वामनपुराणम्/द्विपञ्चाषत्तमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

पुलस्त्य उवाच।।
ततः संपूजितो रुद्रः शैलेन प्रीतिमानभूत्।
सस्मार च महर्षिस्तु अरुन्धत्या समं ततः।। ५२.१

ते संस्मृतास्तु ऋषयः शंकरेण महात्मना।
समाजग्मुर्महाशैलं मन्दरं चारुकन्दरम्।। ५२.२

तानागतान् समीक्ष्यैव देवस्त्रिपुरनाशनः।
अभ्युत्थायाभिपूज्यैतानिदं वचनमब्रवीत्।। ५२.३

धन्योऽयं पर्वतश्रेष्ठः श्लाघ्यः पूज्यश्च दैवतैः।
धूतपापस्तथा जातो भवतां पादपङ्कजैः।। ५२.४

स्थीयतां विस्तृते रम्ये गिरिप्रस्थे समे शुभे।
शिलासु पद्मवर्णासु श्लक्ष्णासु च मृदुष्वपि।। ५२.५

पुलस्त्य उवाच।।
इत्येवमुक्ता देवेन संकरेण महर्षयः।
सममेव त्वरुन्धत्या विविशुः शैलसानुनि।। ५२.६

उपविष्टेषु ऋषिषु नन्दी देवगणाग्रणीः।
अर्घ्यादिना समभ्यर्च्य स्थितः प्रयतमानसः।। ५२.७

ततोऽब्रवीत् सुरपतिर्धर्म्यं वाक्यं हितं सुरान्।
आत्मनो यशसो वृद्ध्यै सप्तर्षीन् विनयान्वितान्।। ५२.८

हर उवाच।।
कश्यपात्रे वारुणेय गाधेय श्रृणु गौतम।
भरद्वाज श्रृणुष्व त्वमङ्गिरस्त्वं श्रृणुष्व च।। ५२.९

ममासीद् दक्षतनुजा प्रिया सा दक्षकोपतः।
उत्ससर्ज सती प्राणान् योगदृष्ट्या पुरा किल।। ५२.१०

साऽद्य भूयः समुद्भूता शैलराजसुता उमा।
सा मदर्थाय शैलेन्द्रो याच्यतां द्विजसत्तमाः।। ५२.११

पुलस्त्य उवाच।।
सप्तर्षयस्त्वेवमुक्ता बाढमित्यब्रुवन् वचः।
ॐनमः शंकरायेति प्रोक्त्वा जग्मुर्हिमालयम्।। ५२.१२

ततोऽप्यरुन्धतीं शर्वः प्राह गच्छस्व सुन्दरि।
पुरन्ध्र्यो हि पुरन्ध्रीणां गतिं धर्मस्य वै विदुः।। ५२.१३

इत्येवमुक्ता दुर्लङ्घ्यं लोकाचारं त्वरुन्धती।
नमस्ते रुद्र इत्युक्त्वा जगाम पतिना सह।। ५२.१४

गत्वा हिमाद्रिशिखरमोषधिप्रस्थमेव च।
ददृशुः शैलराजस्य पुरीं सुरपुरीमिव।। ५२.१५

ततः संपूज्यमानास्ते शैलयोषिद्भिरादरात्।
सुनाभादिभिरव्यग्रैः पुज्यमानास्तु पर्वतैः।। ५२.१६

गन्धर्वैः किंनरैर्यक्षैस्तथान्यैस्तत्पुरस्सरैः।
विविशुर्भवनं रम्यं हिमाद्रेर्हाटकोज्ज्वलम्।। ५२.१७

ततः सर्वे महात्मानास्तपसा धौतकल्मषाः।
समासाद्य महाद्वारं संतस्थुर्द्वाःस्थकारणात्।। ५२.१८

ततस्तु त्वरितोऽभ्यागाद् द्वाःस्थोऽद्रिर्गन्धमादनः
धारयन् वै करे दण्डं पद्मरागमयं महत्।। ५२.१९

ततस्तमूचुर्मुनयो गत्वा शैलपतिं शुभम्।
निवेदयास्मान् संप्राप्तान् महत्कार्यार्थिनो वयम्।। ५२.२०

इत्येवमुक्तः शैलेन्द्रो ऋषिभिर्गन्धमादनः।
जगाम तत्र यत्रास्ते शैलराजोऽद्रिभिर्वृतः।। ५२.२१

निषण्णो भुवि जानुभ्यां दत्त्वा हस्तौ मुखे गिरिः।
दण्डं निक्षिप्य कक्षायामिदं वचनमब्रवीत्।। ५२.२२

गन्धमादन उवाच।।
इमे हि ऋषयः प्राप्ताः शैलराज तवार्थिनः।
द्वारे स्थिताः कार्यिणस्ते तव दर्शनलालसाः।। ५२.२३

पुलस्त्य उवाच।।
द्वाःस्थवाक्यं समाकर्ण्य समुत्थायाचलेश्वरः।
स्वयमभ्यागमद् द्वारि समादायार्घ्यमुत्तमम्।। ५२.२४

तानर्च्यार्घ्यादिना शैलः समानीय सभातलम्।
उवाच वाक्यं वाक्यज्ञः कृतासनपरिग्रहान्।। ५२.२५

हिमवानुवाच।।
अनभ्रवृष्टिः किमियमुताहोऽकुसुमं फलम्।
अप्रतर्क्यमचिन्त्यं च भवदागमनं त्विदम्।। ५२.५२

अद्यप्रभृति धन्योऽस्मि शैलराडद्य सत्तमाः।
संशुद्धदेहोऽस्म्यद्यैव यद् भवन्तो ममाजिरम्।। ५२.२७

आत्मसंसर्गसंशुद्धं कृतवन्तो द्विजोत्तमाः।
दृष्टिपूतं पदाक्रान्तं तीर्थं सारस्वतं यथा।। ५२.२८

दासोऽहं भवतां विप्राः कृतपुण्यश्च सांप्रतम्।
येनार्थिनो हि ते यूयं तन्ममाज्ञातुमर्हथ।। ५२.२९

सदारोऽहं समं पुत्रैर्भृत्यैर्नप्तृभिरव्ययाः।
किंकरोऽस्मि स्थितो युष्मदाज्ञाकारी तदुच्यताम्।। ५२.३०

पुलस्त्य उवाच।।
शैलराजवचः श्रुत्वा ऋषयः संशितव्रतः।
ऊचुरङ्गिरसं वृद्धं कार्यमद्रौ निवेदय।। ५२.३१

इत्येवं चोदितः सर्वैर्ऋषिभिः कश्यपादिभिः।
प्रत्युवाच परं वाक्यं गिरिराजं तमङ्गिराः।। ५२.३२

अङ्गिरा उवाच।।
श्रूयतां पर्वतश्रेष्ठ येन कार्येण वै वयम्।
समागतास्त्वत्सदनमरुन्धत्या समं गिरे।। ५२.३३

योऽसौ महात्मा सर्वात्मा दक्षयज्ञक्षयंकरः।
शंकरः शूलधृक् शर्वस्त्रिनेत्रो वृषवाहनः।। ५२.३४

जीमूतकेतुः शत्रुघ्नो यज्ञभोक्ता स्वयं प्रभुः।
यमीश्वरं वदन्त्येके शिवं स्थाणुं भवं हरम्।। ५२.३५

भीममुग्रं महेशानं महादेवं पशोः पतिम्।
वयं तेन प्रेषिताः स्मस्त्वत्सकाशं गिरीश्वर।। ५२.३६

इयं या त्वत्सुता काली सर्वलोकेषु सुन्दरी।
तां प्रार्थयति देवेशस्तां भवान् दातुमर्हति।। ५२.३७

स एव धन्यो हि पिता यस्य पुत्री शुभं पतिम्।
रूपाभिजनसंपत्त्या प्राप्नोति गिरिसत्तम।। ५२.३८

यावन्तो जङ्गमागम्या भूताः शैल चतुर्विधाः।
तेषां माता त्वियं देवी यतः प्रोक्तः पिता हरः।। ५२.३९

प्रणम्य शंकरं देवाः प्रणमन्तु सुतां तव।
कुरुष्व पादं शत्रूणां मूर्ध्नि भस्मपरिप्लुतम्।। ५२.४०

याचितारो वयं शर्वो वरो दाता त्वमप्युमा।
वधूः सर्वजगन्माता कुरु यच्छ्रेयसे तव।। ५२.४१

पुलस्त्य उवाच।।
तद्वचोऽङ्गिरसः श्रुत्वा काली तस्थावधोमुखी।
हर्षमागत्य सहसा पुनर्दैन्यमुपागता।। ५२.४२

ततः शैलपतिः प्राह पर्वतं गन्धमादनम्।
गच्छ शैलानुपामन्त्र्य सर्वानागान्तुर्महसि।। ५२.४३

ततः शीघ्रतरः शैलो गृहाद् गृहमगाज्जवी।
मेर्वादीन् पर्वतश्रेष्ठानाजुहाव समंततः।। ५२.४४

तेऽप्याजग्मुस्त्वरावन्तः कार्यं मत्वा महत्तदा।
विविशुर्विस्मयाविष्टाः सौवर्णेष्वासनेषु ते।। ५२.४५

उदयो हेमकूटश्च रम्यको मन्दरस्तथा।
उद्दालको वारुणश्च वराहो गरुडासनः।। ५२.४६

शुक्तिमान् वेगसानुश्च दृढश्रृङ्गोऽथ श्रृङ्गवान्।
चित्रकूटस्त्रिकूटश्च तथा मन्दरकाचलः।। ५२.४७

विन्ध्यश्च मलयश्चैव पारियात्रोऽथ दुर्दरः।
कैलासाद्रिर्महेन्द्रश्च निषधोऽञ्जनपर्वतः।। ५२.४८

एते प्रधाना गिरयस्तथाऽन्ये क्षुद्रपर्वताः।
उपविष्टाः सभायां वै प्रणिपत्य ऋषिंश्च तान्।। ५२.४९

ततो गिरीशः स्वां भार्यां मेनामाहूतवांश्च सः।
समागच्छत कल्याणी समं पुत्रेण भामिनी।। ५२.५०

साऽभिवन्द्य ऋषीणां हि चारणांश्च तपस्विनी।
सर्वान् ज्ञातीन् समाभाष्य विवेश ससुता ततः।। ५२.५१

ततोऽद्रिषु महाशैल उपविष्टेषु नारद।
उवाच वाक्यं वाक्यज्ञः सर्वानाभाष्य सुस्वरम्।। ५२.५२

हिमवानुवाच।।
इमे सप्तर्षयः पुण्या याचितारः सुतां मम।
महेश्वरार्थं कन्यां तु तच्चावेद्यं भवत्सु वै।। ५२.५३

तद् वदध्वं यथाप्रज्ञं ज्ञातयो यूयमेव मे।
नोल्लङ्घ्य युष्मान् दास्यामि तत्क्षमं वक्तुमर्हथ।। ५२.५४

पुलस्त्य उवाच।।
हिमवद्वचनं श्रुत्वा मेर्वाद्याः स्थावरोत्तमाः।
सर्व एवाब्रुवन् वाक्यं स्थिताः स्वेष्वासनेषु ते।। ५२.५५

याचितारश्च मुनयो वरस्त्रिपुरहा हरः।
दीयतां शैल कालीयं जामाताऽभिमतो हि नः।। ५२.५६

मेनाप्यथाह भर्तारं श्रृणु शैलेन्द्र मद्वचः।
पितृनाराध्य देवैस्तैर्दत्ताऽनेनैव हेतुना।। ५२.५७

यस्त्वस्यां भूतपतिना पुत्रो जातो भविष्यति।
स हनिष्यति दैत्यैन्द्रं महिषं तारकं तथा।। ५२.५८

इत्येवं मेनया प्रोक्तः शैलैः शैलेश्वरः सुताम्।
प्रोवाच पुत्रि दत्ताऽसि शर्वाय त्वं मयाऽधुना।। ५२.५९

ऋषीनुवाच कालीयं मम पुत्री तपोधनाः।
प्रणामं संकरवधूर्भक्तिनम्रा करोति वः।। ५२.६०

ततोऽप्यरुन्धती कालीमङ्कमारोप्य चाटुकैः।
लज्जमानां समाश्वास्य हरनामोदितैः शुभैः।। ५२.६१

ततः सप्तर्षयः प्रोचुः शैलराज निशामय।
जामित्रगुणसंयुक्तां तिथिं पुण्यां सुमङ्गलाम्।। ५२.६२

उत्तराफाल्गुनीयोगं तृतीयेऽह्नि हिमांशुमान्।
गमिष्यति च तत्रोक्तो मुहूर्त्तो मैत्रनामकः।। ५२.६३

तस्यां तिथ्यां हरः पाणिं ग्रहीष्यति समन्त्रकम्।
तव पुत्र्या वयं यामस्तदनुज्ञातुमर्हसि।। ५२.६४

ततः संपूज्य विधिना फलमूलादिभिः शुभैः।
विसर्जयामास शनैः शैलराड् ऋषिपुंगवान्।। ५२.६५

तेऽप्याजग्मुर्महावेगात् त्वाक्रम्य मरुदालयम्।
आसाद्य मन्दरगिरिं भूयोऽवन्दन्त शंकरम्।। ५२.६६

प्रणम्योचुर्महेशानं भवान् भर्त्ताऽद्रिजा वधुः।
सब्रह्मकास्त्रयो लोका द्रक्ष्यन्ति घनवाहनम्।। ५२.६७

ततो महेश्वरः प्रीतो मुनीन् सर्वाननुक्रमात्।
पूजयामास विधिना अरुन्धत्या समं हरः।। ५२.६८

ततः संपूजिता जग्मुः सुराणां मन्त्रणाय ते।
तेऽप्याजग्मुर्हरं द्रष्टुं ब्रह्मविष्ण्विन्द्रभास्कराः।। ५२.६९

गेहं ततोऽभ्येत्य महेश्वरस्य कृतप्रणामा विविशुर्महर्षे।
सस्मार नन्दिप्रमुखांश्च सर्वानभ्येत्य ते वन्द्य हरं निषण्णाः।। ५२.७०

देवैर्गणैश्चापि वृतो गिरीशः स शोभते मुक्तजटाग्रभारः।
यता वने सर्ज्जकदम्बमध्ये प्ररोहमूलोऽथ वनस्पतिर्वै।। ५२.७१

इति श्रीवामनपुराणे षड्विंशोऽध्यायः ।।