूदवामनः
सर्वदेवमयं रूपं दर्शयामास तत्क्षणात् ४८
चन्द्र सूर्यौ तु नयने द्यौः शिरश्चरणौ क्षितिः
पादाङ्गुल्यः पिशाचास्तु हस्ताङ्गुल्यश्च गुह्यकाः ४९
विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः
यक्षा नखेषु संभूता रेखास्वप्सरसस्तथा ५०
दृष्टिरृक्षाण्यशेषाणि केशाः सूर्यांशवः प्रभोः
तारका रोमकूपाणि रोमेषु च महर्षयः ५१
बाहवो विदिशस्तस्य दिशः श्रोत्रे महात्मनः
अश्विनौ श्रवणे तस्य नासा वायुर्महात्मनः ५२
प्रसादे चन्द्र मा देवो मनो धर्मः समाश्रितः
सत्यमस्याभवद् वाणी जिह्वा देवी सरस्वती ५३
ग्रीवादितिर्देवमाता विद्यास्तद्वलयस्तथा
स्वर्गद्वारमभून्मैत्रं त्वष्टा पूषा च वै भ्रुवौ ५४
मुखे वैश्वानरश्चास्य वृषणौ तु प्रजापतिः
हृदयं च परं ब्रह्म पुंस्त्वं वै कश्यपो मुनिः ५५
पृष्ठेऽस्य वसवो देवा मरुतः सर्वसंधिषु
वक्षस्थले तथा रुद्रो धैर्ये चास्य महार्णवः ५६
उदरे चास्य गन्धर्वा मरुतश्च महाबलाः
लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्याश्च वै कटिः ५७
सर्वज्योतींषि यानीह तपश्च परमं महत्
तस्य देवाधिदेवस्य तेजः प्रोद्भूतमुत्तमम् ५८
तनौ कुक्षिषु वेदाश्च जानुनी च महामखाः
इष्टयः पशवश्चास्य द्विजानां चेष्टितानि च ५९
तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महात्मनः
उपसर्पन्ति ते दैत्याः पतङ्गा इव पावकम् ६०
चिक्षुरस्तु महादैत्यः पादाङ्गुष्ठं गृहीतवान्
दन्ताभ्यां तस्य वै ग्रीवामङ्गुष्ठेनाहनद्धरिः ६१
प्रमथ्य सर्वानसुरान् पादहस्ततलैर्विभुः
कृत्वा रूपं महाकायं संजहाराशु मेदिनीम् ६२
तस्य विक्रमतो भूमिं चन्द्रा दित्यौ स्तनान्तरे
नभो विक्रममाणस्य सक्थिदेशे स्थितावुभौ ६३
परं विक्रममाणस्य जानुमूले प्रभाकरौ
विष्णोरास्तां स्थितस्यैतौ देवपालनकर्मणि ६४
जित्वा लोकत्रयं तांश्च हत्वा चासुरपुङ्गवान्
पुरन्दराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ६५
सुतलं नाम पातालमधस्ताद्वसुधातलात्
बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना ६६
अथ दैत्येश्वरं प्राह विष्णुः सर्वेश्वरेश्वरः
यत् त्वया सलिलं दत्तं गृहीतं पाणिना मया ६७
कल्पप्रमाणं तस्मात् ते भविष्यत्यायुरुत्तमम्
वैवस्वते तथातीते काले मन्वन्तरे तथा ६८
सावर्णिके तु संप्राप्ते भवानिन्द्रो भविष्यति
इदानीं भुवनं सर्वं दत्तं शक्राय वै पुरा ६९
चतुर्युगव्यवस्था च साधिका ह्येकसप्ततिः
नियन्तव्या मया सर्वे ये तस्य परिपन्थिनः ७०
तेनाहं परया भक्त्या पूर्वमाराधितो बले
सुतलं नाम पातालं समासाद्य वचो मम ७१
वसासुर ममादेशं यथावत्परिपालयन्
तत्र देवसुखोपेते प्रासादशतसंकुले ७२
प्रोत्फुल्लपद्मसरसि ह्नदशुद्धसरिद्वरे
सुगन्धी रूपसंपन्नो वराभरणभूषितः ७३
स्रक्चन्दनादिदिग्धाङ्गो नृत्यगीतमनोहरान्
उपभुञ्जन् महाभोगान् विविधान् दानवेश्वर ७४
ममाज्ञया कालमिमं तिष्ठ स्त्रीशतसंवृतः
यावत्सुरैश्च विप्रैश्च न विरोधं गमिष्यसि ७५
तावत् त्वं भुङ्क्ष्व संभोगान् सर्वकामसमन्वितान्
यदा सुरैश्च विप्रैश्च विरोधं त्वं करिष्यसि
बन्धिष्यन्ति तदा पाशा वारुणा घोरदर्शनाः ७६
बलिरुवाच
तत्रासतो मे पाताले भगवन् भवदाज्ञया
किं भविष्यत्युपादानमुपभोगोपपादकम्
आप्यायितो येन देव स्मरेयं त्वामहं सदा ७७
श्रीभगवानुवाच
दानान्यविधिदत्तानि श्राद्धान्यश्रोत्रियाणि च
हुतान्यश्रद्धया यानि तानि दास्यन्ति ते फलम् ७८
अदक्षिणास्तथा यज्ञाः क्रियाश्चाविधिना कृताः
फलानि तव दास्यन्ति अधीतान्यव्रतानि च ७९
उदकेन विना पूजा विना दर्भेण या क्रिया
आज्येन च विना होमं फलं दास्यन्ति ते बले ८०
यश्चेदं स्थानमाश्रित्य क्रियाः काश्चित्करिष्यति
न तत्र चासुरो भागो भविष्यति कदाचन ८१
ज्येष्ठाश्रमे महापुण्ये तथा विष्णुपदे ह्रदे
ये च श्राद्धानि दास्यन्ति व्रतं नियममेव च ८२
क्रिया कृता च या काचिद् विधिनाविधिनापि वा
सर्वं तदक्षयं तस्य भविष्यति न संशयः ८३
ज्येष्ठे मासि सिते पक्षे एकादश्यामुपोषितः
द्वादश्यां वामनं दृष्ट्वा स्नात्वा विष्णुपदे ह्रदे
दानं दत्त्वा यथाशक्त्या प्राप्नोति परमं पदम् ८४
लोमहर्षण उवाच
बलेर्वरमिमं दत्त्वा शक्राय च त्रिविष्टपम्
व्यापिना तेन रूपेण जगामादर्शनं हरिः ८५
शशास च यथापूर्वमिन्द्र स्त्रैलोक्यमूर्जितः
निःशेषं च तदा कालं बलिः पातालमास्थितः ८६
इत्येतत् कथितं तस्य विष्णोर्माहात्म्यमुत्तमम्
वामनस्य शृण्वन् यस्तु सर्वपापैः प्रमुच्यते ८७
बलिप्रह्लादसंवादं मन्त्रितं बलिशुक्रयोः
बलेर्विष्णोश्च चरितं ये स्मरिष्यन्ति मानवाः ८८
नाधयो व्याधयस्तेषां न च मोहाकुलं मनः
भविष्यति द्विजश्रेष्ठाः पुंसस्तस्य कदाचन ८९
च्युतराज्यो निजं राज्यमिष्टप्राप्तिं वियोगवान्
समाप्नेति महाभागा नरः श्रुत्वा कथामिमाम् ९०
ब्राह्मणो वेदमाप्नोति क्षत्रियो जयते महीम्
वैश्यो धनसमृद्धिं च शूद्रः सुखमवाप्नुयात्
वामनस्य च माहात्म्यं शृण्वन् पापैः प्रमुच्यते ९१
इति श्रीवामनपुराणे सरोमाहात्म्ये एकत्रिंशत्तमोऽध्यायः