वामनपुराणम्/दशमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

पुलस्त्य उवाच
ततः प्रवृत्ते संग्रामे भीरूणां भयवर्धने।
सहस्रक्षो महाचापमादाय व्यसृजच्छरान्।। १०.१

अन्धकोऽपि महावेगं धनुराकृष्य भास्वरम्।
पुरंदराय चिक्षेप शरान् बर्हिणवाससः।। १०.२

तावन्योन्यं सुतीक्ष्णाग्रैः शरैः संनतपर्वभिः।
रुक्मपुङ्खैर्महावेगैराजघ्नतुरुभावपि।। १०.३

ततः क्रुद्धः शतमखः कुलिशं भ्राम्य पाणिना।
चिक्षेप दैत्यराजाय तं ददर्श तथान्धकः।। १०.४

आजघान च बाणौघैरस्त्रैः शस्त्रैः स नारद।
तान् भस्मसात्तदा चक्रे नगानिव हुताशनः।। १०.५

ततोऽतिवेगिनं वज्रं दृष्ट्वा बलवतां वरः।
समाप्लुत्य रथात्तस्थौ भुवि बाहु सहायवान्।। १०.६

रथं सारथिना सार्धं साश्वध्वजसकूबरम्।
भस्म कृत्वाथ कुलिशमन्धकं समुपाययौ।। १०.७

तमापतन्तं वेगेन मुष्टिनाहत्य भूतले।
पातयामास बलवान् जगर्ज च तदाऽन्धकः।। १०.८

तं गर्जमानं वीक्ष्याथ वासवः सायकैर्दृढम्।
ववर्ष तान् वारयन् स समभ्यायाच्छतक्रतुम्।। १०.९

आजघान तलेनेभं कुम्भमध्ये पदा करे।
जानुना च समाहत्य विषाणं प्रबभञ्ज च ।। १०.१०

वाममुष्ट्या तथा पार्श्वं समाहत्यान्धकस्त्वरन्।
गजेन्द्रं पातयामास प्रहारैर्जर्जरीकृतम्।। १०.११

गजेन्द्रात् पतमानाच्च अवप्लुत्य शतक्रतुः।
पाणिना वज्रमादाय प्रविवेशामरावतीम्।। १०.१२

पराङ्मुखे सहस्राक्षे तदा दैवतबलं महत्।
पातयामास द्रत्येन्द्रः पादमुष्टितलादिभिः।। १०.१३

ततो वैवस्वतो दण्डं परिभ्राम्य द्विजोत्तम।
समभ्यधावत् प्रह्लादं हन्तुकामः सुरोत्तमः।। १०.१४

तमापतन्तं बाणोघैर्ववर्ष रविनन्दनम्।
हिरण्यकशिपोः पुत्रश्चापमानम्य वेगवान्।। १०.१५

तां बाणवृष्टिमतुलां दण्डेनाहत्य भास्करिः।
शातयित्वा प्रचिक्षेप दण्डं लोकभयंकरम्।। १०.१६

स वायुपथमास्थाय धर्मराजकरे स्थितः।
जज्वाल कालग्निनिभो यद्वद् दग्धुं जगत्त्रयम्।। १०.१७

जाज्वल्यमानमायान्तं दण्डं दृष्ट्वा दितेः सुताः।
प्राक्रोशन्ति हतः कष्टं प्रह्लादोऽयं यमेन हि।। १०.१८

तमाक्रन्दितमाकर्ण्य हिरण्याक्षसुतोऽन्धकः।
प्रोवाच मा भैष्ट मयि स्थिते कोऽयं सुराधमः।। १०.१९

इत्येवमुक्त्वा वचनं वेगेनाभिससार च।
जग्राह पाणिना दण्डं हसन् सव्येन नारद।। १०.२0

तमादाय ततो वेगाद् भ्रामयामास चान्धकः।
जगर्ज च महानादं यथा प्रावृषि तोयदः।। १०.२१

प्रह्लादं रक्षितं दृष्ट्वा दण्डाद् दैत्येश्वरेण हि।
साधुवादं ददुर्हृष्टा दैत्यदानवयूथपाः।। १०.२२

भ्रामयन्तं महादण्डं दृष्ट्वा भानुसुतो मुने।
दुःसहं दुर्धरं मत्वा अन्तर्धानमगाद् यमः।। १०.२३

अन्तर्हिते धर्मराजे प्रह्लादोऽपि महामुने।
दारयामास बलवान् देवसैन्यं समन्ततः।। १०.२४

वरुणः शिशुमारस्थो बद्‌ध्वा पाशैर्महाऽसुरान्।
गदया दारयामास तमभ्यागाद् विरोचनः।। १०.२५

तोमरैर्वज्रसंस्पर्शैः शक्तिभिर्मार्गणैरपि।
जलेशं ताडयामास मुद्गरैः कणपैरपि।। १०.२६

ततस्तं गदयाऽभ्येत्य पातयित्वा धरातले।
अभिद्रुत्य बबन्धाथ पाशैर्मत्तगजं बली।। १०.२७

तान् पाशाञ्शतधा चक्रे वेगाच्च दनुजेश्वरः।
वरुणं च समभ्येत्य मध्ये जग्राह नारद।। १०.२८

ततो दन्ती च श्रृङ्गाभ्यां प्रचिक्षेप तदाऽव्ययः।
ममर्द च तथा पद्भ्यां सवाहं सलिलेश्वराम्।। १०.२९

तं मर्द्यमानं वीक्ष्याथ शशाङ्कः शिशिरांशुमान्।
अभ्येत्य ताडयामास मार्गणैः कायदारणैः।। १०.३0

स ताड्यमानः शिशिरांशुबाणैरवाप पीडां परमां गजेन्द्रः।
दुष्टश्च वेगात् पयसामधीशं मुहुर्मुहुः पादतलैर्ममर्द।। १०.३१

स मृद्यमानो वरुणो गजेन्द्रं पद्भ्यां सुगाढं जगृहे महर्षे।
पादेषु भूमिं करयोः स्पृशंश्च मूर्द्धानमुल्लाल्य बलान्महात्मा।। १०.३२

गृह्याङ्गुलीभिश्च गजस्य पुच्छं कृत्वेह बन्धं भुजगेश्वरेण।
उत्पाट्य चिक्षेप विरोचनं हि सकुञ्जरं खे सनियन्तृवाहम्।। १०.३३

क्षिप्तो जलेशेन विरोचनस्तु सकुञ्जरो भूमितले पपात।
साट्टं सन्यत्रार्गलहर्म्यभूमि पुरं सुकेशेरिव भास्करेण।। १०.३४

ततो जलेशः सगदः सपाशः समभ्यधावद् दितिजं निहन्तुम्।
ततः समाक्रन्दमनुत्तमं हि मुक्तं तु दैत्यैर्घनरावतुल्यम्।। १०.३५

हा हा हतोऽसौ वरुणेन वीरो विरोचनो दानवसैन्यपालः।
प्रह्लाद हे जम्भकुजम्भकाद्या रक्षध्वमभ्येत्य सहान्धकेन।। १०.३६

अहो महात्मा बलवाञ्जलेशः संचूर्णयन् दैत्यभटं सवाहम्।
पाशेन बद्‌ध्वा गदया निहन्ति यथा पशुं वाजिमखे महेन्द्रः।। १०.३७

श्रुतत्वाथ शब्दं दितिजैः समीरितं जम्भप्रधाना दितिजेश्वरास्ततः।
समभ्यधावंस्त्वरिता जलेश्वरं यथा पतङ्गा ज्वलितं हुताशनम्।। १०.३८

तानागतान् वै प्रसमीक्ष्य देवः प्राह्लादिमुत्सृज्य वितत्य पाशम्।
गदां समुद्भ्राम्य जलेश्वरस्तु दुद्राव तान् जम्भमुखानरातीन्।। १०.३९

जम्भं च पाशेन तथा निहत्य तारं तलेनाशनिसंनिभेन।
पादेन वृत्रं तरसा कुजम्भं निपातयामास बलं च मुष्ट्या।। १०.४0

तेनार्दिता देववरेण दैत्याः संप्राद्रवन् दिक्षु विमुक्तशस्त्राः।
ततोऽन्धकः सत्वरितोऽभ्युपेयाद् रणाय योद्‌धुं जलनायकेन।। १०.४१

तमापतन्तं गदया जघान पाशेन बद्‌ध्वा वरुणोऽसुरेशम्।
तं पाशमाविध्य गदां प्रगृह्य चिक्षेप दैत्यः स जलेश्वराय।। १०.४२

तमापतन्तं प्रसमीक्ष्य पाशं गदां च दाक्षायणिनन्दनस्तु।
विवेश वेगात् पयसां निधानं ततोऽन्धको देवबलं ममर्द।। १०.४३

ततो हुताशः सुरशत्रुसैन्यं ददाह रोषात् पवनावधूतः।
तमभ्ययाद् दानवविश्वकर्मा मयो महाबाहुरुदग्रवीर्यः।। १०.४४

तमापतन्तं सह शम्बरेण समीक्ष्य वह्निः पवनेन सार्धम्।
शक्त्या मयं शम्बरमेत्य कण्ठे संताड्य जग्राह बलान्महर्षे।। १०.४५

शक्त्या स कायावरणे विदारिते संभिन्नदेहो न्यपतत् पृथिव्याम्।
मयः प्रजज्वाल च शम्वरोऽपि कण्ठावलग्ने ज्वलने प्रदीप्ते।। १०.४६

स दह्यमानो दितिजोऽग्निनाऽथ सुविस्वरं घोरतरं रुराव।
सिंहाभिपन्नो विपिने यथैव मत्तो गजः क्रन्दति वेदनार्त्तः।। १०.४७

तं शब्दमाकर्ण्य च शम्बरस्य दैत्येश्वरः क्रोधविरक्तदृष्टिः।
आः किं किमेतन्ननु केन युद्धे जितो मयः शम्बरदानवश्च।। १०.४८

ततोऽब्रुवन् दैत्यभटा दितीशं प्रदह्यते ह्येष हुताशनेन।
रक्षस्व चाभ्येत्य न शक्यतेऽन्यैर्हुताशनो वारयितुं रणाग्रे।। १०.४९

इत्थं स दैत्यैरभिनोदितस्तु हिरण्यचक्षुस्तनयो महर्षे।
उद्यम्य वेगात् परिघं हुताशं समाद्रवत् तिष्ठ तिष्ठ ब्रुवन् हि।। १०.५0

श्रुत्वाऽन्धकस्यापि वचोऽव्ययात्मा संक्रुद्धचित्तस्त्वरितो हि दैत्यम्।
उत्पाट्य भूम्यां च विनिष्पिपेष ततोऽन्धकः पावकमाससाद।। १०.५१

समाजघानाथ हुताशनं हि वरायुधेनाथ वराङ्गमध्ये।
समाहतोऽग्निः परिमुच्य शम्बरं तथाऽन्धकं स त्वरितोऽभ्यधावत्।। १०.५२

तमापतन्तं परिघेण भूयः समाहनन्मूर्ध्नि तदान्धकोऽपि।
स ताडितोऽग्निर्दितिजेश्वरेण भयात् प्रदुद्राव रणाजिराद्वि।। १०.५३

ततोऽन्धको मारुतचन्द्रभास्करान् साध्यान् सरुद्राश्विवसून् महोरगान्।
यान् याञ्शरेण स्पृशते पराक्रमी पराङ्मुखांस्तान्कृतवान् रणाजिरात्।। १०.५४

ततो विजित्यामरसैन्यमुग्रं सेन्द्रं सरुद्रं सयमं ससोमम्।
संपूज्यमानो दनुपुंगवैस्तु तदाऽन्धको भूमिमुपाजगाम।। १०.५५

आसाद्य भूमिं करदान् नरेन्द्रान् कृत्वा वशे स्थाप्य चराचरं च।
जगत्समग्रं प्रविवेश धीमान् पातालमग्र्यं पुरमश्मकाह्वम्।। १०.५६

तत्र स्थितस्यापि महाऽसुरस्य गन्धर्वविद्याधरसिद्धसंघाः।
सहाप्सरोभिः परिचारणाय पातालमभ्येत्य समावसन्तःश्।। १०.५७

इति श्रीवामनपुराणे दशमोऽध्यायः ।। १० ।।