वामनपुराणम्/नवसप्तसप्ततितमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

पुलस्त्य उवाच।।
कालिन्दीसलिले स्नात्वा पूजयित्वा त्रिविक्रमम्।
उपोष्य रजनीमेकां लिङ्गभेदं गिरिं ययौ।। ७९.१

तत्र स्नात्वा च विमले भवं दृष्ट्वा च भक्तितः।
उपोष्य रजनीमेकां तीर्थं केदारमाव्रजत्।। ७९.२

तत्र स्नात्वाऽर्च्य चेशानं माधवं चाप्यभेदतः।
उषित्वा वासरान् सप्त कुब्जाभ्रं प्रजगाम ह।। ७९.३

ततः सुतीर्थे स्नात्वा च सोपवासी जितेन्द्रियः.
हृषीकेशं समभ्यर्च्य ययौ बदरिकाश्रमम्।। ७९.४

तत्रोष्य नारायणमर्च्य भक्त्या स्नात्वाऽथ विद्वान् स सरस्वतीजले।
वराहतीर्थे गरुडासनं स दृष्ट्वाऽथ संपूज्य सुभक्तिमांश्च।। ७९.५

भद्रकर्णे ततो गत्वा जयेशं शशिशेखरम्।
दृष्ट्वा संपूज्य च शिवं विपाशामभितो ययौ।। ७९.६

तस्यां स्नात्वा समभ्यर्च्य देवदेवं द्विजप्रियम्।
उपवासी इरावत्यां ददर्श परमेश्वरम्।। ७९.७

यमाराध्य द्विजश्रेष्ठ शाकले वै पुरूरवाः।
समवाप परं रूपमैश्वर्य च सुदुर्लभम्।। ७९.८

कुष्ठरोगाभिभूतश्च यं समाराघ्य वै भृगुः।
आरोग्यमतुलं प्राप संतानमपि चाक्षयम्।। ७९.९

नारद उवाच।।
कथं पुरूरवा विष्णुमाराघ्य द्विजसत्तम।
विरूपत्वं समुत्सृज्य रूपं प्राप श्रिया सह।। ७९.१०

पुलस्त्य उवाच।।
श्रूयतां कथयिष्यामि कथां पापप्रणाशिनीम्।
पूर्वं त्रेतायुगस्यादौ यथावृत्तं तपोधन।। ७९.११

मद्रदेश इति ख्यातो देशो वै ब्रह्मणः सुत।
शाकलं नाम नगरं ख्यातं स्थानीयमुत्तमम्।। ७९.१२

तस्मिन् विपणिवृत्तिस्थः सुधर्माख्योऽभवद् वणिक्।
धनाढ्यो गुणवान् भोगी नानाशास्त्रविशारदः।। ७९.१३

स त्वेकदा निजाद् राष्ट्रात् सुराष्ट्रं गन्तुमद्यतः।
सार्थेन महता युक्तो नानाविपणपण्यवान्।। ७९.१४

गच्छतः पथि तस्याथ मरुभूमौ कलिप्रिय।
अभवद् दस्युतो रात्रौ अवस्कन्दोऽतिदुःसहः।। ७९.१५

ततः स हृतसर्वस्वो वणिग् दुःखसमन्वितः।
असहायो मरौ तस्मिश्चचारोन्मत्तवद् वशी।। ७९.१६

चरता तदरण्यं वै दुःखाक्रान्तेन नारद।
आत्मा इव शमीवृक्षो मरावासादितः शुभः।। ७९.१७

तं मृगैः पक्षिभिश्चैव हीनं दृष्ट्वा शमीतरुम् ।
श्रान्तः क्षुत्तृट्परीतात्मा तस्याधः समुपाविशत्।। ७९.१८

सुप्तश्चापि सुविश्रान्तो मध्याह्ने पुनरुत्थितः।
समपश्यदथायान्तं प्रेतं प्रेतशतैर्वृतम्।। ७९.१९

उद्वाह्यन्तमथान्येन प्रेतेन प्रेतनायकम्।
पिण्डाशिभिश्च पुरतो धावद्भी रूक्षविग्रहैः।। ७९.२०

अथाजगाम प्रेतोऽसौ पर्यटित्वा वनानि च।
उपागम्य शमीमूले वणिक्पुत्रं ददर्श सः।। ७९.२१

स्वागतेनाभिवाद्यैनं समाभाष्य परस्परम्।
सुखोपविष्टश्छायायां पृष्ट्वा कुशलमाप्तवान्।। ७९.२२

ततः प्रेताधिपतिना पृष्टः स तु वणिक्सखः।
कुत आगम्यते ब्रूहि क्व साधो वा गमिष्यसि।। ७९.२३

कथं चेदं महारण्यं मृगपक्षिविवर्जितम्।
समापन्नोऽसि भद्रं ते सर्वमाख्यातुमर्हसि।। ७९.२४

एवं प्रेताधिपतिना वणिक् पृष्टः समासतः।
सर्वमाख्यातवान् ब्रह्मन् स्वदेशधनविच्युतिम्।। ७९.२५

तस्य श्रुत्वा स वृत्तान्तं तस्य दुःखेन दुःखितः।
वणिक्पुत्रं ततः प्राह प्रेतपालः स्वबन्धुवत्।। ७९.२६

एवं गतेऽपि मा शोकं कर्तुमर्हसि सुव्रत।
भूयोऽप्यर्थाः भविष्यन्ति यदि भाग्यबलं तव।। ७९.२७

भाग्यक्षयेऽर्थाः क्षीयन्ते भवन्त्यभ्युदये पुनः।
क्षीणस्यास्य शरीरस्य चिन्तया नोदयो भवेत्।। ७९.२८

इत्युच्चार्य समाहूय स्वान् भृत्यान् वाक्यमब्रवीत्।
अद्यातिथिरयं पूज्यः सदैव स्वजनो मम।। ७९.२९

अस्मिन् समागते प्रेताः प्रीतिर्जाता ममातुला।। ७९.३०

एवं हि वदतस्तस्य मृत्पात्रं सुदृढं नवम्।
दध्योदनेन संपूर्णमाजगाम यथेप्सितम्।। ७९.३१

तथा न वा च सुदृढा संपूर्णा परमाम्भसा।
वारिधानी च संप्राप्ता प्रेतानामग्रतः स्थिता।। ७९.३२

तमागतं ससलिलमन्नं वीक्ष्य महामतिः।
प्राहोत्तिष्ठ वणिक्पुत्र त्वमाह्निकमुपाचर।। ७९.३३

ततस्तु वारिधान्यास्तौ सलिलेन विधानतः।
कृताह्निकावुभौ जातौ वणिक् प्रेतपतिस्तथा।। ७९.३४

ततो वणिक्सुतायादौ दध्योदनमथेच्छया।
दत्त्वा तेभ्यश्च सर्वेभ्यः प्रेतेभ्यो व्यददात् ततः।। ७९.३५

भुक्तवत्सु च सर्वेषु कामतोऽम्भसि सेविते।
अनन्तरं स बुभुजे प्रेतपालो वराशनम्।। ७९.३६

प्रकामतृप्ते प्रेते च वारिधान्योदनं तथा।
अन्तर्धानमगाद् ब्रह्मन् वणिक्पुत्रस्य पश्यतः।। ७९.३७

ततस्तदद्भुततमं दृष्ट्वा स मतिमान् वणिक्।
पप्रच्छ तं प्रेतपालं कौतूहलमना वशी।। ७९.३८

अरण्ये निर्जने साधो कुतोऽन्नस्य समुद्भवः।
कुतश्च वारिधानीयं संपूर्णा परमाम्भसा।। ७९.३९

तथामी तव ये भृत्यास्त्वत्तस्ते वर्णतः कृशाः।
भवानपि च तेजस्वी किंचित्पुष्टवपुः शुभः।। ७९.४०

शुक्लवस्त्रपरीधानो बहूनां परिपालकः।
सर्वमेतन्ममाचक्ष्व को भवान् का शमी त्वियम्।। ७९.४१

इत्थं वणिक्सुतवचः श्रुत्वाऽसौ प्रेतनायकः।
शशंस सर्वमस्याद्यं यथावृत्तं पुरातनम्।। ७९.४२

अहमासं पुरा विप्रः शाकले नगरोत्तमे।
सोमशर्मेति विख्यातो बहुलागर्भसंभवः।। ७९.४३

ममास्ति च वणिक् श्रीमान् प्रातिवेश्यो महाधनः।
स तु सोमश्रवा नाम विष्णुभक्तो महायशाः।। ७९.४४

सोऽहं कदर्यो मूढात्मा धनेऽपि सति दुर्मतिः।
न ददामि द्विजातिभ्यो न चाश्नाम्यन्नमुत्तमम्।। ७९.४५

प्रमादाद् यदि भुञ्जामि दधिक्षीरघृतान्वितम्।
ततो रात्रौ नृभिर् घोरैस्ताड्यते मम विग्रहः।। ७९.४६

प्रातर्भवति मे घोरा मृत्युतुल्या विषूचिका।
न च कश्चिन्ममाभ्यासे तत्र तिष्ठति बान्धवः।। ७९.४७

कथं कथमपि प्राणा मया संप्रतिधारिताः।
एवमेतादृशः पापी निवसाम्यतिनिर्घृणः।। ७९.४८

सौवीरतिलपिण्याकसक्तुशाकादिभोजनैः।
क्षपयामि कदन्नाद्यैरात्मानं कालयापनैः।। ७९.४९

एवं तत्रासतो मह्यं महान् कालोऽभ्यगादथ।
श्रवणद्वादशी नाम मासि भाद्रपदेऽभवत्।। ७९.५०

ततो नागरिको लोको गतः स्नातुं हि संगमम्।
इरावत्या नड्वलाया ब्रह्मक्षत्रपुरस्सरः।। ७९.५१

प्रातिवेश्यप्रसंगेन तत्राप्यनुगतोऽस्म्यहम्।
कृतोपवासः शुचिमानेकादश्यां यतव्रतः।। ७९.५२

ततः संगमतोयेन वारिधानीं दृढां नवाम्।
संपूर्णां वस्तुसंवीतां छत्रोपानहसंयुताम्।। ७९.७९

मृत्पात्रमपि मिष्टस्य पूर्णं दध्योदनस्य ह।
प्रदत्तं ब्राह्मणेन्द्राय शुचये ज्ञानधर्मिणे।। ७९.५४

तदेव जीवता दत्तं मया दानं वणिक्सुत।
वर्षाणां सप्ततीनां वै नान्यद् दत्तं हि किंचन।। ७९.५५

मृतः प्रेतत्वमापन्नो दत्त्वा प्रेतान्नमेव हि।
अमी चादत्तदानास्तु मदन्नेनोपजीविनः।। ७९.५६

एतत्ते कारणं प्रोक्तं यत्तदन्नं मयाम्भसा।
दत्तं तदिदमायाति मध्याह्नेऽपि दिने दिने।। ७९.५७

यावन्नाहं च भुञ्जामि न तावत् क्षयमेति वै।
मयि भुक्ते च पीते च सर्वमन्तर्हितं भवेत्।। ७९.५८

यच्चातपत्रमददं सोऽयं जातः शमीतरुः।
उपानद्युगले दत्ते प्रेतो मे वाहनोऽभवत्।। ७९.५९

इयं तवोक्ता धर्मज्ञ मया कीनाशतात्मनः।
श्रवणद्वादशीपुण्यं तवोक्तं पुणयवर्धनम्।। ७९.६०

इत्येवमुक्ते वचने वणिक्पुत्रोऽब्रवीद् वचः।
यन्मया तात कर्त्तव्यं तदनुज्ञातुमर्हसि।। ७९.६१

तत् तस्य वचनं श्रुत्वा वणिक्पुत्रस्य नारद।
प्रेतपालो वचः प्राह स्वार्थसिद्धिकरं ततः।। ७९.६२

यत् त्वया तात कर्त्तव्यं मद्धितार्थं महामते।
कथयिष्यामि तत् सम्यक् तव श्रेयस्करं मम।। ७९.६३

गयायां तीर्थजुष्टायां स्नात्वा शौचसमन्वितः।
मम नाम समुद्दिश्य पिण्डनिर्वपणं कुरु।। ७९.६४

तत्र पिण्डप्रदानेन प्रेतभावादहं सखे।
मुक्तस्तु सर्वदातॄणां यास्यामि सहलोकताम्।। ७९.६५

यथेयं द्वादशी पुण्या मासि प्रौष्ठपदे सिता।
बुधश्रवणसंयुक्ता साऽतिश्रेयस्करी स्मृता।। ७९.६६

इत्येवमुक्त्वा वणिजं प्रेतराजोऽनुगैः सह।
स्वनामानि यथान्यायं सम्यगाख्यातवाञ्छुचिः।। ७९.६७

प्रेतस्कन्धे समारोप्य त्याजितो मरुमण्डलम्।
रम्येऽथ शूरसेनाख्ये देशे प्राप्तः स वै वणिक्।। ७९.६८

स्वकर्मधर्मयोगेन धनमुच्चावचं बहु।
उपार्जयित्वा प्रययौ गयाशीर्षमनुत्तमम्।। ७९.६९

पिण्डनिर्वपणं तत्र प्रेतानामनुपूर्वशः।
चकार स्वपितॄणां च दायादानामनन्तरम्।। ७९.७०

आत्मनश्च महाबुद्धिर्महाबोध्यं तिलैर्विना।
पिण्डनिर्वपणं चक्रे तथान्यानपि गोत्रजान्।। ७९.७१

एवं प्रदत्तेष्वथ वै पिण्डेषु प्रेतभावतः।
विमुक्तास्ते द्विज प्रेता ब्रह्मलोकं ततो गताः।। ७९.७२

स चापि हि वणिक्पुत्रो निजमालयमाव्रजत्।
श्रवणद्वादशीं कृत्वा कालधर्ममुपेयिवान्।। ७९.७३

गन्धर्वलोके सुचिरं भोगान् भुक्त्वा सुदुर्लभान्।
मानुष्यं जन्ममासाद्य स बभौ शाकले विराट्।। ७९.७४

स्वधर्मकर्मवृत्तिस्थः श्रवणद्वादशीरतः।
कालधर्ममवाप्यासौ गुह्यकावासमाश्रयत्।। ७९.७५

तत्रोष्य सुचिरं कालं भोगान् भुक्त्वाऽथ कामतः।
मर्त्यलोकमनुप्राप्य राजन्यतनयोऽभवत्।। ७९.७६

तत्रापि क्षत्रवृत्तिस्थो दानभोगरतो वशी।
गोग्रहेऽरिगणाञ्जित्वा कालधर्ममुपेयिवान्।
शक्रलोकं स संप्राप्य देवैः सर्वैः सुपूजितः।। ७९.७७

पुण्यक्षयात् परिभ्रष्टः शाकले सोऽभवद् द्विजः।
ततो विकटरूपोऽसौ सर्वशास्त्रार्थपारगः।। ७९.७८

विवाहयद् द्विजसुतां रूपेणानुपमां द्विज।
सावमेने च भर्त्तारं सुशीलमपि भामिनी।। ७९.७९

विरूपमिति मन्वाना ततस्सोभूत् सुदुःखितः।
ततो निर्वेदसंयुक्तो गत्वाश्रमपदं महत्।। ७९.८०

इरावत्यास्तटे श्रीमान् रूपधारिणमासदत्।
तमाराध्य जगन्नाथं नक्षत्रपुरुषेण हि।। ७९.८१

सुरूपतामवाप्याग्र्यां तस्मिन्नेव च जन्मनि।
ततः प्रियोऽभूद् भार्याया भोगवांश्चाभवद् वशी।

श्रवणद्वादशीभक्तः पूर्वाभ्यासादजायत।। ७९.८२
एवं पुराऽसौ द्विजपुंगवस्तु कुरूपरूपो भगवत्प्रसादात्।

अनङ्गरूपप्रतिमो बभूव मृतश्च राजा स पुरूरवाऽभूत्।। ७९.८३

इति श्रीवामनपुराणे त्रिपञ्चाशोऽध्यायः ।। ७९ ।।